________________ शत्रुञ्जय-कल्पवृत्तौ 000000000000000000000000000000 0000000000000000000000000000000000000000000000000000000000000000000000000000000000000 ततो दाशरथिर्ज्ञानी विहरन् वसुधातले / अयोध्यानगरो-पान्तवनेऽथ समवासरत् // 1637 / / उद्यानपालकाद्राम-मागतं नगरान्तिके / श्रुत्वाङ्क शलवौ (तौ तु) धर्म श्रोतु समागतौ // 1638 // ततो रामो ददौ धर्मो-पदेशमिति सादरम् / धर्मादेव शिवप्राप्ति-र्जायते देहिनां किल / / 1636 // "आयुर्वायुचलं सुरेश्वरधनुर्लोलं चलं यौवनं, विद्युद्दण्डतलं धनं गिरिनदीकल्लोलवचञ्चलम् / स्नेहं कुञ्जरकर्णतालचपलं देहं च रोगाकुलं, ज्ञात्वा भव्यजनाः सदा कुरुत भो ! धर्म महानिश्चलम् // 1 // कर्तव्या देवपूजा शुभगुरुवचनं नित्यमाकर्णनीयं, दानं देयं सुपात्रे प्रतिदिनममलं शीलनीयं च शीलम् / तप्यं शुद्ध विशालं तप इह महती भावना भावनीया, श्राद्धानामेष धर्मो जिनपतिगदितः पृतनिर्वाणमार्गः // श्रुत्वेति रामवचनं तदाऽङ्क शलवौ नृपौ। वैराग्यवासितस्वान्तौ दीक्षां गृहीतुमास्ताम् // 1641 // ततः स्वं स्वं सुतं राज्ये न्यस्याङ्क शलवौ नृपी / दीक्षां दाशरथेः पार्श्वे ललतुः शिवहेतवे / / 1642 // सामाचारी गुरुप्रोक्तां कुर्वाणौ तु लवाङ्क शौ / पेठतुभूरिशास्त्राणि जिनोक्तानि कृतादरम् / / 1643 / / क्रमादवधिविज्ञानं सम्प्राप्यचाङ्क शलवौ / भूरीन् भव्याङ्गिनो धम्म बोधयतः स्म सन्ततम् // 1644 // अन्येयू राघवो ज्ञानी विहरन् मेदिनीतले / साधुकोटित्रयीयुक्तः सिद्धाद्रौ समुपागमत् // 1645 / / तत्र राममुनिः शत्रु-ञ्जयतीर्थनतेः फलम् / साधुभ्यः कथयामास सदेति मुक्तिहेतवे / / 1646 / / / प्राणिभियं समारूढै र्लोकाग्रमतिदुर्लभम् / प्राप्यते स च सिद्धाद्रि-र्जयतात् सुचिरं भुवि // 1647 // बहुपापा अपि प्राण-भाजः शत्रुञ्जयाचले / तीव्रतपो वितन्वानाः शिवं यास्यन्ति यान्ति च // 1648|| मुक्त षु तीर्थनाथेषु गते ज्ञाने च केवले / लोकानां तारकः सिद्ध-शैलोऽयं कीर्तितो भवेत् // 1646 / / तीर्थे शत्रुञ्जये ध्यायन जिनं प्रपूजयन् भवी / अचिरेणैव कालेन लभते शिवसम्पदम् // 1650 // इत्यादि तीर्थमाहात्म्यं शृण्वन्तः सन्ततं मुदा / कोटित्रयमिता वाचं-यमाः प्रापुः विदं वराम् / / 1651 / / साधुकोटित्रयीयुक्तः क्षीणकाष्टकवजः / रामः शत्रुञ्जये तीर्थेऽलञ्चक्रे शिवपत्तनम् // 1652 / / सम्प्राप्य केवलज्ञानं सिद्धशैलेऽङ्क शलवौ / भूरि साधुयुतो मुक्ति जग्मतुः पातकक्षयात् // 1653 // इत्यादि विस्तराद् राम-चरित्रं शिवदायकम् / ज्ञेयं पद्मचरित्रातु भव्यैः स्वहितमिच्छुभिः / / 1654 // मुनिसुन्दरसूरीशां तपागच्छखभास्वताम् / शुभशीलाभिधः शिष्य-श्चकारनं कथानकम् // 1655 / / * इति रामनरेन्द्रकथा समाप्ता * // अथ नारदमुक्तिगमनस्वरूपम् / / जहि रामाइतिकोडी इगनवई नारयाइमुणि लक्खा / जाया य सिद्धराया जयउ तयं पुंडरी तित्थं // 20 // नारदानां मुनीनां सम्बन्धः प्रोच्यतेश्रीवीरस्याहतो धर्म-घोषो धर्मयशाः पुनः / विनयौ द्वावजायेतां चारित्राराधनादरौ // 1 // अशोकपादपस्याधः स्थितौ तौ संयतौ तदा / स्वाध्यायं कुरुतः स्मोच्चै-स्तच्छाया नाऽनमत् तदा / / 2 / /