________________ 166 शत्रुञ्जय-कल्पवृत्ती .000000 राममेकाकिनं वैरि-वेष्टितं वैरिसद्मनि / सुरलोकं ब्रजन् किन लजसेऽथ वदाऽधुना // 767 / त्वया विना निराधारो जातोऽहं लक्ष्मगाऽधुना / मृते त्वयि मम प्राणाः करिष्यन्ति प्रयाणकम् // 768|| त्वयि मृत्यु गते वैरि-गेहे वादित्रवादनम् / भविष्यति ततस्ते तु हृष्यन्ति वैरिणोऽखिलाः // 766 / आशा बिभीषणादीनां कथं भ्रातस्त्वया विना / मया पूर्णीकरिष्येत बद त्वमेकशोऽधुना / / 800|| तदा वायुसुतः प्राह बद्धा दशाननं त्विह / श्रानयाम्यथवा लङ्का-वप्र चूर्णीकरोम्यहम् / / 801|| यत-"देवाऽऽज्ञापय किं करोमि किमहं लङ्कामिहैवानये, जम्बूद्वीपमितो नये किमथवा वारांनिधि शोपये। हेलोत्पाटितविन्ध्यमन्दरहिमस्वर्णत्रिकूटाचल-क्षेपक्षोभविवर्धमानसलिलं बध्नामि वारांनिधिम् // 802 // तदा रामो दुःखी लक्ष्मणं प्रत्यवगभुङ्क्ते स्म भोजनपरे स्वपिति स्म सुप्ते, जन्मापि मामनु भवानतनोत् किमन्यत् / त्यक्त्वा क्रमं यदकरोत् सुरलोकयात्रां, सापत्यजः प्रकटितः किमयं विकारः // 803 / / स्थाने स्थाने कलत्राणि मित्राणि च पदे पदे / तं देशं नैव पश्यामि यत्र भ्राता सहोदरः // 804 / .. न मे दुःखं हुता सीता न दुःखं लक्ष्मणो हतः / एतदेव महद् दुःखं यन्न राज्ये विभीषणः / 805 // ___उक्तच मारुतिनेति तदा - पश्चात्तापहते विभीषणवले खिन्ने प्लवङ्ग श्वरे मूढे जाम्बुवति प्लवङ्गमगणे सम्भूय भूयः स्थिते / शक्तिप्रौढदृढप्रहारविधुरे मूर्धा गते लक्ष्मणे श्रीरामे विलपत्यहो ! हनुमता प्रोक्त स्थिरैः स्थीयताम् // 806 / पातालतः किमु सुधारसमानयामि, निष्पीड्य चन्द्रममृतं किमु वाऽऽनयामि / उद्यन्तमुष्णकिरणं किमु वारयामि कीनाशमाशु कणशः किमु चूर्ण यामि ? // 807 // तदा हनुमन्तं प्रति रामोऽवग-चतुर्णामपि भ्रात णां पश्चमो मम मारुते ! / गच्छ शीघ्र महावीर ! भ्रातृभिक्षां च देहि मे // 808 // जगौ बिनीषणो राम ! त्यज खेदं धृति य / शक्त्या हतो नरो रात्रिं जीवत्येवोद्यमं कुरु / '806 // ततो लक्ष्मणरक्षायै परितो बलसप्तकम् / रामादेशाद् व्यधुः सद्यः सुग्रीवाय H खगास्तदा / / 810 // सुप्रोवाङ्गश्चन्द्रांशु-भामण्डलमुखाः खगाः / तस्थुः संवेष्ट्य तदेहं लक्ष्मणावनहेतवे / / 811 / / भामण्डलसुहृद्भानु-नमो विद्याधराग्रणीः / हितेच्छू राममभ्येत्य नत्वाऽऽहेति कृताञ्जलिः // 812 // अयोध्यानगरोपार्थाद् विंशत्या योजनैः खलु / रक्षितं द्रोणभूपेन विद्यते द्रोणपत्तनम् // 813 // कैकयोसोदरो द्रोगः स भूयो विद्यतेऽधुना / विशिल्याह्वा सुता तस्य विद्यते वरलक्षणा / / 814 // तस्यां गर्भस्थितायां तु मातू रोगोऽतिदुःशकः / ययौ क्षयं च भूरीगां नृ णां स्त्रीणां क्षणादपि // 815|| तस्या शरीरसंमूछौं यस्यांगे लगति ध्रुवम् / तस्य दुष्टोऽपि रोगः श्राग विलयमयतेतराम् // 816 / देवताऽधिष्ठितं शल्यं निर्गच्छति शरीरतः / शाकिनी-व्यन्तरीमुख्याः पराभवन्ति नो मनाम् / 817 // तस्याश्वेत् करसंस्पर्शो लक्ष्मणाङ्ग लगिष्यति / तदाऽयं लक्ष्मणः सजो जायते नान्यथा पुनः / / 818 // श्रुत्वैतद्राम आचष्टा-झदभामण्डलादिकान् / यूयं याताऽधुनाऽयोध्या-पुर्यां भरतसन्निधौ ||16|| सीताहरणवृत्तान्तं शक्त्या लक्ष्मणताडनम् / विशिल्यानयनोदन्तं भरताने निवेद्यताम् / / 820 //