________________ 132 शत्रुञ्जय-कल्पवृत्ती 100000000000000 श्रुत्वेति वज्रदंष्ट्रोऽपि क्षमित्वा निजसूनवे / राज्यं दत्त्वा ललौ वृत्तं संसाराम्भोधितारकम् // 130 // वज्रदंष्ट्रस्तपस्तीन कुर्वन् शत्रुञ्जयाचले / नत्वाऽऽदिमं जिनं शान्ति-जिनं नन्तु समीयिवान् // 131 // शान्तितीर्थपतेरग्रे ध्यानं कुर्वन् स संयतः / अवाप केवलं ज्ञानं लक्षसाधुसमन्वितः // 132 // सर्वकर्मक्षयाद्वन-दंष्ट्रर्षिः सिद्धपर्वते / शत्रुञ्जये ययौ मुक्ति-नगर्यां रुचिरश्रियि // 133 // श्रुत्वेति स्वं सुतं राज्ये न्यस्य चक्रधरो नृपः / लात्वा व्रतं तपस्तीव्र कृत्वा सम्मेतपर्वते // 134|| सर्वकर्मक्षयान्मुक्ति-नगरी समुपेयिवान् / तदाऽन्ये बहवो भूप-यतयोऽपि ययुः शिवम् // 13 // इति शान्तिनाथस्य चतुर्मासस्थितिः शत्रुञ्जयेऽभूदिनि सम्बन्धः * // अथ द्राविडवालिखिल्लादि-भूपालर्षिमुक्तिगमनसम्बन्धः // दसकोडिसाहुसहिआ जत्थ दविडवालिखिल्लपमुहनिवा। .. सिद्धा नगाहिराए जयउ तयं पुंडरी तित्थं // 19 // दशकोटिसाधुसहिता द्राविड-वालिखिल्लप्रमुखा नृपा इक्ष्वाकुवंशमवा यत्र शत्रुञ्जये शैले मुक्ति ययुः, तत शत्रुञ्जयाह तीर्थ चिरं जयतात् / तथाहिऋषभस्वामिनः सूनो-द्रविडस्य महीपतेः / द्रविडविषयोपान्ते द्वावभूतां तनूभवौ // 1 // श्राद्योऽमृद् द्राविडो नाम्ना वालिखिल्लो द्वितीयकः / जयन्तौ रूपतश्चेतो-भवौ दानपरायणौ // 2 // द्रविडो भूपतिः शत्रु-जये यात्रां सुविस्तरात् / विधाय कारयामास प्रासादं प्रथमप्रभोः // 3 // द्राविडाय सुतायाऽदा-मिथिलाराज्यमञ्जसा / ग्रामालक्षं ददौ वालि-खिल्लाय द्रविडोऽन्यदा ||4|| भवद्भ्यां वैरवैरस्यं न कार्य नन्दनोत्तमौ ! / इत्युक्त्वाऽलात् प्रभोः पार्वे द्रविडः संयमश्रियम् / / 5 / / राज्यश्रिया क्रमावर्द्ध-मानं कीर्त्या च सन्ततम् / दृष्ट्वा नुजं दधौ द्वषं तस्मिन् द्राविडभूपतिः // 6 // द्राविडो लोभतो वाली-खिल्लं स्वीयानुजं सदा / हन्तुमिच्छन् दिवा रात्रौ निद्रां न लभते मनाग ||7|| यतः-"पितरं मातरं बन्धु मित्रं भार्यां सुतं गुरुम् / लोभेनाभिभूतः सँश्च हन्त्येव मानवः खलु ||8|| मेलयित्वा महासैन्यं द्वावपि भ्रातरौ तदा / रणं भरत-बाहुवन चक्राते तो परस्परम् / / 6 / / / वालिखिल्लो धनं भूरि वितीर्य द्राविडानुगान् / लक्षशः स्ववशीचक्रे दानात् किं किं न जायते ? // 10 // कोटयो दश पत्तीना-मभूवन बलयोद्वयोः / प्रत्येकं दश लक्षाश्च स्यन्दनानां च कुम्भिनाम् // 11 // पञ्चाशदशलक्षाश्च तथाऽन्येऽपि महीभुजः / अभूवन सैन्ययोः साम्प-मेवं त्रैलोक्यभीतिकृत् // 12 // अहव्यहव्यम्बकानां नादैर्दिगन्तगामिभिः / आदिशूकरयूथानि त्रेसुर्जग्मुरधीरताम् // 13 // रणं सप्तमितान् मासान् यावदासीत् सुदुःसहम् / कोटयो दश मानां तदा मृता बलद्धये // 14 // अत्रान्तरे पयोवाहो वर्षन्नेव दिवानिशम् / आगतः पृथिवीं शश्वत् प्रीणयामास सर्वतः // 15 //