________________ 152 शत्रुञ्जय-कल्पवृत्ती 000000000000000000000000000000000000 10000 उन्मार्गे प्रचलनीर-प्रवाहः प्रबलानिलः / तदाऽष्टापदभूमीध्रो बभूव भयकृद् भृशम् // 430 // बाली दध्यौ च कः पापी शैलमुत्पाट्य सम्प्रति / क्षिप्स्यत्यब्धौ यदा तीर्थ-ध्वंस एव भविष्यति // 431 // सत्यां शक्तौ च यस्तीर्थ-ध्वंसकारिनरं किल / निवारयति नो यस्य भूरि पापं प्रजायते // 432 // यतः-ध्यात्वेति स मुनिर्वाम-पादाङ्ग ठाभिषङ्गतः / अष्टापदगिरेौलि-मपीडयत्तदा मनाम् // 433 / / दशास्यः सङ्कुचद्द हो वमच्छोणितपङ किलः / तदैव दीनवद् विश्व रावयन् विरराव सः॥४३४॥ तदैत्य निर्जरैः प्रोक्त मा मुने! वालयाचलम / अयं दशाननो मृत्यु गमिष्यत्येकहेलया // 43 // प्रसद्याऽस्य दशास्यस्य मुनीश ! देहि जीवितम् / अतः परं दशास्यो ना-पराधं ते करिष्यति // 436 // ततः कृपापरो बालिः प्रसद्य रावणोपरि / विररामाऽऽशु तस्यैव भूधरस्यातिपीडनात् // 437 // निःसृत्य रावणो बालिं नत्वा तन्त्वा जगाविति / अस्मात् पापान्ममाधस्ताद् गतिनं भविष्यति // 438|| शैलस्याधः स्थितो बालि-पादाङ्गठनिपीडितः / रावं चक्रे ततो देव रावणाह्वा कृताऽस्य तु // 436 / / ततोऽमात्यैरगादीति भो रावण ! नराधम ! | श्रमणाद्या न हन्तव्याः कदाचिदुत्तमैनरैः // 440|| यतः-समणा य बंभणा वि य गोपसुइत्थी य बालया बूढ़ा / जइ वि हुं कुणंति दोसं तह वि य एए न तव्या / / ततः सान्तःपुरश्च त्ये कारिते भरतेन तु / रावणः पूजयामास नामेयादिजिनाधिपान् // 441|| क्षमयित्वाऽपराधं स्वं भावपूजाकृते तदा / स्नसां तंत्री भुजं वीणां विदधे दशकन्धरः // 442 // तादृश्या वीणया नाद-पूजामग्रे जिनेशितुः / कुर्वन् दशाननः प्राप तदैक्यं प्रभुणा समम् // 443 / / तदा तत्राऽऽगतः शेषो नत्वा भक्त्या जिनेश्वरान् / दशास्यं ध्यानमारूढं दृष्ट्वा हृष्टो जगावदः / / 444 // दशास्य ! प्रभुभक्त ! त्वं वरं वृणु यथेप्सितम् / रावणोऽवक प्रभोर्भक्ति-रेवाऽस्तु सुचिरं मम // 445 // अनिच्छतो दशास्यस्य प्रभुभक्तस्य सर्पराट / अमोघविजयांशक्तिं दत्त्वा विद्याश्च निर्ययो // 446 / / नित्यालोकपुरे गत्वा नमस्कृत्य जिनेश्वरान् / वायुवेगसुतां रत्न-वती स परिणीतवान् // 447 / / तत्र वैताट्यभूमिधे अन्याः खगकनीर्वराः / परिणीय दशास्यः स्व-पुरी लङ्कां समीयिवान् // 448 // इतो बाली तपस्तीव्र कुर्वन् ध्यायन् परं महः / घातिकर्मक्षयादाप केवलज्ञानमञ्जसा // 446 // बालिः प्रबोध्य भव्याङ्गि-जनान् भूरीन् सुधर्मणि / आयुःक्षये ययौ मुक्ति शत्रुञ्जयशिलोचये // 45 // तदा वाचंयमा लक्ष द्वादश प्रतिमावराः / अवाप्य पञ्चमं ज्ञानं मुक्तिपुर्यां समागमन् ||451 / / विद्याभृद्धलनशिख-प्रियाऽस्त सुतां वराम् / तस्यास्तारेति नामाऽदात् पिता कृत्वा जनुर्महः॥४५२॥ यौवनस्यां सुरूपां तु साहसगतिसज्ञिकः / याचते व्योमगोऽभ्येत्य परिणेतु तमन्वहम् / / 453 // इतः समेत्य सुग्रीव-स्तारां कन्यां सदुत्सवम् / परिणीय ययौ स्वीय-नगरेऽनघविक्रमः // 454|| सत्स्वप्नसूचितौ पुत्रा-बंगदं च जयं पुनः / ताराऽभूत वरे घस्र सूर्यद्वोरुचयोः सतोः // 455 / / स साहसगतिस्तारां सुग्रीवोढां जनाननात् / श्रुत्वा दध्यावहं नूनं वञ्चितोऽस्मि ह हा ! किल // 456 / / तारामङ्गीचिकीः कामं स साहसगतिः खगः / विद्यां साधयितु यातो रुचिरे हिमवगिरौ // 457 // इतोऽहङ्कारिणं शक्र-मनन्तं कुमदोद्धतम् / श्रुत्वा खरमुखैविद्या-धरैः सुग्रीवसेवितः // 458|| शोभने वासरेऽचालीद् विजेतु दशकन्धरः / चतुरङ्गचमूयुक्तो जितानेकद्विषञ्चयः // 456 // युग्मम् //