________________ शान्तिनाथस्य चतुर्मासस्थितिः शत्रुञ्जयेऽभूदिति सम्बन्धः 126 16sanas000000000 000000000000000000000000000000000000 .000000000000000000000000 1000000000000000000000000 चलन् सङ्घः पुरे ग्राम कुर्वन् स्नात्रमहोत्सवम् / सुराष्ट्राराष्ट्रमायातः शत्रुञ्जयस्य सन्निधौ // 39 // देवालयपुरस्तस्य निपएणस्य महीपतेः / एत्य कश्चित् खगो नत्वा कृताञ्जलिः स्थितो मुदा // 40 // भूयोऽप्राक्षीत् कुतः स्थानात कस्त्वं किमर्थमागतः / दीनास्यो दृश्यसे कस्मा-चारुरूपधरोऽपि हि ? // 41 // खेटद्रङ्गपते रत्न-प्रियस्य व्योमगामिनः / कलाप्रियाभिधः पुत्रोऽभूवं जनकवल्लभः // 42 // क्रमाद्राज्ये निजे मां तु स्थापयित्वा वरोत्सवम् / जग्राह संयम सोम-देवाचार्यान्तिके पिता // 43 // अधुना बलिभिर्गोत्र-वेष्टितं नगरं बलात् / विहस्ता मनुजा जाता-स्ततोऽहं व्याकुलोऽभवम् / / 44 // आराधिता मया चक्र -श्वरी देवी जगावदः / कार्य राज्येन चेत्तेऽस्ति यदि कलाप्रियाऽधुना // 4 // तदा चक्रधरं भूप-मिहानयाचिरात्चकम् / तस्य दृष्टौ रिपोश्चक्र नंष्ट्वा यास्यति दूरतः // 46 // ततो वालयितु राज्यं स्वकं वाञ्छंस्तवान्तिक / आगामिह कृपां कृत्वा मयि तत्राऽऽव्रज द्रुतम् / / 47 // त्वयि तत्रागते सर्व रिपुसैन्यं गमिष्यति / तव तुल्योऽस्ति को लोके परोपकारकोऽधुना ? // 48|| यतः-'दानं वित्ताद् ऋतं वाचः कीर्तिधौं तथाऽऽयुषः / परोपकरणं काया-दसारात सारमुद्धरेत् // 46 / सङ्घमापृच्छय भूपालः कलाप्रियविराजितः / खेटद्रङ्गान्तिके यावत् समागान्नेत्रयोढेिषाम् / / 50 // तावदिशोदिशं कम्प-माना लात्वा स्वजीवितम् / ययुषिोऽखिलाः सूर्यो-दयादिव तमश्चयाः // 51 // गते वैरिबलेऽशेवे-कलाप्रियः खगेश्वरः / नत्वा चक्रधरस्याशी जगादेति कृताञ्जलिः // 52 // भ्रोता माता महत्तातः स्वामी पितृपिता त्वकम् / यतस्त्वया गतं राज्यं वालितं करुणात्मना // 53 // गुणमालां स्वसारं मे त्वमुद्वाह्याधुना नृप ! / निःक्षष्क्रयं मां कुरुष्वाशु मयि कृत्वा कृपां द्रुतम् // 54 // भूपेन मानिते तत्र गुणमालां गुणाकराम् / कलाप्रियो ददौ तस्मै चारूत्सवपुरस्सरम् // 55 // अन्या अपि तदा व्योम-गामिकन्याः सहस्रशः / वत्रु चक्रधरं भूपं गुणिनं सगुणा यथा // 56 // कलाप्रियो जगावत्रो-धानमस्ति सुराभिधम् / तत्र क्रीडाकृते स्वामि-नवधारय साम्प्रतम् // 57 / / गत्वा तत्र वने कृत्वा क्रीडां सुधवलालये / गवाक्षस्थो द्रुमश्रेणी-विविधा दृष्टवान्नृपः / / 5 / / यतः-पालीतालीद्रुमालीतलमिलितपथश्रान्तविश्रान्त पान्थ-व्रातप्रख्यातधर्मातपहरणचणकङ्कणश्रीधुरित्र्याम् / / हेलोन्मीलन्नवीनामलबहुललुलल्लोलकल्लोलमाला लीलाखेलन्मरालीकुलकलविरुतैरुल्वणः पल्वलोऽयं // ईपल्लोलोम्मिपातप्रभववरभवल्लास्यलीलाभिरुच्चै-रेप च्छेकश्च केकी कलयति विरुतान्यावहन्नृत्ववृत्तम् / मद्रारावं प्रलुभ्यन्निजयुवतियुतश्च प चक्रोऽपि चक्री-कृत्य ग्रीवानताम्भोरुहरिशकवलानति चात्यन्तहृष्टाः // इत्यादि सरसी वृक्ष-चक्रादि शकुनव्रजम् / पश्यन् राजाऽग्रतश्चैत्य-मपश्यद् व्योममार्गगम् / / 61 / / तत्र गत्वा नृपश्चैत्य-मध्ये वर्यमणीमयम् / विम्यं श्रीआदिदेवस्य सभार्योऽपूजयतमम् // 62 // वरपुष्पाक्षतस्तोत्रैः पूजयित्वाऽऽदिमं जिनम् / राजा चक्रधरो देव-गृहा बहिर्यदा ययौ // 63 / / तदैकां वानरी वर्य-नारीभिरभितो वृताम् / तत्रायातां निरीक्ष्येति जगौ चक्रधरस्तदा ||34|| भो ! नार्यो यूयं किं वर्य रूपलावण्यसंयुताः / सेवध्वं वानरी तिर्यग्-जातिजां वदताऽधुना // 65 // तत्राऽऽसन्नस्थितो विद्याधर एको जगाविति / वैतादयस्योत्तरश्राण्यां भीमा नगरे वरे / 66 // चन्द्रचूडाभिधो विद्या-धरोऽहमभवं किल / शृङ्गारसुन्दरी नाम्ना पुत्री मेऽभूत् सुरूपभृत् // 67||