________________ जैनगीतासम्बन्धः 143 1000000000 000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000 पत्ता य कामभोगा कालमणंतं इहं स उवभोगा / अप्पुव्वं पिव मन्नइ तहवि य जीवो मणे सुक्खं // 5 // तदा ध्यायन्निति प्राण-त्यागात् कुण्डलमण्डितः / जनकक्षमापगेहिन्याः कुक्षौ च समवातरत् // 12 // तदा तप्त्वा तपस्तीव्र-तरं वेगवती सती / गत्वा स्वर्गे ततश्च्युत्वा पत्न्या जनकभूपतेः // 163 / / गर्भे समागता पूर्व-चर्य पुण्योदयान्ननु / ततो जनकगेहिन्या गर्भे युग्मं विवर्द्धते // 164 / / तदा मृत्वा सुरो भूत्वा पिङ्गलः श्रमणो ध्र वम् / वैरं ज्ञात्वा रुषाद् गर्भ तौ स्तम्नाति स्म निर्दयम् // 165 / / ततो जनकगेहिन्या विदेहाया जिनार्चनम् / कुर्वाणाया अभून्मुक्ति-गर्भस्य पुण्ययोगतः / / 196 // विदेहा पुत्रपच्यौ च यावत् सूते स्म सौख्यतः / तावत् स पिङ्गलो देवो जहार जनकाङ्गजम् / / 167 / / दुरं नीत्वा शीलायां त्वा-ऽऽस्फालयन् ध्यातवान् स च / किं मया मौढ्यतो बालो हन्यते क्रूरचेतसा // 16 // ध्यात्वेति तं शिशु हार-कुण्डलाभ्यां समन्वितम् / मुक्त्वा तत्रैव देवः स निजं स्थानं समीयिवान् // 16 // तदा तत्राऽऽगतश्चन्द्र-गतिविद्याधरोत्तमः / लात्वाऽभ्येत्य गृहे प्राह वनदेव्याऽर्पितः सुतः / / 200 // ततो भामण्डलेत्याह्वां दत्त्वा तस्य खगेश्वरः / वर्धयद्भरिशो विद्या-स्तस्मै वितीर्णवान् स्वयम् // 201 // अस्मिन्नेव भवेऽतस्ते भगिनी जनकात्मजा / भामण्डल ! विजानीहि वियोगः कर्मणोऽभवत् // 202 / / भवतो जनकोऽभूत् ते विदेहा जननी पुनः / वियोगात्तव पत्न्या युग जनको दुःख्यजनिष्ट च // 203 / / यतः-'उल्लो सुक्को य दो छूढा गोलया मट्टिया मया / दोवि आवडीया कुड्डे जो उल्लो सोत्थ लग्गई / / 1 / / भामण्डलो निशम्येति नत्वा सीतापदाम्बुजम् / जगौ मया कृतो रागो भवत्यां दुःखदायकः // 204 // तेन रागेण मे श्वभ्र पात एव भविष्यति / अतस्त्वया भगिन्यद्य क्षम्यतां मयि साम्प्रतम् // 205 / / तत आलोचनां लात्वा ज्ञानिपाचे स्वशक्तितः / भामण्डलोऽखिलं पापं स्वं निनिन्द मुहुमुहुः / / 206 // आलोयणापरिणो सम्मं संपट्ठिो गुरुसगासे / जइ अंतरावि कालं करेज आराहो तहवि // 207 // ततो भामण्डलो गत्वा जनकेश-विदेहयोः / मातापित्रोमिलित्वाशु प्रमोदं तनुतेतराम् / / 208 / / सीतायाः स्वस्य सम्बन्ध ज्ञान्युक्त मातृतातयोः / पुरतः प्रोक्तवान् सद्यो भामण्डलस्तनूभवः // 206 // ततो वैताढ्य भूमिधे दक्षिणश्रेणिशालिनि / रथनूपरपूर्यां तु भामण्डलो नृपोऽजनि // 210 // खगश्चन्द्रगतिः प्राप्य चारित्रं विमलं क्रमात् / सर्वकर्मक्षयान्मुक्ति-नगर्यां समुपेयिवान् // 211 / / इतो दशरथो भूपः प्रेष्य कुकुमपत्रिकाम् / सङ्घमा कारयामास यात्रार्थ सिद्धपर्वते // 212!! हैमा देवालया सप्त शतानि विंशतिः पुनः / वरकाष्टमया दन्त-मयाश्चत्वार एव च // 213 // सङ्घाधिपाः शतान्यष्टौ मनुजाः पञ्च कोटयः। राजानः शतमेकं च महेभ्या गणनातिगाः // 214 // इत्यादि सङ्घसंयुक्तो राजा दशरथस्तदा / रामादिपुत्रसंशोभी भामण्डल समन्वितः (युतोऽचलत्) / / 215 // याचकेभ्यो ददद्दान-मसङ ख्यं मेदिनीपतिः / पठत्सु बन्दिषु प्रोच्चै-निनदं विरुदावलीः // 216 // ददानासु पुरन्ध्रीषु धवलानि वरारवम् / सिद्धाद्रावहतो नन्तु चचाल सुखमध्वनि ||217 // ग्रामे ग्रामे पुरे द्रङ्ग जिनपूजनतत्परः / प्रभावनां व्यधाद् भूपः कैवल्यसुखदायिनीम् / / 218 / / मार्गे सिद्धाचलं वीक्ष्य जिनपूजापुरस्सरम् / लम्भयामास भूपालः श्रोसङ्घ लपनश्रियम् / 219 / / ततश्चलन् महीपालो गत्वा सिद्धाद्रिसन्निधौ / सङ्घशतिलकं सङ्घ-पतिपादिकारयत् // 220 / /