________________ 168 शत्रुञ्जय-कल्पवृत्ती .000000000000000000000001 10000000000000000000 ततो व्योम्नि क्षितौ पृष्टऽग्रे पार्श्व योश्व लक्ष्मणः / ददर्श रावणान् भूरीन् विविधायुधवर्षिणः / / 851 // यं यं दशाननं हन्ति लक्ष्मणः स स एव तु / द्विगुणादिककोट्यान्त-प्रमाणो जायते रणे // 852 / / लक्ष्मणो विशिखैर्वारं वारं लक्षशतप्रमान् / निघ्नन् कोटिमितांस्तत्र ददर्श रावणान् पुनः / / 853 / / लक्ष्मणस्य तदा बाण-गणेषु निशितेष्वहो / हिंसत्सु रावणान् प्रादु रासन भूरिदशाननाः / / 854|| ततो लक्ष्मण पाचष्ट किं रावणप्रसूर भूत् / गायाः शूझरी यस्म द् दृश्यन्ते भूरिरावणाः // 855 // किं वाऽभूच्छलभी किं वा सर्पिणो किमु गोधिका / यतोऽधुना विलोक्यन्ते रावणा बहवो रणे / / 856 // लक्ष्मणो बहुरूपाणां संहारिण्या च विद्यया / विना दशाननं मुख्यं जघानान्यान् दशाननान् / / 857 // ततो दशाननः क्रुद्धः स्वं चक्र वह्निपिण्डवत् / करे कृत्वा जगौ गच्छ नंष्ट्वा लक्ष्मण ! हेलया / / 858 // नो चेचक्रमिदं शीर्ष तब छेत्स्यति साम्प्रतम् / लक्ष्मणोऽवग न नश्यन्ति शूगः वैरिभयात् क्वचित् / / 859) मुश्च ते चक्रमागच्छन् मुष्टया चूर्णीकरिष्यते / लोहखण्डस्य नो गर्वो विधातव्योऽधुना त्वया // 860 // श्रुत्वैतद्रावणः क्रुद्धो भ्रनयित्वा शिरोऽभितः / चक्र चिक्षेप लक्ष्मीशं गमितु यमसद्मनि // 861 // . चक्रं प्रदक्षिणीकृत्य सौमित्रः परितस्तदा / अलञ्चक्रे शयो वास्तो-ध्यतेर्दम्भालिवत्तदा // 862 / / लक्ष्मणोऽवग दशास्य ! त्वं मुश्च सीतां सती यदि / तदा ते जीवितव्यं स्या-दन्यथा चक्रतो मृतिः / / रावणः प्राह मे चक्रप्राणान्न मे हरिष्यति / मुश्च त्वं लक्ष्मणेदानीं मम हस्ते समेष्यति // 864 // तदा मन्दोदरी पल्यऽभ्येत्याऽवग् रावणं प्रति / नय तो मानवौ राम-लक्ष्मणौ किन्तु निर्जरौ // 865 // यतः-मनुष्यौ न मनुष्यौ तौ वानरास्ते न वानराः / व्याजेन किमपि छन्नं समेतावत्र निजरौ // 866 / / विपरीते विधौ पुत्र-भार्यापित्रादयः पुनः / विघटन्ते पुनश्चक्रं किमात्मीयं भविष्यति ? ||867|| यतः-"विहडइ विहवो विहडइ वंधवो. // 868|| अतो न क्रियते कान्त ! साहसं दीयतेऽधुना / सीता सती तु रामाय ततो वयं भविष्यति / 866| एवं मन्दोदरीप्रोक्तो नात्यजद्रावणो मदम् / तदा लक्ष्मण प्राचष्ट मृत्युस्ते रावणाऽऽगतः / 870 // मुश्च सीतां सती राम-भद्रस्य पदयो योः / सेवां कुरुष्व मुक्त्वा त्वं मानं भूयसुखप्रदम् // 871 / / यतः-औचित्याचरणं विलुम्पति पयोवाह नभस्वानिव प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् / कात्तिकरविणीं मतङ्गज इस प्रोन्मूलयत्यञ्जसा मानो नीच इवोपकारनिकर हन्ति त्रिवर्ग नृणाम् / / 872 // स्वाधीनेऽपि कलत्रे नीचः परदारलम्पटो भवति / सम्पूर्णेऽपि तटाके काकः कुम्भोदकं पिबति // 873 / / रावणोऽवक सुमित्राङ्ग-भव ! त्वं मां गदनिति / लभसे त्वरितं मृत्यु मम हस्तादतो व्रज / / 874 / / एवंविधानि वाक्यानि जल्पन्ते सुहृदां पुरः / मौनं कृत्वा वजित्वा त्व(त्वा)मन्यत्र सुखवान् भव / 875 / / शीर्षोपरितश्चक्रं भ्रमयित्वा च लक्ष्मणः / हन्तुं दशाननं रोषाद् मुमोच विगतकृपम् ||876 / / चक्रेण तेन तत्कालं छिन्ने रावणमस्तके / लक्ष्मण ! त्वं जयाभीक्ष्ण-मित्यभूद्वाग् घनाध्वनि / / 877 // तदानीं व्योम्नि गीर्वाणा जगुभूमौ नरा नृपाः / रेजू रावणशीर्षाणि पतितापधुना यतः // 878 // इह खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः / क्व च ननु जनकाधिराजपुत्री क्व च दशकन्धरमन्दिरे निवासः / / 876 / /