________________ 130 शत्रुञ्जय-कल्पवृत्ती .000000.......... 000000000000000000000000000000000000000 0000000000000000000000000000000000000000 रन्तुगताऽन्यदोद्याने नन्दिनी सा सखीयुता / रेमे परस्परं पुष्प-कोटीररचनादिभिः // 68|| गृह्णन्ती स्वेच्छया पुष्य-फलानि तरुतस्तदा / हसन्ती तरुशाखासु पुत्री मे सुरसुन्दरी // 66 // चापल्यत्वं वितन्वाना थूत्कृतिं च पदे पदे / वनदेवतया शप्ता वानरी समजायत // 70 // वानरी वनदेव्यास्तु पादौ नत्वा दृढं जगौ / अपराधो मया चक्रे यस्ते क्षन्तव्य एव सः // 71 // वानरोत्वमपाकृत्य नारीरूपं ममाचिरात् / कुरु प्रसद्य देवी त्वं ततो देवी जगावदः / / 72 / / यदा चक्रधरो राजा श्रीशान्तिजिननन्दनः / तव पाणिग्रहं नारि ! करिष्यति कलोत्सवम् // 73 // तदा त्वं लमसे नारी-रूपं विद्याधराङ्गजे ! / ततस्त्वां वरितु नित्य-मीहते मम नन्दिनी // 74|| पृच्छं पृच्छं स्थिति ताव-कीनां ग्रामे पुरे पुरे / ज्ञात्वाऽतो वानरीरूपां सुतान्ते तेऽहमानयम् // 7 // एतस्याः किल वानर्या मम पुत्र्याः करग्रहात् / त्वं कुरुष्वाचिरात् राजन् ! पूर्व रूपं मनोहरम् / / 76 // उपकारपरो राजा तस्या पाणिग्रहं यदा / कतु कामोऽभवत्तावन्मन्त्री प्राह नृपं प्रति // 77 // वानयोः कार्यते पाणि-ग्रहः केनापि कुत्रचित् / कदाचित् कपट केन मण्डितं स्थान वरं तदा // 78 / / राजाऽवम् जीवितव्यस्य सारं तद् विद्यते खजु / यदेव क्रियतेऽन्येषा-मुपकारः सुखावहः // 76 / / वानर्या भूभुजा याव-चक्रे पाणिग्रहः स्वयम् / तावन्नार्यभवद्दीव्य-रूपभृत् सुरसुन्दरी ||80 // कलाप्रियेण तुष्टेन विद्या बह्वीः खगादिमाः / तस्मै दत्ताः कनोतुल्या-चक्रधराय भूभुजे ||8|| भ्रमँस्तस्मिन् वने दृष्ट्वा तापसान् कन्दभक्षकान् / जगौ चक्रधरो यूयं के ? किं किं क्रियते तपः ? / / 82 // जगदुस्ते वयं कच्छा-न्वये जातास्तपस्विनः / कन्दमूलफलाहारा वसामस्तटिनीतटे // 3 // आह चक्रधरो भो भो ! तापसाः शुद्धमार्गतः / भ्रष्टा यूयं न कुर्वीध्व-मभक्ष्य भक्षणं क्षणम् // 84 // यतः- “गूढस्नसाश्छिन्नरुहाः समभागाश्च पल्लवाः / मिथ्यादृशामविज्ञाता अखाद्या हि प्रकीर्तिताः // 5 // तीक्ष्णशूचीमुखाक्रान्ति-मागेऽनन्ताः शरीरिणः / उत्पद्यन्ने विलीयन्ते यत्र तेऽनन्तकायिनः // 86 // उदुम्बरवटप्लक्ष-काकोदम्बरशाखिनाम् / अश्वत्थस्यापि न फल-मश्नीयात् कृमिसङ्कुलम् / / 87 // त्याज्या महाविकृतय-श्चतस्रोऽनन्तदोषदाः / मद्यमांसं नवनीतं मधु त्याज्यान्यमूनि हि // 8 // हिमं विषं च करकान् सर्वमज्ञातकं फलप् / रजनीभोजनानन्त-कायान सन्धानकांस्तथा // 86 // वृन्ताकमूलकांश्चापि निखिलं पुष्पितौदनम् / बहुवीजामगोरस-सम्पृक्तद्विदलं त्यजेत् ॥१०॥युग्मम्॥ इत्यादिसूपदेशेन प्रबोध्य ते तपस्विनः / मिथ्यात्वं त्याजिता चक्र-धरेण मेदिनीभुजा // 11 // जगौ चक्रधरो भो भो ! तापसाः सिद्धपर्वते / गत्वा प्रणमताऽऽदीशं जिनं कल्याणहेतवे // 12 // ततश्चक्रधरेणाऽमा तापसा हृष्टमानसाः। नन्तु शत्रुञ्जये तीर्थे चेलुः श्रीवृषभं जिनम् // 33 // भूरिभार्या-बहुव्योम-गामितापससंयुतम् / आयान्तं शान्तितीर्थेश-पुत्रं चक्रधरं नृपम् // 14 // दृष्ट्वा सङ्घजनो हृष्टः सन्मुखं समुपागमत / ततश्चक्रधरः सङ्घ सन्मानयति भक्तितः / / 6 / / नृपश्चक्रधरश्वारू-त्सवं दानं ददन बहु / सङ्घमध्ये समायातो-ऽर्चयच्छ्रीनाभिनन्दनम् // 66 // तापसास्तेऽपि सावद्या-हारं त्यक्त्वा जिनोदितम् / शुद्धमन्नं प्रगृह्णन्तो धम्म कुर्वन्ति सादरम् / / 67|| देवपूजां सङ्घपूजां कृत्वा तत्र महीधयः / तीर्थं शत्रुञ्जये शीघ्र-मारुरोह कृतोत्सवम् / / 9 / .