________________ व्यन्तरेशकृतोद्धारः 0000000000000000000000000 0000000000000000000000000000000000000 न च राजभयं न च चौरभयं इहलोकसुखं परलोकहितम् / वरकीर्तिकरं नरदेवनतं श्रमणत्वमिदं रमणीयतरं। मही रम्या शय्या विपुलमुपधानं भुजलता, वितानं चाकाशं व्वजनमनुकूलोऽयमनिलः / स्फुरदीपश्चन्द्रो विरतिवनितासङ्गमुदितः, सुखं शान्तः शेते मुनिरतनुभूतिनृप इव // 277 // "दो तुबडाई हत्थे वयणे धम्मक्खराणि चत्तारि / विउलं च भरहवासं को अम्ह पहुत्तणं हरइ ? // 1 // " आकण्यँतजिनाधीश-वचः सगरचक्रिराट् / भगीरथसुतं स्वीय-पट्ट चास्थापयल्लघु // 278 // अष्टाह्निकामहः सर्व-जिनागारेषु विस्तरात् / कृत्वा स्वयं धनं भूरि ददावर्थिभ्य आदरात् / / 276 // महीपालः सहस्रण समं सगरचक्रिराट् / अजितान्ते ललौ दीक्षां शक्र-मनुकृतोत्सवः // 280|| तदा प्रभुजगावेवं सगरर्षे ! त्वयाऽधुना / पालनीयं व्रतं शुद्धं कल्याणसुखहेतवे // 28 // यतः-"सिंहत्ताए निक्खित्ता सिंहत्ताए पालित्ता, सिंहत्ताए निक्खित्ता सीअालत्ताए पालित्ता, सीपालत्ताए निक्खित्ता सिंहत्ताए पालित्ता, सीमालत्ताए निक्खित्ता सीअालत्ताए पालित्ता // " अजितस्वामिना साद्धं विहरन् सगरो यतिः / वैयावृत्त्यं वितन्वान-श्चकार विविधं तपः // 282 // यत-"अनशनमौनोदर्य वृत्तः संक्षेपणं तथा / रसत्यागस्तनुक्ल शो लीनतेति बहिस्तपः // 283 // प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनयोऽपि च / व्युत्सर्गोऽथ शुभध्यानं षोढेत्याभ्यन्तरं तपः॥२८४॥ दीप्यमाने तपो वह्नौ बाह्य चाभ्यन्तरेऽपि च / यमी जरति कर्माणि दुर्जगण्यपि तत्क्षणात् // 28 // स्वामिनृसिंहसेनाद्या रुचिरा गणधारिणः / अभूवन् पञ्चनवति-प्रमाणा जिनभक्तिकाः // 286 // शत्रुञ्जये बहून् वारान् गत्वा प्रबोध्य मानवान् / समेतशिखरेऽन्येद्य-रजितस्तीर्थकृत् ययौ // 287 / यतः-सहस्रत्रितयवागन् शत्रुञ्जयमहीधरे / अजितः समवासापर्षीत् साधुसुरनृपाऽऽनतः // 1 // " सहस्रसाधुसंयुक्त-स्त्यक्तमासाशनोद्यतः / चैत्रस्य शुक्लपञ्चम्यां जगाम परमं पदम् // 28 // सगरोऽपि बहून् भव्यान् बोधयन्नजितेशवत् / घातिकर्म क्षयादाप केवलज्ञानमुज्ज्वलम् // 28 // प्रबोध्य सुचिरं भव्य-जीवान् सुधर्म कर्मणि / श्रीमत्-सिद्धाभिधे शैले सगरर्षिः शिवं ययौ // 260 // इति सगरोद्धारः समाप्तः . // अथ व्यन्तरेशकृतोद्धारः॥ जिनोऽभिनन्दनोऽन्येद्यु-विहरन् वसुधातले / ययौ शत्रुञ्जये शैले भवाब्धितारणे नृणाम् // 1 // राजादनीतले देवकोटाकोटि-निसेवितः / शत्रुञ्जयस्य माहात्म्यं जगादेत्यभिनन्दनः // 2 // अयं शत्रञ्जयक्ष्माध्र प्रान्तराऽरिनिपूदनः / सर्वपापहरो मुक्ति सातसन्ततिदायकः // 3 // प्राप्त षु मुक्तिमर्हत्सु नष्टे धर्मऽपि केवले / सर्वकल्याणकृत्तीथ-मिदमेव भविष्यति // 4 // सिद्धाद्रौ ये जना देवं ध्यायन्ति पूजयन्ति च / अल्पकालादपि क्षिप्त्वा कर्म यास्यन्ति ते शिवम् // 5 // प्रासादप्रतिमायात्रा-पूजादानादि कुर्वते / सिद्धाद्री ये गमिष्यन्ति तेऽपि नितिमञ्जसा // 6 // श्रुत्वेति व्यन्तराधीशा-स्तदेवोत्पन्नभक्तिकाः / चक्रः सिद्धाचले जीर्णोद्धारान् नव्यान् जिनालयान् // 7 // इति व्यन्तरेशकृतोद्धारः समाप्तः /