________________ 0000aat 00000000000000000 ............जैनगीतासम्बन्ध........ अत्राऽभवं जटायुश्च पक्षी दुर्ध्यानयोगतः / ततः कुर्वे जिनेन्द्रोक्त धर्म मुक्तिसुखप्रदम् / / 570 // मत्वेति सेवते राम-लक्ष्मणौ धर्महेतवे / सार्धं च कानने ताभ्यां चचाल पक्षिराट् स च // 571 / / जटायुर्जानकीराम-लक्ष्मणानां च सन्निधौ / श्रुत्वा जैनं वृषं भूते-ष्टाष्टम्योश्चक्षपणं व्यधात् // 572 // इतोऽम्बरात् समागत्य रावणो धरणीतले / सीतां जहार कुर्वन्ती विलापमिति स क्ष(ण)पम् // 573 // हा ! मातर्हा ! पितर्हा हा ! भ्राता देवराऽधुना / अस्माद् दुराशयाद्रक्ष रक्षेति मां कृपापरा // 574 // हा ! धीमतां प्रथम लक्ष्मण ! हाऽऽर्यपुत्र ! हा ! तात हा ! दशरथ क्षितिपालचन्द्र ! / नीताऽस्मि निर्जनवने पिशिताननेन, त्रायस्व मामिति मुहुविललाप सीता // 1 // सा नीयमाना विललाप सीता, श्येनेन चिल्लीवदशाननेन / भामण्डल ! भ्रातरहं वनीये हा राम ! हा देवर ! तात मातः // 2 // विभूपणं किं कुचमण्डलानां ? कीदृश्युमा ? चन्द्रमसः कुतो भाः ? / सीता कथं रौति दशास्यनीता ? हा राम हा देवर तात मातः ! // 3 // सीतावचो निशम्येति जटायुरेत्य तत्र विः / जगौ दुराशयेमां मा हर सीतां सती त्वकम् // 575 / / एषा सती हृतात्रेव परत्र चासुखप्रदा / भविष्यति तवात्मनोऽतो मुचेमां नरेश्वर ! // 576 // एवं प्रोक्त यदा नैव विरराम दशाननः / तदा दशमुखं हन्तु-मधावत विरंजसा // 577 // प्राह चेति-रे रे राक्षस ! मा स्म शङ्करवरभ्रान्त्या विभांक्षीनयं, रुष्टो मूढ तदैव यन्मतिमदात्सीतापहारे हरः / नो चेदिष्टकपालमण्डलभृताप्याखण्ड्य मुण्डावली, भक्त्या ढौकितमीश्वरेण किमिति प्रत्यर्पितं प्राभृतम् // 578 / / अत्रोटयन् दशास्याङ्ग जटायुर्नखरैर्यदा / तदाऽनैषीदशास्यस्तं यमसद्म विमञ्जसा // 579 / / सीता भीता तदाऽजल्प-दिति भामण्डलं प्रति / हा भामण्डल ! हा भ्रात-र्ममावेहाधमादतः // 580|| भामण्डलानुगो विद्या-धरो रत्नजटी तदा / सीतां हृतां दशास्येन ज्ञात्वाऽधावत रक्षितुम् / / 581 / / तमापतन्तमालोक्य लकेशः पृष्ठितस्तदा / स्वविद्ययाऽथ तद्विद्यां हत्वा क्षोण्यामपातयत् // 582 / / तत्पत्नीतामनिच्छन्ती सीतामविघ्नतस्तदा / मुमोच रावणो देव-रमणाभिधकानने // 583|| वरीतु रावणं सीता बोध्यमानाऽङ्गनादिभिः / राम रामेति नो नामा-ऽमुश्चचित्तान्मनागपि // 584 // इतो रामं समायान्तं निरीक्ष्य लक्ष्मणो जगौ / सीतामेकाकिनी मुक्त्वा त्वं भ्रातः! किमिहागतः 1 // 585 // रामेणोक्त त्वया सिंह-नादोऽकारि प्रयत्नतः / तेन त्वत्सन्निधावागा-मिह साहाय्यकृते तव // 586 // लक्ष्मणः प्राह न च्वेडा मया चक्रे सहोदर ! / किन्तु सीतापहारार्थ केनचिद् विहिता च सा // 587 / याहि पाहि द्रुतं सीतां त्वमहं सर्वशात्रवान् / हत्वा तव पदोपास्तिं कत्तु मेष्यामि शीघ्रतः // 588 // रामः पश्चात् समायातो-ऽपश्यन् सीतां प्रियां प्रियाम् / मूळमाप्य क्षणाल्लब्ध-चैतन्योऽथारुदद् भृशम् / 586 / हे सीते ! हे प्रिये ! प्राण-वल्लभे ! त्वमिहाऽऽवज / नोत्तरं देहिं किं छन्नं स्थिताऽसि साम्प्रतं प्रिये ! // 560 // इतस्ततो भ्रमन् सीतां सीतामिति गदन् भृशम् / जटायुषं व्रजत्प्राण-मपश्यद्रामभूपतिः // 561 // श्रुत्योः स्थित्वा नमस्कारान् दायं दायं जटायुषम् / अल मयत् सुरावासं रामो धर्मज्ञशेखरः // 562 / / यतः-पंच नमुक्कारे समायाते वच्चंति जस्स दस पाणा / सो जइ न जाई मुक्खं अवस्स वेमाणिग्रो होइ // 1 //