________________ जैनगीतासम्बन्धः 153 .200000.. रेवाकुलङ्कषातीरे स्थितो दशाननो व्रजन् / स्थापयित्वाऽर्हतो विम्ब-मानर्च सुन्दरैः सुमैः / / 460 // अकस्मादागतेनाऽम्बु-प्रवाहेन जिनार्चना / व्युदस्यत दशास्ये तु ध्यानलीने प्रभोः पुरः // 461 // क्रुद्ध दशानने कश्चि-दागत्य मानवोऽवदत् / इतो माहिष्मतीशोऽस्ति सहस्रांशुमहीपतिः // 462 // संरुद्धाम्बुप्रवाहस्य मोक्षणाद् जिनपार्चना / अपाकृताऽमुना ऋद्धो दशास्यो रावणोऽजनि // 463 / / प्रजिघाय दशास्यो यान् भृत्यांस्तजयहेतवे / ते सहस्रांशुभूपेन हताः पश्चात् समाययुः // 464|| ततो दशाननस्तत्र गत्वा जित्या रिपु तकम् / दृढ़बद्ध सहस्रांशु स्वकीये शिबिरेऽनयत् / / 465 / / जाते जयजयारावे यावत् संसदि रावणः / उपाविशत् प्रगे तावद् व्योम्न्येकः साधुरागमत् / / 466 / / नत्वा दशमुखः साधु-मुपावेश्य वरासने / धर्म श्रोतुमुपाविष्ट-स्ततो मुनिज़गावदः।।४६७॥ धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशो विद्यार्थसम्पत्तयः। कान्ताराच्च महाभयाञ्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति च स्वर्गापवर्गप्रदः // 468 // रावणोऽवग मुने ! केन वैराग्येण त्वया व्रतम् / गृहीतं स जगौ माहि-मत्या भीमोऽभवत् खगः // 466 // तस्याऽजनि सहस्रांशु-स्तनयो विनयी नयी / धर्मकर्मकलाविज्ञः कृपाकवचिताशयः // 470 // यतः-रजोरप्युपरि भ्रमन्ति कतिचित्तीवाभियोगानरा-स्तर्कव्याकरणादि शास्त्रनिपुणाभ्यासस्तु शिल्पं कियत् / यद् गाढ़ो विनयः श्रुतं यदमलं यद्वीतरागं मनो, यत् सौजन्यमखण्डितं स हि गुणरतेनैव विद्वान् पुमान् / / 471 / / विज्ञानं कि नोर्णनाभ-सुगृहीशुष्माशिहंसादिषु, द्वन्द्व किं न लुलायलावाकुले मेषे तथा कुकुटे / गीतं नृत्यकला च केकिपिकयोक्सिारिकाकीरयोः, सद्धर्माचरणे परं चतुरता यद्यस्ति मानुष्य के // 472 // भीमोऽन्येधुर्गवाक्षस्थो वीक्ष्याऽभ्र गगने महत् / जायमानं प्रगे यावत् पुनः पुनर्विलोकते / / 473 // तावत्तत्र समायातः तीव्रवातेन सर्वतः / अध्र विशीर्णतां नीतं विद्यु द्गर्जितसंयुतम् / / 474 / / अभ्राभं भवमालोक्य सहस्रांशुममुसुतम् / न्यस्य राज्ये मया दीक्षा गृहीता शिवशर्मदा // 47 // मुनेः सुतं सहस्रांशु मत्वा चोन्मुच्य बन्धनात् / क्षमयित्वा दशास्येन स्वराज्ये स्थापितः स च // 476 / / सहस्रांशुरपि प्रौढ-प्राभृतं दशमौलये / दत्त्वा क्षान्त्वा जगौ भृत्य-स्तवाऽतोऽहं च किङ्करः / / 477 // स्वराज्ये स्वसुतं न्यस्य सहस्रकिरणो नृपः / भीमं पित्रन्तिके दीक्षां जग्राहाऽनघमानसः // 47 // ततो भीमेन संयुक्तः सहस्रांशुर्यतिः सदा / तपःपरो ययौ शत्रु-ञ्जये तीर्थे शिवप्रदे // 476 / / तत्र भीमसहस्रांशूः कुर्वाणौ सन्ततं तपः / लभेते केवलज्ञानं लोकालोकप्रकाशकम् / / 480 // दशाननस्ततो गच्छन् रेवाकूले बहून् पशून / तुरगान् पक्षिणो दीनान् वीक्ष्येति सेवकान् जगौ // 481 / / किमेष ज्वाल्यते वह्निर्वीक्ष्यन्ने पशवोऽत्र किम् / भृत्या जगुर्द्विजैर्यज्ञः क्रियमाणोऽस्ति साम्प्रतम् // 482 // क्षिप्स्यन्ते पशवो ह्यते वह्नौ धर्माधिया द्विजैः / ततो दशाननस्तत्र यज्ञे गत्वा ज़गावदः / 483 // एते किं पशवो वह्नौ क्षिप्यन्ते धर्महेतवे ? / भवद्भिरविचार -नरकोव्यां च यास्यते // 484 // जीवानां हिंसयाऽमुत्र परत्राऽसुखसन्ततिः / श्वभ्रादौ लभ्यते नूनं प्राणिभिर्नात्र संशयः // 485|| यतः-"सर्वे वेदा न तत् कुथुः सर्वे यज्ञाश्च भारत ! / सर्वे तीर्थाभिषेकाश्च यत् कुर्यात् प्राणिनां दया / / 1 / / वरमेकस्य सवस्य प्रदत्ताऽभयदक्षिणा / न तु विप्रसहस्र भ्यो गोसहस्रमलङ्कृतम् // 2 //