________________ जैनगीतासम्बन्धः 156 .0000..... .... 00000000000000000 .0000000000000000000000000000000000000000000000000000 00000000000000000000000. अन्तःपुरेऽधुना शत्रु प्रविशन्तं रुरोध यः / अजानानो द्वयोर्भेदः (द) स बालिसनुरद्भुतः // 620 // खरो मम सखा पूर्व रामेण दोष्मता हतः / ततो राज्यं विराधस्य ददौ श्रयाम्यहं च तम् // 621 // सुग्रीवोऽपि विमृश्यैवं विराधसुहृदन्तिके / गत्वाऽऽहाहं श्रये रामं रोचते यदि तेऽधुना // 622 // ततः ससोदरं रामं नत्वा सुग्रीव ऊचिवान् / कृपां कृत्वाऽरितस्त्वं मे राज्यं वालय साम्प्रतम् // 623 // किष्किन्धायां सह भ्रात्रा गत्वा रामः ससोदरः। युद्धायाऽऽकारयन्माया-सुग्रीवं सपरिवह(कर)म् // 624 / / द्वयोः सुग्रीवयोस्तुल्य-रूपं जल्पनमेव च / निरीक्ष्याध्यायि रामेणान्तरे सत्योऽनयोश्च कः // 625 // युद्धचेत क्रियते तर्हि नृसंहारो भवेद्बहुः / ततस्तथा करिष्येऽहं सुसुखं स्याद्यदावयोः // 626 // रामोऽथ सत्य सुग्रीव-ज्ञप्तये समरे तथा / वज्रावर्त्तस्य चापस्य गुणघातमताडयत् // 627 / / वेशप्रावर्तिनी विद्या मायासुग्रीवविग्रहम् / मुक्त्वा नश्यन्तमेवामु-मपश्यन् मायिनं जनाः // 628 // तत एकेन बाणेन सुग्रीवं मायिनं द्र तम् / रामोऽनैपीद्यमावासं ततोऽन्यं शिश्रियुः प्रजाः // 626 / ततो दाशरथिर्भातृ-युतः सुग्रोवभूभुजे / किष्किन्धानगरीराज्यं ददौ सन्मानपूर्वकम् // 630 // भामण्डलो विराधश्च कालज्ञौ सपरिच्छदौ / रामं नत्वोचतुः कार्य मह्य दिशतु साम्प्रतम् // 631 // जाम्बुवान हनुमान नीलो निषधश्चन्दनोऽपि च / गम्भीरोऽरिंदमः सुन्दः सुग्रीवं शिश्रियुमुदा॥६३२॥ सुग्रीवो राममापृच्छय सीताऽन्वेषणहेतवे / हनुमन्तं लसत्सारं प्रजिघाय विचक्षणम् // 633 / / इतो दशमुखो वाञ्छन् भोगाय रामगेहिनीम् / स्वप्रियाः प्रेषयामास सन्मानयितुमञ्जसा / / 634 / / गत्वा सीतान्तिके प्रोचू रावणस्य प्रियास्तदा / रावणं वृणु भो ! सीते ! त्रिखण्डभूमिनायकम् // 635 // द्वात्रिंशत्त सहस्राणि पत्न्यो यस्य मनोहराः / रूपेण जयति स्वर्ग-नारीमन्मथगेहिनीः // 636 / / विभीषणादिभिभूपेः सीतात्यजनहेतवे / बोधितोऽपि दशास्यो न तत्याज जानकी तदा // 637 / / यतः-घरमग्गिम्मि पवेसो वरं विसुद्धेण कम्मुणा मरणं / मा गहियव्वयभंगो मा जीयं खलिअसीलस्स || दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मपीकूर्चक-श्चारित्रस्य जलाञ्जलिगुणगणाऽऽरामस्य दावानलः / सङ्केतः सकलापदां शिवपुरद्वारे कपाटो दढः, शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः // 638 / / प्रच्छं प्रच्छ क्रमाद् विद्या-धरान् लोकान् बहूनपि / रावणापहृतां सीतां जज्ञौ दाशरथि, वम् / / 639 / / सुग्रीवेगच्छति रामः साधयामः क्रियान्तरे / नैवाश्चर्यग्रहव्यग्रः सुग्रीवो नागमिष्यति (?) // 640|| __ तदा सुग्रीवं प्रति लक्ष्मणोऽवगसमये तिष्ठ सुग्रीव ! मा बालिपथमन्वगाः / न स सङ्क चितः पन्था येन बाली हतो गतः // 641 / / ततः सुग्रीव आगत्य जगाद राघवं (सत्वादार्यः) प्रति / आदेशं देहि सीताया वीक्षणं क्रियते मया / 642 // विषमे स्थानके लङ्का-रूपे ज्ञाते सति क्रमात् / प्राइको व्योमगो रत्न-जटीति राघवं प्रति // 643 // सीता हृता दशास्येन नीता तस्य वनान्तिके / तत्र स्थिता सती धर्म-परास्तीति मया श्रुता // 644 // अन्यदा गणकः पृष्टो मृत्यु स्वं रावणेन तु / जगौ कोटिशिला यस्तू-त्पाटथिष्यति हन्ति सः // 645 // ततो रामादिविद्याभृद्-युतो गत्वा स लक्ष्मणः / उदपाटयत् शिलां कोटिं पश्यत्सु नृषु भूरिषु // 646 / / यदा रामः सीतां ज्ञातु कृशाङ्ग हनुमन्तं / प्रेषयामास तदा को प्यवग् // 647 / /