________________ शत्रुञ्जय-कल्पवृत्तौ 000000000000000 // अथ चन्द्रयशःकृतो नवमोद्धारः॥ चन्द्रप्रभुर्जिनाधीशो बोधयन् भव्यमानवान् / ययौ शत्रञ्जये शैले सुरासुरनमस्कृते // 1 // तत्र प्रबोध्य भव्याङ्गि-बात भूरि जिनेश्वरः / सगरानीतपाथोधि-तीरे ब्राह्मयास्तटेऽगमत् // 2 // शशिप्रभापुराधीश-शशिशेखरभूपतेः / राज्ञी चन्द्रप्रभाह्वाऽऽसीत् पुत्रश्चन्द्रयशोभिधः // 3 // राज्ञीपुत्रयुतो राजा नत्वा चन्द्रप्रभं जिनम् / धम्म श्रोतुमुपाविष्टो भवाम्भोनिधितारकम् // 4 // अादित्यस्य गतागतैरहरहः संक्षीयते जीवितं, व्यापारैर्बहुकर्म भारगुरुभिः कालो न च ज्ञायते / दृष्ट्वा जन्मजराविपत्तिमरणत्रासश्च नोत्पद्यते, पीत्वा मोहमयी प्रमादमदिरामुन्मत्तभूतं जगत् // 5 // सेवितात् पुण्डरोकाद्रे-यांनाजिनपतेरपि / इह सम्पद्यते लक्ष्मीः परत्र नितिनृणाम् // 6 // तीर्थेष्विदं मुख्यतीर्थ देवेष्विव जिनेश्वरम् / ध्यानेषु सुन्दरं ध्यानं ब्रह्मचर्य व्रतेषु च / / 7 / श्रामण्यं सर्वधर्मेषु प्रथमं खलु कथ्यते / अतः शत्रञ्जये तीर्थे ध्येयः सद्भिः जिनेवरः // 8 // प्रभोमुखाद् वृषं श्रुत्वा चन्द्रशेखरभूपतिः / सप्रियः स्वं सुनं राज्ये न्यस्य संयममाददौ // 6 // . . धरणेन्द्रः प्रभोः कायोत्सर्गस्यानेऽम्बुधेस्तटे / चन्द्रकान्तमणीविम्यं प्रासादेऽतिष्ठिपतदा // 10 // ततश्चन्द्रप्रभो जीवान् बोधयन् भूरिशो भुवि / श्रीउज्जयन्तभूमिधे ययौ साधुसुरार्चितः // 11 // तत्र प्रभोगिरा प्राप्य संयम बहवो जनाः / सर्वकर्मक्षयान्मुक्ति-नगरीमगमन् क्रमात् ||12|| बहु कालं बहून् भव्यान् प्रबोध्य जिनधर्मणि / चन्द्रप्रभो जिनाधीशो ययो सम्मेतभूधरे / / 13 / / चन्द्रशेखरराजर्षि-र्गत्वा सम्मेतपर्वते / चन्द्रप्रभ शिवस्थानं ननाम बहुसाधुयुग ||14|| यतः-"निक्खमणनाणनिब्याण जम्मभूमोश्रो वंदइ जिणाणं / ___ न य वसइ साहुविरहिअंमि देसेवि बहुगुणेवि // 1 // " तदा तत्र समागत्य वैरिमर्दनभूपतिः / प्रासादं कारयित्वा श्री-चन्द्रप्रभमतिष्ठिपत् ||15|| मुनेरागमनं श्रुत्वा भूपश्चन्द्रयशास्तदा / तत्र गत्वा प्रणम्य श्री-धर्म श्रोतुमुपाविशत् ||16|| देशनान्ते नृपोऽप्राक्षीत केनेदं मेदिनीभुजा / 'चन्द्रप्रभास' नामेति तीर्थ प्रावर्तितं किल ||17|| चन्द्रशेखर आहाऽय चन्द्रप्रमोऽत्र तीर्थकृत् / धर्मस्य देशनां चक्रे भव्येभ्यो हितकाम्यया ||18|| अतश्चन्द्रप्रभासाख्यं विख्यातमभवद् भुवि / सेवया चास्य तीर्थस्य जायन्ते शिवसम्पदः / / 16 / / यतः-"विभुर्यत्र जलध्यन्त-रस्थात् प्रतिमया स्थिरः / उद्व लश्चाभवद् वार्द्धि-धोधं च गतस्तदा // 1 // " लवणाम्बुधिनायेन लवणेन च भक्तितः / स एवारुन्धि जलधि-श्छत्रीभूतेन सर्वतः // 20 // इहा पूर्व युगादोश-पौत्रेण शशिकीर्तिना / चन्द्रोद्यानान्तिके चन्द्र-प्रभस्य भाविनोऽर्हतः ||21|| प्रासाद-प्रतिमे वर्ये कारिते भूरि-रैव्ययात् / ततश्चेदं महत्तो) पावनं जगतामभृत् ||२२||युग्मम्।। अभूत् समवसरणं योजनप्रमितं क्षितौ / चन्द्रप्रभस्य देवस्य वात्रयविराजितम् / / 23 / / प्रायस्तत्र मृता जीवा गच्छन्ति त्रिदशालयम् / शुद्धभावाश्च कल्याण कमलां वृण्वते फिल ||24|| त्यक्त्वाऽत्र सर्वसावा ये तपन्ति तपः सदा / सर्वकर्मक्षयं कृत्वा ते गच्छन्ति शिवालयम् / / 25 / / नरके न न तिर्यक्षु प्रयान्त्यत्र मृता जनाः / किन्तु नृत्रिदिवश्रेयः-सुखानि वृण्वते द्रुतम् // 26 //