________________ जैनगीतासम्बन्धः 151 100000000000000 10000000000000000000000000000000000000000.0000.. गतक्रोधो दशास्योऽयं स्वजामिरमणं खरम् / सदूषणं न्यधाचन्द्रो-दरराज्ये सदुत्सवम् // 40 // मृते चन्द्रोदरे भार्या-ऽनुराधा कानने स्थिता / विराधाख्यं सुतं चारु गुणगेहमजीजनत् // 401 // किष्किन्धायां बलिष्ठं तु बालिनं जितशात्रवम् / श्रुत्वा दशाननो दूत-पार्वादाकारयद् ध्रुवम् // 402 // बाली प्राह विनाऽर्हन्तं नापरं निर्जरं नृपम् / नमाम्यहं क्वचित् प्राणात्ययेऽपि रावणं प्रति // 403 / / श्रुत्वैतद्रावणः क्रुद्धो मेलयित्वा बलं महत् / चचाल बालिनं जेतु कम्पयन्नरीमानसम् / / 404 / / युध्यन् दशाननोऽनश्यद् बालिना बलिना तदा / चन्द्रहासासियुक् कण्ठे गृहीतः पशुवद् ध्र वम् // 40 // सखड्गं रावणं कक्षा-कोटरे पश्यतां नृणाम् / प्रक्षिप्य चतुरम्भोधिं बभ्राम प्रतिवासरम् // 406 // कुक्षौ क्षिप्त्वा दशास्यं तु बाली तद्व रिसामु / दर्शयित्वा प्रणम्याप्तान शाश्वतानैति मन्दिरम् // 407|| तत्रान्यदा धनाचार्य-समीपे धर्मदेशनाम् / श्रोतु बाली ययौ यावत् तावद् गुरुर्जगाविति ||408 // चत्वारः प्रहरा यान्ति देहिनां गृहचेष्टितैः / तेषां पादे तदद्धे वा कर्त्तव्यो धर्म-संग्रहः // 406 // बावत्तरि कलाकुसला पंडियपुरिसा अपंडिया चेव / सयकलाणं परं जे धम्मकलं न याति // 410 // तं रूवं जत्थ गुणा तं मित्तं जो न विहाडेइ / सो हत्थो जो हत्थे तं विन्नाणं जहिं धम्मो // 411 / / परपीडा न कर्तव्या बन्धन-छेदनादिभिः / भूपानां तु विशेषेण न कर्तव्या महात्मभिः // 412 // कोहो पीइं पणासेइ माणो विणयनासणो | माया मित्ताणि नासेई लोभो सव्वविणासणो // 413 / / उवसमेण हणे कोहं माणं मदवया जिणे / मायं अजवभावेणं लोभं संतोसो जिणे // 414 // ततो रावणमुन्मुच्य क्षमयित्वा स्वपातकम् / विससोचिराद् बाली लङ्कां प्रति वली बलात् // 415 // सुग्रीवं स्वपदे न्यस्य बाली वैराग्यवासितः / विधायाऽष्टाह्निको सार्वगेहेषु व्रतमाददे // 416 / / दशकण्ठाय सुग्रीवः श्रीप्रभां तनयां ददौ / यौवराज्यं मुदा बालि-सूनवे चन्द्ररश्मये // 417|| वैताढ्य वायुवेगस्य पुत्री रत्नवतीं वराम् / उद्वोढुंचलितो व्योम-वर्त्मना रावणोऽन्यदा // 418 / / गच्छतो दशकण्ठस्या-टापदस्योर्ध्वमन्यदा / विमानं पुष्पकं बाढ-मन्यदा स्खलितं ध्रुवम् // 416 // अधस्ताद् बालिनं साधु वीक्ष्य दशाननस्तदा / साधुवेषधरोऽप्येष विमानं मेऽस्खलद् दृढम् |420 // साधुवेषमसौ दम्भाद् दधानो बालिसंयतः / मयि क्रोधी मयि द्रोही दृश्यतेऽद्यापि मायिकः // 421|| यतः-"मायाशीलः पुरुषो यद्यपि न करोति किंचिदपराधम् / सप्प इवाविश्वास्यो भवेत् तथाप्यात्मदोपहतः // 422 // पृष्ठतः सेवयेदक जठरेण हुताशनम् / स्वामिनं सर्वभावेन तथा वंचयते शठः // 423 / / विमानमधुनाऽनेन स्खलितं व्रतदम्भतः / अतोऽमुगिरिसंयुक्त क्षिप्स्यामि लवणाम्बुधौ // 424 // पुराऽप्यनेन कक्षायां क्षिप्तोऽहं वासरान् बहून् / यतित्वेऽप्यधुना वैरं न मुञ्चति मया समम् // 425 // अस्य पापयतेः प्राणान नीत्वा यमनिकेतनम् / स्वस्थीभवाम्यहं भूरि-कालवैरिविवर्जितः // 426 // विदार्योवीं ततोऽधस्ताद् गिरेः प्रविश्य रावणः / पर्वतोत्पाटनी विद्यां सस्मारैकाग्रमानसः // 427|| पर्वतोत्पाटनी विद्या-बलात् स्कन्धे च तं गिरिम् / स कृत्वा यावता चक्रे प्रयत्नं रावणो नृपः // 428 / / त्रुटतत्रुटनदृषन् सन्धि-रुद्भ्रान्तभूतसन्ततिः / कम्पमानतरुणि-न्ये पतत् शृङ्ग पश्चयः // 426 /