________________ जैनगीतासम्बन्ध: 10000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000 सहस्रारः समेत्याऽथ भक्तया नत्वा दशाननम् / जगौ कृत्वा कृपां मुश्च मत्पुत्रं गुप्तिवेश्मतः ||509 // मोदयेऽहं गुप्तितश्चनं तदा राज्यं ददामि च / अङ्गीकृत्य दशास्योक्त-मिन्द्रः स्वपुरमीयिवान् / 510 // लङ्कां प्रमार्जयन शश्व-दिन्द्रो लज्जापरोऽन्यदा / राज्ये स्वं नन्दनं न्यस्य जग्राह संयमश्रियम् // 511 / / तप्त्वा तपश्चिरं क्षिप्त्या काटकमशेषतः / इन्द्रषिः केवलज्ञानं प्राप्य प्राबोधयज् जनान् // 512 // बोधयित्वा जनान् भूरीन् गत्वा शत्रुञ्जयाचले / आयुःक्षवाद्ययौ मुक्ति-मिन्द्रः साधुसहस्रयुग् // 513 // परस्त्रीसङ्गमान् मृत्यु विदन् दशाननस्तदा / इच्छन्तीमपि वामाक्षी न्यषे वयन निरन्तरम् / / 514 // वरुणस्याऽऽहवे वीक्ष्य हनुमद्धलमुल्वणम् / हृष्टो दशाननोऽप्राक्ष त् कस्यायं नन्दनः खलु ? // 51 // मन्त्रीश्वरोऽवगादित्य-पुरे प्रल्हादभूपतेः / पवनञ्जयपुत्रोऽभूत् पत्नीकेतुमतीभवः // 516 // माहेन्द्रनगराधीश-माहेन्द्रनृपनन्दिनीम् / अञ्जनासुन्दरी पाणि-ग्रहादङ्गीचकार सः // 517 // पवनञ्जयभूभुग्भू-रञ्जनासुन्दरीभवः / हनुमानाभिधः सूनु-रयं प्रबलविक्रमः // 518 / / एकदा जननीपार्थाद् विमाने याति वेगतः / अर्भकोऽयं पतन शैलं देहभारादचूर्णयत् / / 516 / / चूर्णिता दृषदो भग्नां-स्तरून भूरीन् सुतं पुनः / अक्षताङ्ग निरीक्ष्याऽम्या स्वौकोऽनैषीत् प्रमोदतः // 20 // एवंविधोऽयं बलवान हनुमान् विद्यतेऽद्भुतः / क्रियते सेवकश्चायं तदा वयं भवेन्ननु // 521 / / रावणेन ततश्चक्र हनुमान सेवको निजः / रावणस्याऽऽदरात् सेवां चकार च दिवानिशम् / / 522 // तत्र सत्यवती खेटनन्दिनीं जितनिर्जरीम् / अनङ्गसुभगाश्चान्या उपये मे दशाननः // 523 // विद्याभृतो विभाकान्त-रविचन्द्रारबुधान् गुरुम् / शुक्रशनिश्चरान राहु-केतुसज्ञान् ग्रहान्नव // 524|| अनङ्गसेनभूकान्त-वीर्यवर्यधराधवान् / वश्यऽकार्षीदशास्योऽय स्वकीयभुजलीलया ॥५२॥युग्मम्।। दशानने गृहे सर्वे एते कर्मकरा इत्र | कार्याणि रावणोक्तानि कुर्वते स्म दिवानिशम् // 526|| त्रिखण्डां मेदिनी सर्वां साधयित्वा दशाननः / समेत्य स्वपुरे राज्यं चकार न्यायवर्मना // 527 // षोडशाथ सहस्राणि भूपा मुकुटबद्धतः / सेवन्ते रावणं भूपं समेत्य स्वपुराद् भृशम् / / 528 // त्रिखण्डेशो रसक्षोणी मितसहस्रभूधवैः / सेव्यमानो व्यधाद् राज्यं दशास्यः शक्रवनदा // 526 // . कालादिनन्दना लक्ष-प्रमिताः प्रबलौजसः / रावणस्याभवन् वर्याः पृथक् पृथक प्रियाभवाः // 530 // एकदा तीथमाहात्म्यं श्रुत्वा दशाननो नृपः। [महत् सङ्घयुतः]ग्रामे ग्रामे महं कुर्वन् तीर्थे शत्रु-जये ययौ / 531 // तत्र स्नात्रार्चनामुख्यं पुण्यं कृत्वा दशाननः / ऋषभस्य पदौ नत्वा गिरिनारगिरौ ययौ // 532 // तत्र विस्तरतः श्र मन्नेभि-जिनार्चा भावपूर्वकम् / विधाय स्वपुरे चारूत्सवमागाद् दशाननः / / 533 // स्वयं विस्तरतोऽत्र वाच्यःइतश्च दण्डकारण्ये रामस्य तस्थुषः सतः / लक्ष्मणः कानने भ्राम्यन् खड्गमेकमलोकत // 534 / / कौतुकात्तु करे कृत्वा पार्श्वस्थां वंशजालिकाम् / छित्वाऽजनालवत् शीर्ष-मपश्यत् पतितं पुरः // 535 // ध्यातवान् लक्ष्मणः कोऽपि मया मोठ्याद् हतो नरः / अयुध्यमारनृहते भवेत् श्वश्रदं तमः // 536 // लात्वाऽसिं लक्ष्मणोऽन्येत्य रामान्ते नृवधं जगौ / रामोऽवग् वत्स ! न वरं विहितं साम्प्रतं त्वया // 537|| यो ना हतस्त्वया तस्य चन्द्रहासोऽसिरस्ति नु / कोऽपि मोऽथवा नारी समस्त्युत्तरसाधिका // 538 //