________________ 127 00000000000000000000000000000000000000000000000000 शान्तिनाथस्य चतुर्मासस्थितिः शत्रुञ्जयेऽभूदिति सम्बन्धः अस्य तीर्थस्य रक्षायै सगरः सागरं किल / अत्रानैषीजिनेन्द्रस्य वृषभस्य निषेवितुम् // 27 // जिनस्नात्रकृते ब्राझी नदी ब्रह्मविडोजसा / अत्रानीताऽभवन्नृ णां क्रमात् पवित्र हेतवे // 28 // श्रुत्वेति भूपतिश्चन्द्र-यशाचन्द्रमणीमयम् / प्रासादं च प्रभोबिम्ब-मिहैवातिष्ठिपन्मुदा // 29 // पितुर्भक्त्या पितुप॑तिं चन्द्रकान्तमणीमयीम् / अस्यापयन्नृपस्तस्मिन् प्रासादे पुण्यहेतवे // 30 // चन्द्रशेखरराजर्षिः सर्वकर्मक्षयात् क्रमात् / अलञ्चकार कल्याण-नगरी क्षीणपातकः // 31 // नृपश्चन्द्रयशाः सङ्घ मेलयित्वा बहु क्रमात् / सिद्धशैले ययौ नन्तु जिनान् कुर्वन् महोत्सवम् // 32 // सोऽपि भूपः क्वचित्तत्र वीक्ष्य जीर्णान् जिनालयान् / उद्दधार व्ययल्लक्ष्मी नवीनांश्च व्यधाद् वरान् / / 33 / / ततो रैवतसम्मेत-शिखराव॒दसानुषु / यात्रां कृत्वा व्यधाद् भूपो नवीनान् श्रीजिनालयान् // 34 // लक्षाद्धं जिनसमानि बिम्बानि कोटिपञ्चकम् / कारयामास भूपालो भूयिष्ठविभवव्ययात् ||35|| क्रमात् स्वं नन्दनं राज्ये न्यस्य चन्द्रयशा नृपः / गृहीत्वा संयम कम्म-क्षयात् कल्याणमीयिवान् / / 36 / / * इति चन्द्रयशःकृतो नवमोद्धारः * वासासु चउमासं जत्थ ठिया अजियसंतिजिणनाहा / बियसोलधम्मचक्की जयउ तयं पुंडरी तित्थं // 18 // शान्तिनाथस्य वर्णनत्वात् इयं गाथाऽत्र व्याख्येया, अजितजिनस्य पश्चाद् व्याख्या कृता, वर्षा चतुर्मासी यत्र तीर्थे अजित-शान्तिनायौ द्वितीय-पोडशधर्मचक्रिणौ स्थिती, तत् पुण्डरीकं तीर्थ जयतात् तथाहि ॥अथ शान्तिनाथस्य चतुर्मासस्थितिः शत्रुञ्जयेऽभूदिति सम्बन्धः।। हस्तिनागपुरे वर्षे विश्वसेन-नरेशितुः / अचिरागेहिनी पुत्र प्राप्त रुचिरेऽहनि // 1 // तस्येन्द्रकृतोत्सवादि वाच्यम् / क्रमाच्चक्रिपदं प्राप्य षट्खण्डां मेदिनी समाम् / पालयन् जनतां सुख्य-कार्षीत् शान्तिनृपोऽनघः / / 2 / / सार्वभौमद्धिमह्नाय त्यक्त्वा लात्वा व्रतश्रियम् / क्रान्त्वा छद्मस्थतां प्रार ज्ञानं पञ्चममञ्जसा // 3 // शान्तिनाथोऽन्यदा कोटा-कोटिनिर्जरसेवितः / शत्रञ्जयान्तिके सिंहो-द्यानं वर्यमशिश्रियत् // 4 // इतः पुरे प्रतिष्ठाने ब्राह्मणो मदनाभिधः / मिथ्यात्वी मण्डयामास यज्ञं शोभनवासरे ||शा तत्र भिक्षार्थमन्येद्युः साधु-विद्ययौ किल / तावत् स ब्राह्मणः साधु हक्कयामास कर्कशम् / / 6 / / साधुः प्राह युगादीश-पुत्रो भरतभूपतिः / पठनाय द्विजानां यान् व्यधाद् वेदानहिंसकान् ||7|| लोभान्धेस्तैर्द्विजैः काल-क्रमादाजीविकाकृते / वेदा हिंसात्मकास्ते तु कृता दुर्गतिहेतवे ||8|| श्रुत्वेति ब्राह्मणो रुष्टः श्रवमुत्पाट्य वेगतः / धावन हन्तु मुनि स्तम्भे स्खलितो न्यपतद् भुवि ||6|| मृत्वाऽऽतितो द्विजः सोऽपि सिद्धाद्रिगिरिपार्श्वगे | सिंहोद्यानेऽभवत्पश्चा-ननः करतराशयः // 10 //