________________ 158 शत्रुञ्जय-कल्पवृत्ती .0000000000000000 ....0000000000000000000 भावनमुक्कारविवज्जियाई जीवेण अक्रय करणाई / गहिपाणि य मुक्काणि य अणंतसो दव्वलिंगाणि // 2 // कृत्वा पापसहस्राणि हत्वा जन्तुरातानि च / अनु मन्त्रं समाराध्य तिर्यञ्चोऽपि दिवं गताः / / 563 / / त्रिशिरोदूषण खरान भूरिभिर्वै रिभिः सह / हत्वा विराधसखिना युक्तोऽचालीत् स लक्ष्मणः / / 564 / / श्रागतो लक्ष्मणः पश्चा-न्नत्वा ज्येष्ठं सहोदरम् / द्विषां विजयवृत्तान्त-मगदद् भ्रातुरग्रतः // 565 / / अजल्यन्तं तदा रामं निःप्रियं वीक्ष्य लक्ष्मणः / पप्रच्छ सोदर ! क्वास्ति जानकी साम्प्रतं वद ! // 566 / / रामः सगद्गदं प्राह ततो यावदिहागमम् / तावत् सीता हृता केन-चित् खगेनैत्य पापिना // 567 // जटायुपं हतं कश्चित् श्वसन्तं वीक्ष्य वेगतः / नमस्कारप्रदानेना-नैषं स्वर्गमहं तदा // 568 / / श्राचष्ट लक्ष्मणः सिंह-नादो येन कृतस्तदा / तेनैव जानकी भ्रात-हृता सम्भाव्यते रहः // 566 / / शशहर क्षीणो काइं रोहिणि पासिबइठी अहं / अम्हई दुक्खसयाई गगणे रावणो लेउ गो // 600 // एवं पुनः पुना रामं जल्पन्तं शशिनं प्रति / लक्ष्मणः प्रोक्तवान् स्वीयं भ्रातरं बोधहेतवे // 601 // काई झूाइं तू राम सीता गई वलि आविसि / सूनइ न लागइ संधिमाणिक मेलवइ सइ तही / / 602 / / रामविलापश्च वम्कोऽहं वत्स ! स एष आर्य भगवानार्यः सको राघवः के यूयं बत नाथ पूज्यपदयो र्दासोऽस्म्यहलक्ष्मणः / कान्तारे किमिहारभ्यहं ननु विभो ! देवीगतामृन्यते, का देवी जनकाधिराजतनया हा जानकि ! क्वासित हा!॥ साधु साध्वम्म ! यत पृथ्वी-मारो नारोपितो मथि / कलत्रस्यापि न त्राता स्यां कथं रक्षिता क्षितेः / / 604 // रक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणै-स्त्वामायान्ति शिलीमुखाः स्मरधनुमुक्ताः सखे मामपि / कान्तापादतलाहतिस्तव मुदे सत्यं ममाप्यावयोः, सर्व तुल्यमशोक ! केवलमहं धात्रा सशोकः कृतः // 605 // राज्यभ्र शो बने वासः सीता नीता पिता मृतः / एकैकमपि तद्-दुःखं यदब्धीनपि शोषयेत् // 606 / / कातयं मुच्यतां भ्रातः ! साहसं श्रयतां पुनः / विलोक्य नेष्यते सीता दुःखं कार्यं मनाग नहि / / 607|| ततः ससोदरो रामः श्वभ्रलङ्कापुरि द्रुतम् / गत्वा खरसुतं सुन्दं जिग्ये युद्ध विना ततः // 608|| ततः पाताललङ्कायां विराधं न्यस्य सेवकम् / रामः ससोदरस्तस्थौ क्रियन्तो वासरान् ध्रुवम् // 606 // पूर्वमिच्छरितस्तारां स साहसगतिः खगः / इष्टरूपकरां विद्यां ससाध विप्रतारिणीम् // 610 / / सुग्रीवे क्रीडितु याते शुभोद्यानेऽन्यदा मुदा / स साहसगतिविद्या-धरः सुग्रीवरूपभृत् / / 611 / / तारामिच्छुः पुरीमध्ये-ऽभ्येत्य सुग्रीवविष्टरे / उपविष्टोऽनुगैः सर्वैः सेव्यते भक्तिपूर्वकम् // 612 / / उत्थायान्तःपुरे याव-धाति सुग्रीवरूपभृत् / तावत् सत्योऽपि सुग्रीवो रुद्धो द्वारि समागतः // 613 // सुग्रीवद्वितयं दृष्ट्वा संशये पतितस्तदा / चन्द्ररश्मिः सुतो बालेः शुद्धान्तमरुणत् स्वयम् // 614 // सुग्रीवो माथिको नान्तः-पुरे प्रवेशमाप्तवान् / अन्योऽपि न पुरीमध्ये प्रवेशं लभते तदा / / 615 / / किष्किन्धानगरीमध्ये स्थितः सुग्रीवभूपतिः / कियद्भिर्मन्त्रिभिश्चान्तः-पुरं नाना निसेव्यते // 616 // बहिस्थोऽपि स सुग्रीवः कियद्भिः सुभटादिभिः / मन्त्रिभिः सेव्यते व्यक्ति-कत्तु शस्तस्तयोर्न कः ? / / 617 // सुग्रीवयो थोरास-नक्षौहिण्यश्चतुर्दश / ततो द्वाभ्यां विधी घेत सङ्ग्रामो दारुगः सदा // 618 // क्षीणास्त्रः पुरवाह्यस्यः सुग्रीवो ध्यातवानिति / अक्षीणपौरुषो वालि-र्दीक्षां लात्वा शिवं ययौ / / 616 //