________________ 128 शत्रुञ्जय-कल्पवृत्तौ 100000000000000000000000000000 सोऽपि पश्चानन-स्तत्र स्थितोऽनेकांस्तनूमतः / हन्ति कोपवशात्तेन कोऽपि नोपैति तत्र च // 11 // भ्रमन् पश्चाननः शान्ति-नाथमालोक्य कोपतः / हन्तुमुत्पाट्य पाणिं स्व-मधावच्छोणितेक्षणः // 12 // धावन् सिंहस्तरोः स्कन्धे प्रास्फाल्य लोष्टुवत् दृढम् / पश्चादपासर मौ न्यपतत् काष्ठवत् क्षणात् / / 13 / / उत्थायोत्थाय पञ्चास्यो धावन् हन्तु प्रभु तदा / पपात लोष्टवद् भूमौ कुष्ठदेहे ततोऽभवत् // 14 / ततः पुनः पुनः पश्यन् प्रभुदध्याविदं हृदि / एवंविधो मया साधुः कुत्रापि वीक्षितः पुरा // 1 // एवं ध्यायन् हरिर्जाति-स्मृति प्राप्य क्षणात्तदा / प्राग्भवं द्विजजं चित्ते सस्मार शान्तमानसः // 16 // तदोक्त प्रभुणा पश्चा-द्भवं स्मर द्विजाधम ! | हिंसंस्त्वं श्रमणं मृत्वा जातो हरिरिहाधना // 17 // ततः पञ्चाननः शान्त-चेताः प्रभोः क्रमद्वयम् / नमन् निन्दति कर्म स्वं प्राग्भवोपार्जितं स्वयम् // 18 // सिद्धाद्रपरि स्वामी यदागाद् विहरन् क्रमात् / तदा सोऽप्याययौ तत्र पञ्चास्यः शान्तमानसः / / 19 / / गृहीत्वाऽनशनं तत्र प्रभोः पार्श्वे हरिः स च / द्वितीये ताविषे जातः सुरो भासुरदीप्तिमान् ||20|| मरुदेवाभिधे शृङ्ग स्वामो साधु-सुरैर्वृतः / अजितस्वामिवन्मासां-श्चतुरोऽस्थात् क्षरागमे / / 21 / / तत्रैत्य हरिगीर्वाणः प्रणम्य प्रभुमुक्तवान् / त्वत्प्रसादादहं सिंहो मृत्वाऽभवं सुरो वरः // 22 / / त्वं मे माता पिता त्वं मे त्वं चार्या मे च सोदरः / त्वं सुहृत् त्वं मम स्वामी स्वर्गसौख्यप्रदानतः / / 23 / / विहृते शान्तितीर्थेशे-ऽन्यत्र पञ्चाननः सुरः / तत्र शृङ्ग महच्चैत्यं व्यधाच्छान्तिजिनेशितुः // 24|| तस्मिश्च त्ये स्फुरद्रत्न-मयं बिम्बमनोहरम् / न्यवीविशत् शिवप्राप्त्यै स्वस्याऽन्यस्य च बोधकृत् // 25 // अध्युष्टकोटयो देवाः शान्तिसेवकतत्पराः / शान्त्याराधककत भ्यो ददते नृभ्य ईप्सितम् / / 26 / / तत्र शृङ्ग सुरः सोऽपि प्रासादान भरिशोऽर्हताम् / चकार निवृतेः सौख्य प्राप्त्यै कैलाससोदरान् // 27 // विहृत्य शान्तिनाथोऽथ भगवान् पावयन् भुवम् / क्रमाद् गजपुरोधाने सुन्दरे समवासरत् // 28 // श्रीशान्तितनयश्चक्र-धरावस्त्वरितं तदा / नत्वा प्रभु वृष श्रोतु यथास्थानमुपाविशत् / / 29 / / ततः शान्तिजिनः प्राह धम्म मुक्ति-सुखप्रदम् / दान-शील-तपो-भावं चतुर्धा भवभेदकम् / / 30|| "पञ्चक्खाणं पूआ पडिकमणं पोसहो परुवयारो अ। पंच पयारा जस्स य न पयारो तस्स संसारे // 1 // सामायिका-ऽऽवश्यक-पौषधानि, देवार्चन-स्नान-विलेपनानि / ब्रह्मक्रिया-दान-दयामुखानि भव्याः सदा भावभरात् श्रयन्तु // 2 / / " शीलं शत्रुञ्जयः शैलः समत्वं सार्वसेवनम् / श्रीसङ्घाधिपतित्वं च शिवश्रीदायका अमी // 31 // श्रुत्वा प्रभौवंशश्चक्र-धरभूपो जगावदः / यात्रां शत्रुञ्जये कुर्वे विस्तराद्भरतेशवत् / / 32|| भव्यान् बोधयितु शान्तिनाथेऽन्यत्र गते सति / चक्री चक्रे सदा धर्म जैनेन्द्र शिवशर्मदम् // 33 // अन्येधुश्चक्रिसूर्दध्यौ प्रातरेवं शिवाचले / गम्यते चेजिनान्नन्तु तदा श्लाध्यं जनुर्भवेत् // 34 // विमृश्येति तदा चक्रधरो धरणिनायकः / सङ्घमाह्वातुमप्रैषीद् बह्वीः कुकुमपत्रिकाः / / 35 // आगते तु बहु सङ्घ सुलग्ने शान्तिनन्दनः / यात्रा कत चचालाऽय कुलस्त्रीकृतमङ्गलः // 36 // जाम्बूनदमया देवा-लया शतानि षोडश / चेलुः काष्ठमया वर्या-चतुःसहस्रसम्मिताः // 37 // द्वात्रिंशच सहस्राणि भूपाश्चेलुमनोरमाः / इभ्या लक्षमिता कोटि-मिता अन्ये जनाः पुनः // 38 //