________________ जैनगीतासम्बन्धः 10000000000000000000000000000.00000 00000000000000000 ततस्तत्र द्रुतं गत्वा निवेद्य राघवोदितम् / भरताय मरुत्पुत्रा-दयो द्रोणपुरं ययुः // 21 // रामोक्त निखिलं प्रोक्त्वा द्रोणभूमीपतेः पुरः / मरुतपुत्रश्च भरत-द्रोणभूपतिसंयुतः // 822 / / तस्यामेव निशीथिन्यां विशिल्यां द्रोणनन्दिनीम् / अानिनायाऽचिराद्राम-सन्निधौ स्वामिभक्तिभाग ।।युग्मम्॥ विशिल्यायाः करस्पर्शात लक्ष्मणस्य शरीरतः / शक्तिर्याती धृता हस्ते जल्पितेति हनुमता ||824|| भोः शक्ते ! किं दशास्यस्य किङ्करी भवसि त्वकम् / साऽवक प्राग भवतोऽहं च किङ्करी विहिताऽमुना / / 825 // मुश्च मां हनुमद् यामि कृपां कृत्वा ममोपरि / अतः परं करिष्यामि नापराधं भवरले // 826 / / ततो हनुमता मुक्ता शक्तिर्निजालयं ययौ / ततो जयजयारावो रामसैन्येऽभितोऽभवत् // 827|| कन्यासहस्रसंयुक्तां विशिल्यां द्रोणभूधवः / लक्ष्मणाय ददौ तत्र चञ्चदुत्सवपूर्वकम् // 828 // विशिल्यास्नाननीरेण स्नापिताः कपयो नराः / सद्यो रूढवणा जाता गजताादयोऽपि च / / 826 / / उक्तच ग्रन्थान्तरे- “दट्ठण सत्तिभिन्नं सहोअरं महीअलम्मि पल्हत्थं / रामो गलंतनयणो मुच्छावसभिभलो पडिअो // 30 // सीयलजलोल्लिअंगो आसत्थो वाणरेहिं परिकिन्नो / अह विलविउं पवत्तो रामो कलुणेण सद्दे ण // 31 // हा बच्छ ! सायरवरं उतरीऊणं इमं अइदुलहं / विहिजोएण अणत्थं एरिसयं पावित्रोसि तुमं // 832 / / सुलहा नरस्स लोए कामा अत्था अणेय संवेहा / णवरं इह य न लब्भइ भाया माया य जणो य // 833 // अहवा परम्मि लोए पावं अइदारुणं मए चिन्नं / तस्सेव य पावफलं जायं सीमानिमित्तम्मि // 834 // ततो दशाननः श्रुत्वा जीवन्तं लक्ष्मणं प्रगे / विद्याया बहुरूपायाः साधितु चोद्यतोऽजनि ||835 // पूजां कृत्वाऽष्टधा वर्यां श्रीशान्तः पोडशार्हतः / विद्याः साधयितु लङ्का-धिपस्तामुद्यतोऽभवत् // 836 // चैत्रे मासे समायाते प्रोचतू रामरावणौ / चैत्रस्याष्टाह्निकां कत्तु विद्यतेऽवसरोऽधुना // 837 / / प्रवाहःसु नवस्वेव जिनसद्मसु सादरम् / विधीयतेऽर्चना सर्व-जिनानां श्रावकोत्तमैः / / 838|| आचाम्लानि विधीयन्ते श्रावकैरत्र पर्वणि / अहंदादिपदानां तु जापश्च प्रतिवासरम् // 836 / / चैत्रस्य शुक्लपक्षे चाष्टम्पादौ महोत्सवः / पूर्णिमां यावतारब्धो रामरावणयोबले // 840 // चित्तस्स सुकपक्खे उभयवले अट्ठमीमाई / जावजीवं पंचदसी अट्ठाहिमहूसवो लग्गो // 841 / / मन्दोदर्या निदेशेन सर्व:पौरजनस्तदा / अष्टाह्निकामहश्चक्रे दशास्यो विध्नशान्तये // 842 / / सिद्धविद्यो दशास्योऽथ प्रातः कृत्वा जिनार्चनम् / बुभूजे भूरिभिभृत्य-र्बान्धवैश्च समं मुदा // 843 / / द्वितीयेच दिने प्राता रामरावणयोर्मिथः / प्रावर्तत रणं घोरं भूरिजीववधात्मकम् // 844|| तदा दशाननो हन्तु वाञ्छन् लक्ष्मीपतिं द्रुतम् / भूरिकौणपयुक साद्ध डुढौके वेरिभिभृशम् // 845 // भरतोऽथ रणं कनु प्रवृत्तो राक्षसः समम् / कौणान् लक्ष्मणोऽप्रैषीत् यमसद्म बहूस्तदा // 846|| दूरीकृत्या सिघातेन राक्षसान् हनुमान् बहून् / पौलस्त्यशिविरं बाढं व्याकुलीकृतवान् खलु / / 847 / तीक्ष्णैः खड्गप्रहारैस्तु लक्ष्मणो यमसोदरः / शतसङ्ख्यान यमावासं प्रेषयामास कौणपान् / / 848|| क्रोधोमातमनास्तत्र लक्ष्मणः समराङ्गणे / अाहत्य विशिखैाट दशाननमताडयत् / .849 / / विद्यया बहुरूपिण्या रावणोऽथ रणाङ्गणे | चक्रे स्वरूपतुल्यानि वपुषि कोटिशस्तदा // 850. /