________________ 176 शत्रुञ्जय-कल्पवृत्तौ 00000000000000000000000000000 00000000000000000000000000000m अन्ये तु बहवो भूपाः श्राद्धधर्म दयामयम् / अङ्गीचक्र स्तथाऽन्येऽपि लोका मुदितमानसाः / 1077! / इतो भरतमवाप्त-संयमं वीक्ष्य कैकयी / मूर्च्छया न्यपतद् भूमौ सूनोवियोगदुःखिता // 1078 / / क्षणात् समुत्थिता राज्ञी कैकयी ज्ञानिना तदा / प्रोक्ता किं क्रियते शोकः सूनोवियोगजस्त्वया // 1076 / / अनन्ता नन्दना जाता अनन्तेषु भवेष्वहो / तेषां वियोग आसीत्ते शोकोऽतः क्रियते कथम् // 1080 // यत उक्त च-"माता पितृसहस्राणि पुत्रदारशतानि च / संसारेऽत्र व्यतीतानि कस्याऽहं कस्य बान्धवाः // अहं तात ! त्वया जातो मया त्वं च सहस्रशः / सुत एव पिता जातस्तातमायाविमोहितः // 1082 / / संसारे विविधैर्भेदः मया दृष्ट्वा सहस्रशः / मातरः पितरः पुत्रा बान्धवाचते कोटिशः // 1083 // आगतोऽहं गतश्चाहं नानायोनिशतेष्वपि / भ्रान्तोऽहं सुचिरं तत्र यन्त्रबद्धघटीनिमः // 1084 // एवं तवाऽस्य पुत्रस्या-न्यस्यापि देहिनः पुनः / पुत्रपौत्रादिसम्बन्धा बभूवुबहुशः खलु / 1085 / / अथ संवेगमापन्ना कैकयी संसृति तदा / निन्दन्ती मन्यते देह-पुत्रादि फल्गु तत्क्षणात् // 1086 // ततः स्त्रीणां सहस्र श्च संयुता कैकयी मुदा / संयत्याः सन्निधौ दीक्षां लात्वा प्रापुः शिवश्रियम् // 1087 // मुनिपाचे स मातङ्गः प्रव्रज्य विरतिं तदा / षष्ठाटमादि कुरुते तपस्तीव्र निरन्तरम् // 1088|| पारणे शुष्कपत्रादि प्रासुकं भक्षयन् गजः / चत्वारि हायनान्येव तपः षष्ठादि स व्यधात् // 1086 // कृत्वा संलेखनां प्रान्ते मृत्वा स कुञ्जरः क्रमात् / ब्रह्मस्वर्गे गतः सौख्यं भुङ्क्त स्म समयं बहु // 1060 // ततश्च्युतो गजो देवः सम्प्राप्य मानुषं भवम् / सर्वकर्मक्षयान्मुक्ति-सातमासादयिष्यति // 1061 // सुमेरुवत् स्थिरो धीरो विहरन् भरतो भुवि / समशत्रुसुहृद्भावो-ऽसातसातसमाशयः // 1062 // भरतस्तीव्रतपसा क्षिप्त्वा शेषतमश्चयम् / सम्प्राप्य केवलज्ञानं सिद्धाद्रौ शिवमाप्तवान् // 1063 // भरतेन समं ये तु सिद्धार्थरतिवर्द्धनौ / घनवाहमुखा भूपा-स्तेऽपि केचिच्छिवं ययुः // 1064|| केचित् स्वर्गे तृतीये तु केचित् तुर्ये च पञ्चमे / केचित् सर्वार्थसिद्धेच विमाने समुपागमन् // 1065 // तेऽपि वाचंयमाः स्वर्गाच्च्युत्वाऽऽप्य मानुषं भवम् / क्षिप्त्वा कर्माखिलं मुक्ति-पुरीं यास्यन्ति हेलया / भरतस्य वियोगेन लक्ष्मणो दुःखितो हृदि / यावदासीत्तदाऽऽगत्य विराधः सेवको जंगौ // 1067 // भरतोऽखिलकम्मौ क्षिप्त्वा गत्वा शिवाचले / ययौ मुक्तिपुरी हर्ष मागमल्लक्ष्मणो भृशम् / / 1068|| रामोऽथ भूपतीन् भूरी-नाकार्य रुचिरोत्सवम् / अभ्यषिश्चत् तदा राज्ये लक्ष्मणं चक्रधारिणम् / / 1066 // विभीषणं त्रिकूटे तु सुग्रीववानराधिपम् / किष्किन्धायां मरुत्पुत्रं श्रीपुरे श्रीगिरिस्थिते // 1100 // नीलं रक्षःपुरे वर्षे प्रतिसूरं हनूरुहे / चन्द्रोदरं च पाताल-लङ्कायां न्यविशन्मुदा // 1101 / / त्रिभिर्विशेषकम् वैताढये दक्षिणश्रेण्यां नगरे रथनू पुरे / भामण्डलो भुनक्ति स्म भूरिविद्याधराश्रितः / / 1102 // अथ रामो जगौ भ्रातुः शत्रुध्नस्य पुरस्त्विति / रोचते या पुरी चित्तेऽयोध्या तव साम्प्रतम् // 1103 / / त्वं मार्गय शत्रुध्न ! राज्यरीतिहेतवे / अयोध्यां वा गृहाण त्वं पैतृकी नगरी वराम् // 1104 // अथ शत्रुघ्न आचष्ट रामं प्रति कृताञ्जलिः / मथुरा नगरी मह्य विश्राणय प्रसद्य तु // 1105 / / रामोऽवग् मथुरापुर्यां मधुराजा बलोत्कटः / जामाता दशवक्त्रस्य चमर-प्रत्तशूलभृत् // 1106 // तस्य हस्ते त्रिशूलं यद् विद्यते ज्वलनश्रुति / तन्मुक्त विद्विषां शीर्ष-सहस्र यति हेलया // 1107 /