________________ 178 शत्रुञ्जय-कल्पवृत्ती 00000000 धर्मध्यानपरोऽत्यन्तं मधुः साधुशिरोमणिः / तृतीये ताविषे देवो-ऽजनि भासुरविग्रहः / / 1133 // आराध्य चमरं शूलं शत्रुघ्नो लसदुत्सवम् / हस्ते जग्राह चक्रीव चक्रं भासुरदीप्तिमत् // 1134 / / जित्वा मधु तु शत्रुघ्नो मथुरामात्मसात्पुनः / कृत्वाऽयोध्यापुरीमैत्या-नंसीद्रामादिमोदरम् // 1135 // रामोऽपि नगरे तत्र गत्वा राज्याभिषेचनम् / शत्रुघ्नस्य व्यधान्नाना - महोत्सवपुरस्मरम् / / 1136 // अन्येशुओनिनं नत्वा श्रुत्वा धर्म जिनोदितम् / रामोऽप्राक्षीत् कथं भूरि-पुरेषु प्रवरेष्वपि // 1137 // याचिता मथुरा भ्रात्रा शत्रुघ्न न निगद्यताम् / ततो ज्ञान्यभणद् राम ! श्र यतां यत् त्वयोदितम् / / 1138 // मथुरायां तु जवण-देवो धनप्रियो वणिग् / वसन् धर्ममकुर्वाणो मृत्वाऽथ वायसोऽजनि // 1136 // वायसोऽपि मृतो जातो महिषो मथुरापुरि / ततोऽभूद् गवलस्तस्माद् गत्वा महियोऽन्तरा // 1140 // कौघशमनाजातो दारिद्री मनुजः पुनः / विप्रो यतिपदाम्भोज सेवते स्म निरन्तरम् / / 1141 / तस्यैव नगरस्येशे शङ्किते दूरतो गते / महादेवी प्रियाऽऽसक्ता तस्मिन् विप्रेऽभवद् भृशम् // 1142|| अकस्मान्नृपतौ तस्मिन् समायाते निजालये / भीता पत्नी जगावेष तस्करोऽयमिहागतः // 1143 / / स्तेनं कृत्वा नृपो धृत्वा तमचालयदञ्जसा / वधाय बहिरुद्याने तत्र साधुः समागमत ||1144. / साधुना मोचितो दीक्षां लात्वा विप्रस्तपःपरः / मृत्वा प्रान्ते सुरो दिव्य-तनुर्जातः सुरालये // 1145 // जीवो जवणदेवस्य भुक्त्वा तत्र सुखं चिरम् / च्युत्वाऽभून्मथुरापुर्यां महेभ्यो धनदाभिधः // 1146 // एवं जवणदेवस्य जीवो भूरि-भवान् क्रमात् / उत्पन्नो मथुरापुर्यां नरनारीभवादिभिः / / 1147 / / इतश्च मथुरापुर्यों चन्द्रभद्रमहीपतेः / पत्न्यस्तिस्रोऽभवन् वर्या लक्ष्मी-पद्मा-रमाभिधाः // 1148 // श्राद्यपत्न्याः सुतः सूरः शूरतुल्यपराक्रमः / बभूव क्रमतो मार-रूपः स्वीयतनुत्विषा / 1146 / / द्वितीयाऽसूत पुत्रौ तु रामभीमाभिधानतः / क्रमेण भवतां रूप-पराभूतरमाभवौ // 1150 // तृतीयस्या अभूत् पुत्रो धनदस्यासुमान् पुनः / तस्यासीदचलेत्याहा चारूत्सवपुरस्सरम् / / 1151 // इतो मृगाङ्कनगरे मङ्गिकाया सुताऽभवत् / अङ्कनामा लसद्र पः पूर्वपुण्यशुभोदयात् // 1152 / / क्रमादविनयीभूतो जनकनाथ ताडितः / अङ्को देशान्तरे ग्रामे ग्रामे बभ्राम सन्ततम् // 1153 / / सपत्नीतनयः श्वेड-दानाद् भूपप्रियोऽपि च / हन्यमानोऽचलच्छन्नं प्रविष्टो दिवसात्यये // 1154 // कटकेनाऽथ विद्धानि-रशक्तश्चलितु वने / अचलो वीक्षितोङकेन गच्छतेन्धनमोलिना // 1155 // उत्तार्येन्धनभारं स कण्टकं चाचलाध्रितः / उच्चकर्ष यदा प्राह तं प्रतीत्यचलस्तदा // 1156 / / ततोऽचलो जगादाङ्क प्रत्येवं यदि चेन्मम / राज्यं भावि तदा तत्रा-गन्तव्यं भवताऽङ्कक ! // 1157|| अचलेनेति गदिते श्रावस्त्यामङ्क ईयिवान् / अचलोऽपि कोशाम्ब्या-मुद्याने समुपेयिवान् / / 1158 / / कोशाम्बीशस्तदेवेन्द्र-दत्तः खरुलिका-गतः / धनुर्विद्याविदं-ज्ञात्वा-चलं हृष्टोऽभवन्नृपः // 1156 / / विश्राणितेन्द्रदत्तेन मित्रदत्ता स्वनन्दिनी / अचलाय ततो राज्यं नृपोऽदाद् रुचिरोत्सवम् // 1160 // अङ्गादि-विषयान् जित्वा भूरीभाश्वनृसंयुतः / मथुरासन्निधौ प्राप्तोऽचलो विग्रहहेतवे // 1161 / / धनप्रदानतः सर्वान् पुत्रादिनृपसेवकान् / वशीकृतान् द्विपाऽनेन चन्द्रभद्रो विवंद च // 1162 // ततः सन्धिकृते राजा समुद्र निजशालकम् / अचलस्यान्तिके प्रेषीद् ददर्श सोऽचलं तदा // 1163 / /