________________ जैनगीतासम्बन्धः 165 .00000000000000000000 00000000000000000000000000 तदा माली धनुःशाली खड्गमुल्लालयंश्च खे / युद्ध हनुमता कर्तु-मुत्तस्थौ यमसोदरः // 767 // हनुमान्मालिनं चक्र निरस्त्रं करलाघवात् / नंष्टा माल्यपि शरणं दशास्यस्य ययौ तदा // 768 / / अथाऽस्तं तरणौ याते रामेण प्रेषितोऽङ्गदः / गत्वा दशाननोपान्ते जगौ सीता समर्प्यताम् / / 766 // नो चेत्ते सकुटुम्बस्य रामान्मृत्युमुपागतम् / हकितोऽथ दशास्येन पुनरङ्गद ऊचिवान् / / 770 / / रक्षोदुर्भिक्षमाधातु मवतीर्णोऽस्ति यः क्षितौ / तस्य रामस्य दूतोह मनस्तस्य च बालिनः ||771|| शिरोभिर्मा देवी शिव इव न ते दास्पति पुनः, प्रबन्धं पश्याधः सरस इव कैलाससुभटः / हितं तु त्वां ब्र मो मम जनकदोर्दण्ड विजय-बलात् कीर्तिस्तम्भं त्यज कमलबन्धो ! कुलवधूम् // 772 // सन्धौ वापि गृहे वापि मयि धुते दशाननी / अक्षिता वा क्षिता वापि क्षितिपीठे लुठिष्यति // 773 // एवं जाते द्वितीयेऽह्नि रामरावणयोरपि / ततः स्वस्वबले गत्वा बभूवुः सुस्थिता भटाः // 774 / / अथ वायुसुतो वैरि-बलं निघ्नस्तदाऽभितः / भ्रान्त्वाऽरातिचमूमध्ये स्वसेन्यं समुपागमत् // 775 / / कुम्भकर्णोऽसिघातेन निघ्नन् रामबलं तदा / सुग्रीवेण समं युद्ध चक्र शमनसोदरः / / 776 / / सुग्रीवेण निरस्तास्त्रः कुम्भकर्णः कृतस्तदा / भामण्डलो जघानाऽथ राक्षसान भूरिशोऽभितः // 777 // मरुत्पुत्रासिघातेन कुम्भकर्णोऽपतद् भुवि / ततो दशाननो युद्धं विधातुमुत्थितो रणे / 778 / / दशाननं निषिध्याऽथ तत्स्नुरिन्द्रजित्तदा / उत्तस्थौ रामभद्रस्य बलं निहन्तुमादरात् / 776 / / द्वयोः शिबिरयोर्वीरा आस्फालन्तो मिथो भुजान् / मल्ला इव नियुध्यन्तो दृश्यन्ते यमसन्निभाः // 780 / ववन्ध नागपाशेन शक्रजित् कपिनायकम् / भामण्डलं बबन्धाऽहि-माशेन मेघवाहनः // 781 / / जीर्णदोरमिवाऽह्नाय त्रोटयित्वाऽहिबन्धनम् / उत्थितौ तत्क्षणात् तत्र भामण्डलकपीश्वरौ // 782 // भामण्डलकपीशाभ्यां दशाननबलं समम् / तथा विलोडितं बाढं जीविताऽऽशाऽत्रुटद् यथा // 783 / / अगदः कुम्भकर्णन साद्ध युध्यन् रणाङ्गणे / कुम्भकर्ण व्यधाद् बाढं व्याकुलं जर्जराङ्गकः // 784 / / अथ तायामरोऽभ्येत्य रामाय पुण्यशालिने / विद्या बह्वीः प्रभावाट्याः प्रददौ भक्तिपूरितः // 785 / / लक्ष्मणाय हलं स्फारं स्यन्दनं मुशलं पुनः / विद्यां गारुडिकी तार्क्ष्य निर्जरः प्रददौ तदा // 786 // एवमन्यानि शस्त्राणि विद्या नानाविधा वराः / वितीर्य रामभद्राय वासवोऽथ तिरोदधे // 787|| ( समरे लक्ष्मणे युद्ध राक्षसे महसंततम् / अदृष्ट्वा रावणं प्रोच्च -श्वरमेवं जगौ ध्रुवम् ) // 788 // निघ्नन्तं लक्ष्मणं सौव-सैन्यं दृष्ट्वा दशाननः / करे चकार धरण-दतां शक्ति ज्वलद्वसुम् // 786 // मुमोच रावणः शक्तिं यदैव लक्ष्मणं प्रति / वायुपुत्रादयो रोडु मढौकन्त तदा द्र तम् // 760 / / सर्वेषां शस्त्रसङ्घातान् न्यत्कृत्य शक्तिरञ्जसा / हलिनो हृदयेऽकस्मान्-न्यपतत् वह्निपिण्डवत् // 761 // लक्ष्मणो मृच्छितः सद्यः पपात छिन्नक्षवत् / तदाऽऽशु रावणो हटः स्वसेवकसमन्वितः // 762 / इतो युद्ध वितन्वानो गमो विशिखपक्तिभिः / छत्रं दशास्यशीर्षस्थं चिच्छेद रावणं रथम् / / 763 // लक्ष्मणं मूञ्छितं श्रुत्वा-ऽभ्येत्य तत्र तदा द्रुतम् / दृष्ट्वा च मूछितो रामो न्यपतद् वसुधावले // 764|| क्षणात् स्वसेवकैर्वात-प्रक्षेपादिमिरादरात् / सचेतनीकृतो रामः प्राहेति करुणस्वरम् / 765 / / अहत्वा वैरिसङ्घात-म दत्त्वा जानकी मम / लङ्काराज्यमदत्त्वा त्वं विभीषणाय कथं गतः ? // 766 / /