________________ जैनगीतासम्बन्धः 164 000000000000000000 समेत्य स्वामिनः पार्चे पप्रच्छतुः प्रभु च तौ / स्वामिन् ! अशोकवृक्षस्य छाया नमति नो कथम् ? // 3 // प्रभुः प्राह पुरि शौर्ये समुद्रविजयाभिधः / नृपोऽभवद्यदा न्यायी यादवानां शिरोमणिः // 4 // तापसस्य तदा यज्ञ-यशसः सोममित्रिका / पत्न्यासीत्तनयो यज्ञ-दत्तः सोमयशा स्नुषा // 5 // यज्ञदत्तस्य पुत्रोऽभू-न्नारदाह्वो मनोहरः / सोऽर्हद्धर्मरुचिर्जन्म यावदासील्लसत्तनुः // 6 // उञ्छवृत्ति वितन्वाना यज्ञयशोमुखाः प्रगे / एकान्तरोपवासादि कुर्वते प्रतिवासरम् // 7 / / अन्यदा नारदं बालं मुक्त्वाऽशोकतरोरधः / उञ्छकृत्यर्थमन्यत्र जग्मुर्यज्ञयशोमुखाः // 8 // इतो वैताळ्यभूमिधान् व्रजद्भिज म्भिकामरैः / स्वनिकायाच्युतो बालो विज्ञातोऽवधितस्तदा // 6 // स्तम्भयित्वा तरोस्तस्य छायां ते निर्जरा ययुः / पश्चात्ते जम्भिका आग-च्छन्तस्तं ददृशुस्तथा // 10 // नीत्वा तं बालकं स्वीप-स्थाने ते ज़म्भकामराः / प्रज्ञप्तिरोहिणीमुख्या विद्यास्तस्मै वितेनिरे // 11 // माणिक्यपादुकारूढो हेमकुण्डलिकाकरः / नभोऽध्वना व्रजन्नित्यं तीर्थानि वन्दते स च // 12 // शीलवतधरो मुञ्ज-जटामण्डितमस्तकः / चारित्रिणो यतीन् भक्त्या वन्दते नारदोऽनिशम् / 13 / / अन्यदा नारदो द्वार-वत्यां यातो मुरारिणा / प्रणम्य भक्तितः पृष्टः किं शौचमुच्यते सता ? // 14 // प्रत्युत्तरस्य दाने त्वसमर्थो नारदस्तदा / गत्वा पूर्व विदेहेष्व-नसीत् सीमन्धरं जिनम् // 1 // ततोऽवग् नारदः स्वामिन् ! सत्यं कि प्रोच्यते बुधैः / सीमन्धरो जिनोऽवोचत् सत्यं शौचं निगद्यते // 16 // पुनः कृष्णेन शौचार्थे पृष्टे स्वं नारदस्ततः / विदेहे ज्वपरेऽप्राक्षी-न्नत्वा युगन्धरं जिनम् // 17 // किं सत्यं प्रोच्यते स्वामी जगौ तपो निगद्यते / एवं बाहुर्जगाविन्द्र-निग्रहं नारदाग्रतः // 18|| दयां सुबाहुराचष्ट श्रु त्वेतन्नारदोऽखिलम् / (द्वारवत्यां समागत्य ) जगौ मुरद्विषः पुरः // 16 // पुनः कृष्णेन शौचार्थे पृष्ट दध्यौ च नारदः / ऊहापोहपरो जाति-स्मृतिमान् प्रोक्तवानिति // 20 // सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः / सर्वभूतदया शौचं जलशौचं च पञ्चमम् // 21 // भूत्वा प्रत्येकवुद्धः स शौचाध्ययनमद्भुतम् / नारदः प्रोक्तवान् कृष्ण-भूपबोधाय तत्क्षणम् / / 22 / / नक्त दिनं निमजन्तः कैवर्ताः किन्तु पाप्मनाः / शतशोऽपि तथा स्नाता न शुद्धा भावदृषिताः // 23 // चित्तं शमादिभिः शुद्धं वचनं सत्यभाषणैः / ब्रह्मचर्यादिभिः कायः शुद्धो योगी (जल) विनाऽप्यहो ! // 24 // मृदो भारसहस्रण जलकुम्भशतेन च / न शुध्यनि दुराचाराः स्नातास्तीथशतैरपि / / 25 / / आग्नेयं वारुणं ब्राहम्यं वायव्यं दिव्य मेव च / पार्थिवं मानसं चैव स्नानं सप्तविधं स्मृतम् // 26 // सप्त स्नानानि प्रोक्तानि स्वयमेव स्वयम्भुवा / द्रव्यभावविशुद्धयर्थं ऋषीणां ब्रह्मचारिणाम् / / 27 / / इत्यादि नारदो विहरन् सोऽपि भुवि प्रबोधयन् जनान् / शत्रुञ्जये ययौ भूरि-साधुसन्ततिसेवितः // 28 // इतस्तदा रमापुर्या भूपो मदनमण्डनः / सप्तकोटिमितश्राद्ध-युतस्तत्र समागमत् / / 26 / / प्रपूज्य वृषभं देवं जिनानन्यानपि क्रमात् / स्वामिनः पादुकां पूज-यामास भूपतिमुदा / / 30 / / ततः प्रदक्षिणां दत्त्वा राजादन्या महीपतिः / संघयुग वर्द्धयामास मुदा मुक्ताफलैः क्रमात् // 31 // ततो नरपतिर्गत्वा नारदस्यान्तिके मुदा / नत्वा सिद्धाद्रिमाहात्म्य-मश्रोषीदिति सादरम् // 32 // तावद् गर्जन्ति हत्यादि-पातकानीह सर्वतः / यावच्छत्रुञ्जपेत्याख्या श्र यते न गुरो मुखात् // 33 //