________________ 160 10000000000000000000000000000000000000000000000000000000000000 शत्रुञ्जय-कल्पवृत्ती आशे सर्वस्य सर्वत्र न क्वचित् प्रतिहन्यते / ईदृशादपि यत् सत्त्वा-दार्यः कल्याणमिच्छति // 648 // ज्ञातु सीतास्थितिं [रामो] हनुमन्तं सुविक्रमम् / प्रेषयामास लङ्कायां रहः शोभनवासरे // 649|| उल्लङ्घयन् गिरीन् ग्रामान पुराणि सरितस्तदा / हनुमान्नभसा गच्छन् लङ्कायाः सन्निधौ ययौ / / 650 // लङ्कायाः सन्निधौ विद्या-माशालिं दुःशकां नृणाम् / स्थापितां दशवक्त्रेणा-पाचकार भुजावलात् / / 651 // गतेषु रावणायेषु राक्षसीव सत्वरम् / हनुमान गग़न इवोऽभूत् सीताया गोचरे दृशः // 652 // ततो वनमुखान् कोणपापिनो भीषणाननान् / निहत्य हव्बतोऽचाली-दग्रतो हनुमान् बली / 653 / / उत्प्लुत्य हनुमान् व्योम्नि वने सीतापवित्रितम् / ज्ञात्वा रक्षोमुखात सीता-पाधै छन्नं रहः स्थितः / / 654 // राक्षसीभिर्दशास्याय बोध्यमाना च जानकी / मलक्लिन्नाम्बरी सीतां जल्पद्रामाभिधां तदा // 65 // गृह्णन्तीमहतो नाम रामनामान्तराऽन्तरा / सीतां दृष्ट्वा मरुत्पुत्रो दध्यावेवं निजं हृदि // 656 / / विश्वस्य पावनी सर्व-सतीनारीशिरोमणिः / सीतेयं विद्यते राम-गहिनी शीलशालिनी // 657 / / युक्तमस्याः सुधर्मिण्याः कृते दाशरथिः सदा / खिद्यते कुरुते वाल-यितु चोपक्रमं पुनः // 658 // रामहस्तगतां मुद्रां हनुमत्करसंस्थिताम् / वीक्ष्य सीता पतिं मृत्यु-गतं ध्यात्वेति चेतसि // 659 / / रुरोदोच्चैः स्वरं कान्त ! कथं मुक्त्वेह मां मृतः / अधुनाऽहं करिष्यामि प्राणत्यागं मृतेस्तव // 660 // रुदन्ती जानकी पत्युः पञ्चत्वशङ्कया तदा / हनुमान जीवयामास श्रीरामचन्द्रवार्त्तया // 661 // उक्त च-भर्ता ते मानुजो मातः ! कुशली रावणान्तकृत् / तद् दुतोऽहं तु हनुमान् पवनाञ्जनयोः सुतः // 1 // यतः-सुद्धे(मुद्र)सन्ति सलक्ष्मणाः कुशलिनः श्रीरामपादाः स्वयं, सन्ति स्वामिनि ! मा विधेहि विधुरं चेतोऽनया चिन्तया / एतं व्याहर देवि ! मैथिलिसुते नामान्तरेणाधुना, रामस्त्वद्विरहेण कङ्कणपिदं यद् दापितोऽस्यै चिरात् // 662 / तव पत्युरहं भृत्यो हनुमा-न्नामतोऽस्मि हि / मां मुद्रासहितं रामो प्रेषीत् ज्ञातु तव स्थितिम् // 663 / / श्रुत्वैतद् वचनं सीता हृष्टाऽऽशु व्यरमन्मृतेः / ततः सत्याः पुरो मुद्रां मुक्त्वाऽनंसीन्मरुत्सुतः // 664|| सीतोत्थाय नतिं कृत्वा मुद्रायास्तां सुविष्टरे / मुक्त्वार्चित्वा सुमैस्तां चा-नंसीत् पुनः पुनर्मुदा // 66 // उक्त'च-"तिष्ठतो दण्डकारण्ये रामलक्ष्मणयोस्तयोः / आदेशादहमत्राऽऽगां राममुद्रासमन्वितः // 1 // आकण्यैतद् वचः सीता मुद्रां मौलिगतां तदा / कृत्वा मुदं व्यधाद् भूयो भूयोऽनंसीच्च तां पुनः"।६६६॥ वायुपुत्रोपरोधेन रामस्य कुशलश्रुतेः / एकविंशत्यहोरात्रि-प्रान्ते पारणकं व्यधात् // 667 / / हनुमन्तं प्रति सीता प्राह - "असावगाधी बहुनीरपुरै-निस्तीर्णवान् यो मनसोऽप्यगम्यः / त्वां पुत्र ! पश्यामि च हीनमात्रं निस्तीर्यते किं भवतात्मपुत्रः / / 1 / / अमु तपो रक्षतु लक्ष्मणस्य तदार्जवं रक्षतु चा(वा)युसूनोः / ____ बलीमुखं रक्षतु संशयस्थ-ममायमन्तःकरणं ममापि // 2 // " सीतायै मुद्रिकां दत्त्वा रामस्मरणहेतवे / सीता चूडामणिं लात्वा सीताङघी अनमञ्च सः // 668||