________________ 154 शत्रुञ्जय-कल्पवृत्ती .0000000 10000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000 महतामपि दानानां कालेन क्षीयते फलम् / भीताभयप्रदानस्य क्षय एव न विद्यते // 3 // यावन्ति रोमकूपाणि पशुगात्रेषु भारत ! / तावद्वर्षसहस्राणि पच्यन्ते पशुघातकाः // 4 // पृथिव्यामप्यहं पार्थ ! वायाग्नौ जलेऽप्यहम् / वनस्पतिगतश्चाहं सर्वभूतगतोऽप्यहम् // 5 // यो मां सर्वगतं ज्ञात्वा नहि हिंस्यात् कदाचन / तस्याहं न प्रणस्यामि स च मे न प्रणस्यते // 6 // मार्य माणस्य हेमाद्रिं राज्यं वापि प्रयच्छतु / तदनिष्ट परित्यज्य जीवो जीवितमिच्छति // 7 // " यूपं कृत्वा पशून् छित्वा कृत्वा रुधिरकर्दमम् / यद्येवं गम्यते स्वर्ग नरके केन गम्यते ? // 486 // इत्यादि बहुभिः सूक्तैः क्रतु हिंसामयं तदा / निषिध्य रावणो विप्रा-नग्राहयद् दयामयम् // 487 // यतः-आत्मा नदी संयमतोयपूर्णा सत्यावहा शीलतटा दयोर्मिः। __ तत्राभिषेकं कुरु पाण्डपुत्र ! न वारिणा शुद्धयति चान्तरात्मा // 488 // ततस्ते वाडवा जैन-धर्म कुर्वन्त आदरात् / तीर्थे शत्रुञ्जये गत्वा तपस्तेपुश्चिरं मुदा // 486 // क्रमात् कर्मक्षयाच्छत्रु-जये तीर्थे शिवं ययुः / तत्र चक्र दशास्यस्य विहारं तापसाभिधम् // 460 // . दुर्लङ्घन्यनगरे कुम्भ-कर्ण मुरल्यान् सहोदरान् / अनेकभृत्यसंयुक्तान् कुम्भ्यश्ववलराजितान् / / 461|| रावणोऽप्रेषयज जेतु-मराति नलकूबरम् / शोभने वासरे वर्य-शकुनेषु बहुष्वथ // 462 // स्वपुर्यां परितो वनयोजन नां शतैयुतम् / आशाल्या विद्यया तत्र बलीयानरिभूपतिः / 463 / / तत्र पुर्यन्तिकं कुम्भ-कर्णाद्यास्ते महीभुजः / न शेकु/क्षितु व ज्वलज्ज्वालाभिवेष्टितम् / 464 // कुम्भकर्णादयो भूपा अशक्तास्तत्र पत्तने / प्रवेष्टुमभवन् दीन-मानसा लजिताशयाः / 465 // ततः पश्चात् समागत्य रावणक्ष्मापसन्निधौ / दुर्लयनगराग्राह्य-स्वरूपं ते न्यवेदयन् / / 466 / / रावणोऽथ समागत्य दुर्लयनगरान्तिके / ज्वलद्वह्निमयं वा-मपश्यत्त्वरितं तदा // 467|| अग्राह्यनगरं तत्र ज्ञात्वा रावणभूधवः / सर्वकामितदां विद्यां स सस्मारकमानसः // 468 // नलकूबरपत्नी तु सानुरागा दशानने / स्वयमेत्य ददौ तरमै विद्यामाशालिनी द्र तम् // 466 // वहिवामपाकृत्य तयैव विद्ययाऽचिरात् / अग्रहीनगरं तच्च चक्र चापि सुदर्शनम् / / 500 / यतः-धम्मेण कुलप्प सूई धम्मेण य दिव्वरूवसंपत्ती / धम्मेण धणसमिद्धी धम्मेण सुवित्थडा कित्ती // 1 // धम्मो मंगलमउलं उसहमउलं च सव्वदुक्खाणं / धम्मो बलं च विउलं धम्मो ताणं च सरणं च // 2 // नलकूवरभूपोऽवक प्रणम्य रावणं प्रति / अहमस्मि तवैवाऽतः-परं भृत्यो दशानन ! // 501 // तद्राज्यं रावणस्तस्मै वितीर्य तप्रियां पुनः / त्वं मे यामीति जल्पित्वा विससर्ज स्वं पुरं प्रति // 502|| ततो दशाननोऽभ्येत्य वैताढ्यधरणीधरे / रथनूपुरस तत् पुरं चावेष्टयद् रुपा // 503 / / कोपरह्निज्वलच्चे ता इन्द्रो विद्याधराधिपः / स्वबलं ज्ञापयामास रावणाय महीभुजे // 504 // संग्रामः क्रियते चेद्धि तदा जीववधो भवेत् / अतोऽहंच भवान् युद्धं कुर्वेऽधुना परस्परम् / / 505 // : ततस्तौ द्वीपमारूढौ स्वस्वविद्यास्त्रवर्षिणी / अभूतां भीतिदौ नृणां स्वर्गिणामपि तत्क्षगात // 506 // संग्रामं रावणः कुर्वन बद्ध्वेन्द्र दृढबन्धनैः / निजाज्ञां ग्राहयामासा-नुगानिन्द्रस्य लीलया // 507|| जयढक्कां दशास्योऽथ वादयन् सर्वतस्तदा / लङ्कामभ्येत्य कारायां चिक्षेपेन्द्र शकुन्तवत् / / 508 / /