________________ जैनगीतासम्बन्धः 20000000000000000000000000000000000000000000000000. 135 000.0000000 यथा चैत्रस्य राकायां पुण्डरीकोऽगमिच्छिवम् / कार्तिकस्य तथैते तु ततो द्व' पर्वणी स्मृते / / 71 / / चतुर्मासावधिः तुर्य-पूर्णिमास्यां भवेदपि / शिवलब्ध्युत्सवो तेषां तस्यामेव सुरैः कृतः // 72 // यात्रया तपसा दानाद्-देवार्चनविधानतः / अन्यतीर्थाद् भवेत् पुण्य-मनन्तं तत्र पर्वणि // 73 // युग्मम्।। कार्तिकमासि क्षपणात तत् कर्म क्षपयत्यहो ? / नरकेऽब्धिशतेनापि यत्कर्म क्षिप्यते न हि / 74 // एकेनाप्युपवासेन कार्तिक्यां विमलाचले / ब्रह्मयोषिद्म णहत्या-पातकान्मुच्यते नरः / .75 // यः कुर्यात् कार्तिकी राका-मत्रार्हद्ध्यानतत्परः / स भुक्त्वा चक्रिसौख्यानि नितिं लभते द्र तम् / / 76 / / वैशाखकार्तिकमधुप्रमुखेषु मात्सु, राकासु यत् समधिगम्य समं च सङ्घः / / श्रीपुण्डरीकगिरिमूर्धनि देवपूर्जा, कुर्वन्ति ते शिवसुखानि भजन्ति सद्यः // 77 / / यत्र स्थाने ययौ मुक्ति द्राविडो बहुसाधुयुग् / तत्र तत्तनयः स्फारं गेहमाद्याहतो व्यधात् // 78 // पूर्वकोटौ ग़तायां श्री-भरतस्य शिवोदयात् / द्राविडिलिखिल्लश्च सिद्धाद्रौ जग्मतुः शिवम् // 76 / / सर्वे ते तापसाः क्षोण-कर्माणः सिद्धपर्वते / मुक्तिमैयुर्यदा देवा-स्तदा व्यधुर्महोत्सवम् // 80 // तेषामपि तापसानां महोदयमहोत्सवम् / द्राविडेस्तनयश्चक्रे व्ययन् भूरितरं धनम् / / 81 // द्राविडे लिखिल्लस्य तनया बहवः क्रमात् / राज्यं प्राप्य च सन्त्यज्य जगृहुः संयमश्रियम् ||82 // क्रमाच्छत्रुञ्जये गत्वा क्षिप्त्वा शेषतमस्ततिम् / महोदयपुरीसात-मलञ्चक्रश्च ते पुनः ||83 // यत्र शत्रुञ्जयोपान्ते द्राविडिलिखिल्लयुग / दश कोट्या यतीनां तु समं मुक्तिपुरी ययौ // 84 // तत् स्थानं नृसुरैरर्चि तदानीं बहुभक्तितः / ततः क्रमाञ्च मिथ्यात्व-भावेन जगृहे जनैः / / 8 / / तत्राधुना पुरं सिद्धाह विद्यते वरम् / मिथ्यात्वान्मुमुचे तीर्था-भावात् सम्यक्त्वधारिभिः // 86 // ॐ इति द्राविडवालिखिल्लादि-भूपालर्षिमुक्तिगमनसम्बन्धः // // अथ जैनगीतासम्बन्धः॥ जहि रामाइ तिकोडी इगनवई अ नारयाइ मुणिलक्खा / जाया उ सिद्धिराया जयउ तयं पुंडरी तित्थं // 20 // यत्र तीर्थे श्रीरामः कोटित्रयसाधुयुतो मुक्तिं गतः, तथा नारदा एकनवतिःलक्षमुनियुता मुक्तिराजानोऽभूवन् जयतात् तत्तीर्थं, तथाहि-- आदित्ययश आद्य षु भूपेषु पुण्यशालिषु / असङ्ख्य पु प्रयातेष्व-योध्यायां पुरि सुश्रियि // 1 // विजयस्य नृपस्याभूद्-हिमचूलाभिधा प्रिया / अभूता नन्दनौ वौँ वज्रबाहुपुरन्दरौ ॥२॥युग्मम्।। धर्म श्रुत्वा गुरूपान्ते लात्वा दीक्षां तमःक्षयात् / अवाप्य केवलज्ञानं विजयो मुक्तिमीयिवान् / 3 / ततः पुरन्दरो भूपोऽभवन् न्यायिशिरोमणिः / तत्पत्नी पृथिवी कीनि-धरं पुत्रमजीजनत् // 4 // कुशस्थलपुरे स्वामि-भूपस्य न्यायशालिनः / सहदेवीं सुतां कीर्ति-धरश्च परिणीतवान् // 5 //