________________ 131 .0000000000000000000000001 100000000000000000000000 .0000000000000000000000 शान्तिनाथस्य चतुर्मासस्थितिः शत्रुञ्जयेऽभूदिति सम्बन्धः विधिवत्तत्र तीर्थेशं स्नपयित्वा मुवारिभिः / पुष्पैश्च विदधे भूपो ध्वजादानादिकां क्रियाम् // 66 // आरात्रिकं च मङ्गल-दीपकं विधिवत्तदा / कृत्वा प्रभोः पुरो भाव-स्तुतिं चक्रे धराधिपः // 10 // स्वामिनः पादुकाऽर्चा च कृत्वा राजादनीतरोः / प्रदक्षिणां महीपाल-श्चकार सङ्घसंयुतः // 101 / / इतस्तत्र सुरः सिंहो-ऽभ्येत्याऽवग भूपति प्रति / तिर्यग्गतौ गतोऽथाहं तव तातेन शान्तिना // 102 // प्रबोध्य ताविषे नीतो भूयिष्ठसुखमन्दिरे / ततो मयाऽत्र ते तात-सम स्फारं विधापितम् ॥१०३/युग्मम्।। ततस्तत्रत्य पूजां श्री-शान्तेः श्रीवृषभप्रभोः / कृत्वा पूजां निजं जन्म सफलं कुरु भूपते ! // 104 // ततस्तत्र नृपो गत्वा कृत्वाऽर्चा श्रीजिनेशितुः / चक्रे चक्रधरः सङ्घ-युतः स्वं सफल जनुः // 10 // तापपास्तेऽपि सिद्धाद्रौ युगादीशं जिनेश्वरम् / प्रणम्य सफलं चक्रु-निजं जन्म सुभावतः // 106 / / घातिकर्मक्षयात्तेषां तापसानां सुचेतसाम् / उत्पन्न केवलज्ञानं लोकालोकावलोककम् / / 107|| यत्र ते तापसाः सिद्धा-स्तत्र चक्रधरो नृपः / व्यधात्तापससझं श्री-सर्वज्ञसदनं महत् / / 108|| चक्रे चक्रधरो नव्यान् जिनावासान् बहून् क्रमात् / तत्र जीर्णजिनागारा-नुद्दधार धनव्ययात् / / 106|| प्रभासे गिरिनाराद्रौ सम्मेतशिखरेऽबुदे / यात्रां कृत्वा व्यधाजीर्णो-द्धारान् भूपो जिनौकसि // 110 // इत्थं बहुषु तीर्थेषु यात्रां कृत्वाऽतिविस्तरात् / अचीकर जिनागारान् नव्यान् जीर्णोद्धतीनपि // 111 // प्रतिलाभ्य गुरून् वस्त्र-दानेन सङ्घमप्यथ / भोजयित्वा परीधाप्य विससर्ज धराधवः // 112 // भूपः सदुत्सवं पुर्यां प्रवेशमकरोन्नृपः / ततो न्यायान्महीपीठं प्रशसास लसद्धलः॥११३॥ इतः शान्तिजिनो गत्वा सम्मेतशिखरे गिरौ / सर्वकर्मक्षयान्मुक्ति-नगरीमगमद् द्र तम् / / 114 // यत्र स्थाने ययौ मुक्ति श्रीमान् शान्तिजिनेश्वरः / तत्र चक्रधरः शान्ति-नायालयमकारयत् // 11 // अन्येद्युर्ज्ञानचन्द्रस्य सूरीश्वरस्य सन्निधौ / धर्म श्रोतु गते चक्र-धरे गुरुजगाविति // 116 // क्षमया निखिल कर्माणि शुभानि वाऽशुभानि च / लभते केवलज्ञानं संयतक्षोणिनाथवत् / / 117 / / संखेटकाभिधे ग्रामे वणिग् हितकराभिधः / श्राद्धर्म समाराध्य ययौ त्रिदशमन्दिरम् // 11 // ततश्च्युत्वा सुमापुर्यां वर्धमानाभिधो नृपः / बभूव न्यायमार्गेण पालयन् पृथिवीं सदा // 116 / / तत्रैव वाडवश्चन्द्रः कृत्वा बालतपः सदा / ज्योतिर्मध्ये समेत्याऽभूत् ब्राह्मणो ज्वलनाभिधः // 120 // तदा भूपस्य तस्याभूत सत्यवादी पुरोहितः / मायया ज्वलनो लोकान् वश्चयामास भूरिशः // 121 // वणिजो नेमदत्तस्य वञ्चयित्वा धनं बह / जग्राह ज्वलनो नेम-द तो दुःखी ततोऽभवत् // 122 / / वञ्चयित्वा तदा तत्र अलनं गणिकैकिका / वाल्यामास विभवं नेमदत्तस्य सद्धिया // 123 // कुदृयित्वा महीपालो ज्वलनं मायिनं तदा / स्वदेशाचरितं निष्का-शयामास च दूरतः // 124 // वैराग्यं जलनः प्राप्त-स्तपः कुर्वन् निरन्तरम् / माहेन्द्र ताविषेष देवो-ऽजनि भासुरदेहभाग / / 125 // ततो निर्गत्य वैताढ्य-शैलदक्षिणयाम्ययोः / श्रेणपोः साम्यभवद् वज्र-दंष्ट्रोऽयं वाडवासुमान् // 126 // श्रीवर्द्धनोऽपि भूपालो लात्वा दीक्षां तपःपरः / गत्वा स्वर्गे ततश्च्युत्वा संयतोऽहमिहाभवम् // 127 // पाश्चात्यभवसंजातात् वैराद् वज्रदंष्ट्रकः / जघान दण्डघातेन मामत्रैव भवे भृशम् // 128 // नेमदतासुमान् कृत्वा धम्म जैनं निरन्तरम् / धरणेन्द्रोऽभवस्त्वं च सर्वनागकुमारराट् // 126 / /