________________ जैनगीतासम्बन्धः 10000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000 171 000000000000000 भीभे श्वापदसंद्रांवे वने स्मृत्वा निजान् जनान् / रुदन्ती करुणारावं लाति पित्रादिकाभिधाम् / / 640 // रुदित्वैव चिरं स्वं तु धीरयित्वा कनी च सा / कुर्वाणाऽथ फलाहार-मष्टमादि तपो व्यधात् / 641 / / षष्टाष्टमादिकं तीन कुर्वाणा सा तपः सदा / निन्येऽब्दानां सहस्राणि त्रीणि संवेगवासिता // 642|| इतो मेरौ जिनान् नत्वा लब्धिवासः खगेश्वरः। तत्रायातो विलोक्याधः कनी भूमि समीयिवान् / 643 / / नत्वा तामवलक्ष्याऽवक खगः स एहि साम्प्रतम् / त्वां नेष्ये त्वपितुः पायें ततः सा प्राह तं प्रति / 644 // मया त्वनशनं लातं येनान्यत्र बजाम्यहम् / ततः खगो जगौ कन्या-स्वरूपं चक्रिणः पुरः // 645|| वने तत्रागमञ्चक्री यावत्तावन्निजाङ्गजाम् / ददर्श गल्यमानां त्व-जगरेण कुटुम्बयुम् / / 646 // तदाऽऽस्यात् कर्षितु लग्ने भूपे प्राहेति सा तदा / मयकाऽनशनं नूनं गृहीतं स्वर्गशर्मदम् / / 647 / / ममानेन शरीरेण भक्षितेनाधुना किल / अाशाऽस्य मकरस्यैव पूर्यतां तात ! साम्प्रतम् // 48 // भत्येऽस्मिन् मच्छरीरे तु गृहीतेऽस्य तनुमतः / मृत्यु वी ततः पापं भविष्यति तवाऽतुलम् / / 646|| भक्षितां नन्दिनीं तेन ज्ञात्वाऽभ्येत्य पुरे निजे / राज्यं दत्त्वाऽङ्गजायाऽऽशु दीक्षां लिप्सुरभूच्च सः।।६५०|| द्वाविंशत्या सहस्र श्च पुत्राणां सह चक्रिराट् / जग्राह संयमं चन्द्र-शेखरा वार्यसन्निधौ / / 651 // तपस्तप्त्वा चिरं प्राप्य केवलज्ञानमन्यदा / भूरिसाधुयुतश्चक्री जगाम शिवसमनि // 652 / इतः सा कन्यका खाद्य-माना तेन दुरात्मना / धर्मध्यानपरा देवी दिव्यरूपाऽभवदिवि // 953|| अनङ्गश्रीस्ततो मृत्वा जिनधर्मस्य सेवया / द्रोणस्य भूपतेः पुत्री विशिल्याऽजनि रूपभाग / / 954 // अस्यां गर्भे प्रजातायां मात्र रोगश्चिरोद्भवः / गतोऽन्येषां च लोकानां क्षयादिदुःशको द्रुतम् // 655 / / जिनेन्द्रस्यार्चनां शश्व-सवा करोति साम्प्रतम् / यथाऽधुनाऽपि लोकाना-मरिष्टं व्रजति क्षयम् // 656 // उक्त च-'सो भणइ दोणदुहिया अस्थि विसल्ला गुणाहिया लोए / जीसे गम्भत्थाए जणणी रोगेण परिमुक्का / / जिणसासणाणुरत्ता गिच्चं पूनासमुञ्जयमईया / बंधृहिं परियणेण य पूइजइ देवया चेव // 2 // एहाणोदयेण तीसे सुरहिसुगंधेण म देव ! सित्तो हं / समयं णिययजणेण तेण णिरोगत्तणं पत्तो // 3 // ' पुण्येन लभ्यते राज्यं पुण्येन गेहिनी सुताः / पुण्येन जायते देहो नीरोगश्चामलं यशः // 657 // अस्मिन्नेव भवे क्षिप्त्वा कौशेषं पुरार्जितम् / विशिल्या यास्यति श्रेयः-पुर्यां शुद्धवृपोदयात् / / 658|| तदेति धर्ममाकण्येन्द्रजिन्मन्दोदरी मुदा / कुम्भकर्णादयो भूपा बहवश्च व्रतं ललुः // 956 // निःकलङ्कां प्रियां सीतां गृहीत्वा रघुनन्दनः / विभीषणोक्तमार्गेण लङ्कायां प्राविशन्मुदा / 660 // लङ्काराज्यं प्रदायाऽऽशु विभीषणाय राघवः / जिनार्चा कारयामास चक्रे च (समस्त) जिनसद्मसु // 961 // भरतोऽथ प्रणम्याऽवग् राम प्रति लसगिरा | चतुर्दश समा जाता कानने वसतस्तव / / 662 / / मातृपित्रुदिता पूर्णा प्रतिज्ञाऽजनि साग्मतम् / गजते त्वां विनाऽयोध्या श्मशान घशा(शी) ननु / / 663 // अतः स्वागमतः स्वर्ग-तुल्यां निजां पुरों कुरु / रावणाद्या द्विषोऽशेषा विजिता भवताचिरात् / 664 / ततो विभीषणं पृष्ट्वा रामोऽयोध्यापुरीं प्रति / उपक्रम व्यधाद्याव-धातु तावन्नरो जगौ // 965 / / अत्राऽऽसन्ने महातीर्थे वृषभाजितमज्ञके / विद्यते तत्र गत्वा त्वं नम श्रीवृषभाजितौ / 666 / / पुष्पकं यानमारुह्य गत्वा च तीर्थयोस्तयोः / जिनयोः पूजनं चक्रे रामो वर्यमहोत्सवम् // 967 //