________________ B0000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000 134 शत्रुञ्जय-कल्पवृत्ती द्राविडोऽवग गृहाणेदं राज्यं झटिति सोदर ! / वालिखिल्लो जगौ भ्रात-स्त्वं राज्यं लाहि मे ध्र वम् // 41 // मम सृतं श्रिया भ्रात-र्मया युद्धं वितन्त्रता / यत्पापमर्जितं तेन श्वभ्रपातो भवेन्मम // 42 // वैरं मुक्त्वा मिथः क्षन्त्वा सोदरौ द्वौ तदा क्षणात् / मेलयित्वा बहु सङ्घ ययौ सिद्धाचले क्रमात् // 43|| तत्र स्नात्रार्चनादीनि कृत्यानि द्वौ सहोदरौ / प्रासादौ प्रथमाप्तस्य कारयामासतुस्तदा // 44 // तयोः प्रासादयोरष्टोत्तरशत्या सुमण्डपैः / रेजुराणि चत्वारि सत्तोरणयुतानि च // 45 // मुख्याईत्सदनस्याधो द्वारं सजविधानतः / कारयामासतुर्मोदात् सिद्धाद्रौ द्वौ सहोदरौ // 46 // ततोऽभवेत्य निजे राज्ये स्वं स्वं तनुभवं क्रमात् / न्यस्याकारयतां पूजां जिनानां जिनसमसु // 47 // ततो महोत्सवं कुर्वन् द्राविडो वालिखिल्लयुग / महोदयमुनेः पार्थे जग्राह संयमं मुदा // 48|| महोदयमुनिविद्या-धरतंयतसन्निधौ / अमुचयतिसम्बन्धि -क्रियां शिक्षयितु तदा // 49 // शिक्षयित्वा क्रियाः सम्यक् तपःकरणतत्परौ / पेठतुभूरिशास्त्राणि द्वावेव सोदरौ तदा // 50 // प्राप्ता वार्यपदौ द्वौ तु सोदरौ दशकोटिभिः / साधुभिः सहितौ सिद्ध-पर्वते ययतुः क्रमात् / / 51 // तत्राऽऽगतस्य भव्यस्य पुरतस्तौ सहोदरौ / शत्रुञ्जयस्थ माहात्म्य-मेवं प्रजल्पतुस्तदा / / 2 / / तथाहि-"अनन्तसुकृताधारः संसाराब्धितरण्डवत् / शत्रुञ्जयः सुराष्ट्रासु गिरिजयति शाश्वतः // 53 // अत्र शत्रुञ्जये सिद्धा अनन्तास्तीर्थयोगतः / सेत्स्यन्त्यत्रैव बहवो-ऽहंद्यतिप्रमुखा जनाः // 54|| सिद्धलक्ष्यो ह्ययं क्रीडा-शैलः शत्रुञ्जयोऽद्भुतः / अत्रायातान् नरान् सद्यः शिवस्थानं नयेत् द्रुतम् // 55 // इहायातै नरैमुक्ति-सुखास्वादोऽनुभूयते / मुक्तिभुक्तिप्रदो देवः प्रथमो विद्यतेऽत्र यत् // 56 // शैलं दुर्गस्थितं चात्र नरं नाभिभवन्त्यहो ? / कुकर्म रिपवः क्र रा अप्यनन्त-भवानुगाः // 57 / / अत्र हत्यादिपापानि विलयं यान्त्यपि क्षणात् / सूर्योदये तमिस्राणि सजने कुगुणा इव ||58|| इतस्तत्र समायाता-स्तापसा बहवो गिरौ / शत्रुञ्जयस्य माहात्म्यं श्रुत्वा तेपुश्चिरं तपः // 56|| तत्र शुद्धोपदेशेन तापसा अपि ते तदा / मिथ्यात्विकी क्रियां मुक्त्वो-रुरीचक्र जिनव्रतम् / / 60 / / आलोचनां गृहीत्वाथ तयोः साधोश्च सन्निधौ / षष्ठाष्टममुखं तीव्र तपस्तन्वन्ति सन्ततम् // 61 / / प्रणम्य तौ प्रभु राजा-दन्यास्ते तापसोत्तमाः / त्रिप्रदक्षिणयांचक्र -भवाब्ध्युत्तारहेतवे // 62 / / मासक्षपणपर्यन्ते द्राविडो वालिखिल्लयुग / दश कोटिमितान् साधुन्नत्वाऽशिष्टे ति सादरः // 63 / / भवद्भिर्नाशुभं ध्यानं कर्तव्यं नरकप्रदम् / कर्त्तव्यं तु शुभध्यानं मुक्तिसातततिप्रदम् / / 64|| यतः-"प्रणिहन्ति क्षणार्धन साम्यमालम्ब्य कर्म तत् / यन्न हन्यानरस्तीव-तपसा जन्मकोटिभिः // 6 // अस्मिन्न व महातीर्थे शुभध्यानस्य योगतः / प्रासाद्य केवलज्ञानं यूयं मुक्तिं गमिष्यथ // 66 // द्राविडो वालिखिल्लश्चा-कार्टी ध्यानं तथा तदा / यथाऽऽपतुद्र तं ज्ञानं केवलं पातकक्षयात् // 67 / / तस्मिन् क्षणे मुमुक्षुणां दशकोटेः तमःक्षयात् / उत्पन्न केवलज्ञानं लोकालोकप्रकाशकम् // 68|| अन्तमुहूर्ताने सर्व साधवो मासि कार्तिके / पूर्णिमास्यां स्थिते चन्द्र कृत्तिकायां ययुः शिवम् // 66 // समेत्य तत्क्षणात्तत्र केवलितामहम् / विधाय हंस इत्याव ददौ तीर्थस्य तस्य तु 1170|| यतः उक्त च-'कार्तिक पूर्णिमास्यां कृतिकास्थे निशाकरे / मुनयः केपलेनैते सिद्धिं शत्रुञ्जये ययुः // 1 // "