________________ जैनगीतासम्बन्धः 177 B00000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000 अतः स दुःशको भूपो मधुसुरसदामपि / बलवन्तो झटा लक्ष-मितास्तं संश्रिताः किल // 1108 // पालयन् पृथिवीं न्याया-न्नैव केनापि जिप्यते / ततः कथं पुरी सा तु तुभ्यं प्रदास्यतेऽधुना ? // 1106 // शत्रुघ्नोऽवगह जित्वा मधुभूपं बलोत्कटम् / राज्यं लास्यामि मह्य तु त्वमादेशं प्रदेहि हि // 1110 // रामस्याऽऽदेशमादाय शत्रुघ्नो वैरिणं प्रति / जेतु चचाल यावच तावन्माता जगाविति // 1111 // पुत्र ! सोऽस्ति बली वैरी सन्तोषं कुर्वतस्त्वकम् / शत्रुघ्नोऽवग् जिना मद्य राज्यं दास्यन्ति निश्चितम्॥१११२ यतः तिलोकमंगला वि हु असुरसुरणमंसिया भयविमुक्का / ते दितु मंगलं मम जिअभावरिउबला सव्वे // रामोऽवक् छलतो वैरी जिप्यते न बलेन च / यतश्छली स विद्यते विद्याशस्त्रादिभिभृशम् / / 1114 // ततो जिनालये गत्वा प्रणम्य वृषभं जिनम् / शत्रुघ्नः सबलोऽचाली-ज्जेतु शत्रु शुभेऽहनि // 1115 // समेत्य मथुरोपान्ते शत्रुघ्नो यावता स्थितः / तावन्मन्त्री जगौ दुष्टो दुर्जयो विद्यते मधुः // 1116|| अतिवीर्यश्च गन्धारो वरवीर्यो महीपतिः / मधुना विजितः पूर्व शूलं च धरता करे // 1117 // इतोऽन्यः सुभटोऽभ्येत्य जगौ शत्रुघ्नं साम्प्रतम् / मथुराया बहिर्रमो-द्यानेऽस्ति मधुभूपतिः / / 1118 / नर्तकीपार्श्वतो नृत्यं कारयन् मधुभूपतिः / न वेत्यस्तमितं सूर्य-मुद्गतं च विलोकयन् // 1116 / / येन शूलेन मधुना जिप्यन्ते वैरिणः खलु / तदस्त्रं विद्यते गेहे पुर्यन्तः तत्र गम्यते // 1120 // श्रुत्वेति नगरद्वारं भक्त्वा शत्रुघ्नभूपतिः / प्रविश्य मथुरामध्ये जयढक्कामवादयत् // 1121 / / जयढक्कारवं श्रुत्वा प्रविष्टं वैरिणं पुरि / ज्ञात्वा मधू रणं कत्त समागान्मथुरामुखे // 1122 / / शूलरिक्तो मधुयुद्धयन् बलिष्टोऽपि रणाङ्गणे / वेष्टितः परितोऽत्यन्तं शत्रुघ्नेन महीभुजा // 1123 / / तदा मधुसुतोऽतीव बलिष्ठो लवणाभिधः / युद्धं कुर्वन् हतो मृत्यु-मगात् शत्रुघ्नभूभुजा // 1124|| दृष्ट्वा हतं सुतं क्रोध-वह्निना ज्वलितो मधुः ।उत्थितो यमवद् युद्ध कुर्वन् साद्ध च शत्रुणा // 1125 // त्रिशूलरहितोऽप्येष मधुर्महाबलो नृपम् / शत्रुघ्न न समं युद्धं मासमेकं व्यधात्तदा / / 1126 // भागतं मरणं दृष्ट्वा पुत्रशोकसमाकुलः / मधुर्दध्यौ मया पूर्व किं लले न हि संयमः // 1127 / / यत:-"मरणं णाऊण धुवं कुसुमसमं जोव्यणं चला रिद्धि / अवसण मए तइया ण को धम्मो एमाएवं // 1 / / / पञ्जलियम्मि वि भवणे कूबतलायस्स खणणमारंभो / अहिणा दट्ठस्म जए को कालो मन्तजवणस्स / 2 / तम्हा पुरिसेण जए अप्पहिनं निययमेव कायव्यं / मरणम्मि समावडीए संपइ समरामि अरहंत / 3 / / अरहते सिद्धे चित्र साहु तह केवलीय धम्मो य / एए हवंति निययं चत्तारि वि मंगलं मझ // 4 // एगो जायइ जीवो इक्को उप्पजइ भमइ इक्को / सो चेव मरइ इको इको चित्र पावए सिद्धिं // 5 // " ध्यात्वेति त्यक्तशस्त्रादि-मधुलु श्चितमस्तकः / सर्वसावधविरति - मुच्चचार स्वयं तदा // 1128 / / तत्रैत्य निर्जरा व्योम्नि मधुसंयतमस्तके ! व्यधुः कुसुमवृष्टिं तु देववाद्यपुरस्सरम् / / 1126 / / शत्रुघ्न न ततस्तत्रा-भ्येत्य तस्य पदोस्तले / पतित्वा क्षमितो मिथ्या-दुष्कृतस्य प्रदानतः // 1130 / / त्वं मधो ! भाग्यवानेव यतो राज्यं तृणवत्तदा / त्यक्त्वाऽऽदाः संयम मुक्ति-सुखसन्ततिदायकम् // 1131 अहं तु परराज्येप्सु-रस्मि दुष्टमना भृशम् / मम श्वन विनाज्यत्र गतिर्नान्या भविष्यति / / 1132 / /