________________ जैनगीतासम्बन्धः जगाद मारुतिर्मात-स्त्वया खिद्यं मनाग नहि / हत्वा दशाननं राम-स्त्वामेवाङ्गीकरिष्यति ||666 // स्मरन्ती त्वं जिनेन्द्रांही रामनाम च नित्यशः / धर्मकृत्यं न मोक्तव्यं दुःखं कार्यं च नो त्वया // 670 // चूडामणिरयं राम-भद्राय दास्यते मया / ततो रामः सतो त्वां च मत्वा हटो भविष्यति // 671 // नत्वा सीतां व्रजन देव-रमणोद्यानपादपान् / बभञ्जाऽऽदौ मरु पुत्रो वनपालं ततो न्यहत् / / 672 / / जघानाक्षं ततोऽन्यानि वनानि मारुतिस्तदा / इतस्तत्राऽऽगतः शक्र-जेता रावणनन्दनः // 673 // युद्धं कुर्वन् दशास्याङ्ग-जन्मा मारुतिमञ्जसा / बबन्ध सर्पराड्बन्धै-निर्दयं हर्षिताशयः // 674 / / सत्यां शक्त्यामपि व्योम-श्वासपुत्रस्तदा स्वयम् / स्वशक्तिं दर्शयामास नहि शक्रजिते मनाग // 675 // इन्द्रजिन् मारुति तात-पार्वे नीत्वा जगावदः / असौ सीताक्रमौ नत्वा रामशुद्धिमचीकथत् // 676 // अनेन जानकीपावें प्रोक्त रामः सलक्ष्मणः / हत्वा दशाननं त्वां त्व-ङ्गीकरिष्यति वेगतः // 677|| वभञ्जाऽसौ तरून् देव-रमणोद्यानसङ्गतान् / वनपालमसावक्षं वनान्यन्यानि च स्फुटम् // 678 / / रावणोऽथ जगौ दुष्ट ! पापिष्टाधमशेखर ! / सीतायै रामभद्रस्य सन्देशादीनचीकथः // 676 | उद्यानवनछेदादि-पापानि त्वमचीकरः / मत्तु मत्र त्वमायातः स्मर रामं निजं पतिम् // 680 // मारुतिः प्राह यत् पापं सीताया हरणात् कृतम् / तस्मै दास्यति मत्स्वामी राम आलोचनां द्रुतम् / / 681|| मुञ्चेमा जानकीमद्य यदि त्वं दशकन्धर ! / तदा ते कुशलं नो चे-न्मृत्युरेव तवाऽऽगतः // 682 // श्रुत्वैतद्रावणो रुष्टो जगाद सेवकान् प्रति / अमु खड्गप्रहारेण नयध्वं यममन्दिरम् // 683 / / यावदायान्ति पौलस्त्य-प्रहिता हननोद्यताः / सेवका मारुति खड़ग-प्रहारैर्निर्दयं धनम् / .684 // बोटयित्वाऽऽशु तावच्चा-ऽहिबन्धं मारुति तम् / पौलस्त्यमुकुटं चूर्णी-चक्र पर्पटपुजवत् // 68|| ततो दशाननः प्राह पुच्छमस्य च दह्यताम् / पुच्छे प्रज्वालिते सोऽपि लङ्कां प्राज्वालयत्तदा // 686 / / उत्पत्योत्पत्य स व्योम्नि दग्ध्वा रावणमन्दिरम् / उद्यानं च मरुत्पुत्रो रावणाग्रे जगावदः // 687 / तवैव मृत्युवेलेषा वर्णिका दर्शिता मया / गच्छाम्यहं समायातं रामं विद्धि दशानन ! // 688|| लङ्का दग्धा वनं भग्नं (दग्धं) राक्षसाः प्रलयं गताः / यत् कृतं रामदतेन स रामः किं करिष्यति ? // 686 / / पश्यतो मे दशास्यस्य राक्षसानां प्रपश्यताम् / उड्डीय हनुमान् यातो दृष्टिगोचरतस्तदा // 660 // सीताचूडामणिं सीता-मित्र रामावतस्तदा / मुक्त्वा मरुत्सुतोऽनंसीद् रामं च लक्ष्मणं क्रमात् / / 661 // सीतासत्याः शुभोदन्ते प्रोक्त हनुमता तदा / आलिङ्गय मारुति प्रेम्णा रामोऽवक कुशलं तव // 662 / मरुत्पुत्रो जगौ स्वामिन् ! प्रसत्तेस्तव सेवकः / दुष्करं सुकरं कार्य करोत्येव न संशयः / 663 / सीतामिलनपौलस्त्य-विगोपनादिकेऽखिले / प्रोक्त हनुमता रामो मुमुदे ससहोदरः // 664 // ततः सद्वचनैर्वायु-पुत्रमालाप्य सादरम् / मारुतेः पुरतो राम-चन्द्र एवं जगौ तदा / / 665 // त्रिदशैरपि दुर्लक्या लङ्का नाम महापुरी / कथं वीर ! त्वया दग्धा विद्यमाने दशानने // 666 / / उक्त च-'सत्तेव जोपणसया वित्थिण्णो सयो समंतेण / तस्स चित्र मज्झ देसे अत्थि तिकूडोत्ति वरसेलो॥ नव जोप्रणाणि तुगो पण्णासं जोयणं सव्य प्रोय वित्यिन्नो / सिहरं तस्स विरायइ उन्भासेउं दस दिसायो। सिहरस्स तस्स हेतु जंबूणयकणगवित्तपागारं / लंकापुरित्ति नाम नयरी सुरसंपयसमिद्धा // 3 // "