________________ जैनगीतासम्बन्धः 175 .0000000 9000000000000000000000000000 तदा धर्माशिपं दत्त्वा ज्ञात्वा तं भद्रकात्मजम् / कुलङ्करं प्रति प्राह प्रबोधाय मुनीश्वरः // 1048|| यत्र त्वं तापसं नन्तु यासि तत्राऽस्ति दारु यत् / तन्मध्ये सर्परूपेण विद्यते ते पितामहः // 1049 // तस्मिन् विदारिते काष्ठे गत्वा तत्र महीभुजः / दृष्टः सर्पस्ततोऽरक्षि तत्र तेन तपस्विना / / 1050|| ततस्तं ज्ञानिनं सत्यं मत्वा भूयो यतैगिरा / लिलासुरभवद् वृत्तं कल्याणकमलाप्रदे(दं) // 1051 / / राज्ञो मुखादहिः सोऽपि स्मृत्वा पञ्चनमःकृतिम् / मृत्वा मरुद्गृहे देवो महर्द्धिः समजायत // 1052 / / पत्नी पुरोहिताऽऽसक्ता-ऽन्यदा कुलङ्करं प्रति / विषदानानिनायाऽऽशु मृतिं क्रूरतराशया // 1053 // मृतः कुलङ्करः दवेड-योगादार्तिपरस्तदा / शशकोऽभूत्ततो मोर-स्ततो नागस्ततो गजः // 1054 / / कुकुरो ददुरस्तस्माद् भवात् सप्र्पश्च ददुरः / अभृत् शुचिरतो मृत्वा गजः सरोदयासुमान् // 1055 // ततो मच्छोऽभवत् काक-भक्षितः कुर्कुटोऽजनि / ततः काकस्ततः कुम्भी तत श्रोतुस्ततो गजः // 1056 / / चन्द्रोदयासुमान् विप्रो भूत्वा स्नानेन भूरिशः / जीवान् हत्वाऽभवद् व्याघ्र-स्ततो मच्छोऽभवत् पुनः // चतुर्योनिपु सम्प्राप्य भवान् भूरीन नरादिषु / चन्द्रोद्रयासुमान् जातो विप्रः कमलपत्तने // 1058|| तत्र प्राप्य दृषं जैनं कुर्वाणो वरभावतः / मृत्वा गत्वा दिवि च्युत्वा भरतोऽयमभून्नृपः // 1059 / / अकामनिर्जराकर्म तीव्रतपोयोगात् क्षयन् तप / कमलेपत्तने तस्मिन् विप्रस्य च स्यतित्वतं (?) / सुहृत् प्रीतिपरो जातो जैनधर्मरतः पुनः ॥युरमम्॥१०६०॥ मायया वश्चयन लोकान् धर्माजातः स निर्जरः / पूर्वोपार्जितपुण्येन सदैव सुखवानभूत् / / 1061 // मायोपार्जितपापस्यो-दयाद्विप्रासुमान् च्युतः / विन्ध्याटव्यामभूद्धस्ती हस्तिनीशतसेवितः / / 1062 / / सूगेदयासुमान् भ्रान्त्वा भवेषु भूरिषु क्रमात् / विन्ध्याटव्यामभूद्धस्ति हस्तिनीशतसेवितः // 1063 / / चलिनं हस्तिनं दृष्ट्वा रावणो भूमिनायकः / पानिनाय निजावासे महामहःपुरस्सरम् // 1064 // दशास्यस्तस्य भुवना-लङ्कारेत्यभिधां ददौ / अधुना लक्ष्मणावासे विद्यतेऽसौ मतङ्गजः // 1065 / / अधुना भरतं पूर्वभव-सोदरमेक्ष्य स / कुञ्जरो निन्दति स्वीयं भवं तिर्यम्भवं ध्र वम् / 1066 / / यतश्चैतो यतिचन्द्रो-दय सूरोदयाभिधौ / दीक्षां श्रीवृषभोपान्ते लात्या प्रमादमीयतुः / / 1067 / / अतो भूरिभवान् भ्रान्त्वा-ऽधुना भरतकुञ्जरौ / अभूतां भूपमातङ्ग-वंशभूषणकारकौ ||1068 | अयं कुम्भमधुना वृत्तं लिलासुमुक्तिहेतवे / अशक्तो निन्दति स्वीयं भवं तिर्यग्भवोद्भवम् // 1066 // यतः - भंतूण लोहखंभं एसो हु गो बलेण संखुभित्रो। भरहालोए सुमरिअ पुत्वभवं उवसमं पत्तो / / 1070 // यतः-नाऊणं एवमेयं चवलतडियसनं सव्यसत्ताणजीयं, संजोगाविप्पोगा पुणरवि बहवो होंति संबंधिबंधा। संसारं दुःखसारं परिमिय चिरं माणु तं लहेडं, तुज्झत्थं धम्मकज कुणह सुविमलं बुद्धिमन्ताऽधमत्ता॥ एवं ज्ञानी वचः श्रुत्वा भरतादिमहीभुजः / यहवः संयमं लातु-कामा जाता शिवाप्तये // 1072 / / तत उत्थाय भरतः कृताञ्जलिजगावदः / भग्नोऽहं भवदुःखेभ्यो भ्राभं भ्रामं भवान् बहून् // 1073 / दीक्षातरणिदानेन महान्तं भववारिधिम् / उत्तारय ऽऽशु मां ज्ञानिन् ! कर्माष्टकंविनाशये // 1074 / / विहाय तृणवद्राज्यं त्यक्तनि शेषभूषणः / सहस्रभूमयुग दीक्षां भरतोऽलाद् गुरोः पुरः // 1075 / / साधु साध्विति गीर्वाणा जल्पन्तो गगनाङ्गणात् / पुष्पवृष्टिं व्यधुरतेषां यतीनां मस्तकोपरि / / 1076 / /