________________ 124 शत्रुञ्जय-कल्पवृत्ती 0000000000000000 00000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000001 ततो हेमादिलोभेन लोकाः पापमलीमसाः / करिष्यन्त्येव विध्वंसं प्रासाद-बिम्बयोरपि // 250 // तेनाहमस्य तीर्थस्या-म्भोधेवेलाधिकर्षतः / विधाय परिखां रक्षा करोम्येष प्रयत्नतः // 251 // नयन्नब्धिप्रवाह स सगरः परितो गिरः / टंककान् कङ्कणान् स्वर्णान् बर्बरान सिंहलानपि // 252 // लाट-सुराष्ट्र-भाटादि-विषयान् विविधास्तदा / प्लावयन् चक्रिराट् प्रोक्तः शक्रणेति सुभक्तिकम् // 253 / / अधुना प्लावयन् पृथ्वी वेलया वारिधिः खलु / शत्रुञ्जयस्य तीर्थस्य विध्वंसं त्वं करिष्यति (सि) // 254 // याते तीर्थस्य विध्वंसे कस्मिन् भविक्रमानवाः / यात्रां कृत्वाऽर्जयिष्यन्ति मुक्तियोग्यं वृषं खलु // 25 // यतः-"रविं विना यथा घस्रो विना पुत्रं यथा कुलम् / विना जीवं यथा देहं विना दीपं यथा गृहम् // 1 // विना विद्यां यथा मयो विना चक्षुर्यथा मुखम् / विना छायां यथा वृक्षो यथा धर्मो दयां विना // 2 // विना धर्म यथा जीवो विना वारि यथा जगत् / विना तथा तीर्थमिदं भूतसृष्टिर्हि निःफला // 3 // " निरुद्धऽस्मिन् महातीर्थ भवाब्धौ मन्जतां नृणाम् / तारकं विद्यते तीर्थ-मन्यन्नात्र महीतले // 256 // सर्वज्ञो न यदा देवो न धर्मो न सदागमः / तदाऽसौ सर्वलोकानां शैलः कामातिदायकः // 257 / / इति शक्रगिरा चक्र-यत्त्यभिज्ञानहेतवे / तस्थौ वार्द्धिप्रवाहस्या-तीचलस्थापना कुता // 28 // व्यम्बावती-सोपारक-द्वारवत्यादिसन्निधौ / अद्यापि दृश्यतेऽम्भोधि-वाहस्तालध्वजान्तिके / / 256 / / शक्रमापृच्छय चक्र शो मूर्ती रत्नमणीमयीः / रैगुहायां निनायाशु जिनगेहे स्वकारिते // 260 // तत्रस्थाः प्रतिमा जैनी रत्नस्वर्णमणिमयीः / पूजयन्ति सुरा यक्षा-चक्रीशक्रनिदेशतः // 261 / / चतुर्विशतितीर्थेशां प्रासादांश्च पृथक पृथग / कारयित्वाऽर्हतां मूर्ती-रतिष्ठिपत् स चक्रिराट् / / 262 // सगरः क्षोणिभुगपुत्र-रन्यैरपि महीधवैः / कारितास्तत्र सर्वज्ञा-ऽऽलयाः कैलाससोदराः / 263 / / यत उक्त च-"प्रभोः पश्चिमदिग्भागे संस्थां स्वर्णगुहामधः। कूपिका-कल्पवृक्षादि-वनानि निर्जराधिपः।।२६४॥ कारयित्वा प्रयत्नेन तत्र मूर्तिजिनेशितुः / निदधावपि पूजायै यक्षान् चादिशदादरात् ।।२६५॥युग्मम्॥ शिखरेऽथ सुभद्राऽऽख्ये द्वितीयस्य जिनेशितुः / अचीकरन जिनागारं चक्री रूप्यमयं महत् // 266 // सुचारित्रैर्गणाधीशैः सुश्राद्धैः सुसुरैरपि / चक्रे तत्र प्रतिष्ठाया महः पूजापुरस्सरम् / / 267 / / प्रासादोद्धरणं कृत्वा सगरो विमलाचले / अवालीद्रवतं शृङ्ग नन्तु नृपनरैः समम् // 268 // चन्द्रप्रभं जिनं तीर्थे वर्षे चन्द्रप्रभासके / नत्वा चक्री ययौ नन्तु रैवतं शृङ्गमञ्जसा // 26 // त्रिःप्रदक्षिणयन् शृङ्ग रैवतं सगरो नृपः / पूजां व्यधाजिनेशस्य विस्तरात् कुसुमादिभिः // 270 // एवमबुदभूमीधा-दिकतीर्थेषु शालिषु / अर्चयित्वा जिनानागा-दयोध्यां लसदुत्सवम् / / 271 / / पावयन् धरणी पद्भ्या-मजितस्तीर्थकृत् क्रमात् / अयोध्यानगरोद्याने सुराय॑ः समवासरत् / / 272 / / श्रत्वा जिनागमं चक्री गत्वा नत्वा जिनक्रमौ / धर्म श्रोतुमुपाविष्टो यथास्थानं च संसदि // 273 / / सार्वभौमत्रोधाय जिनाधीशोऽजितस्तदा / धर्मोपदेशनां कत्तु प्रयवर्ते इति स्फुटम् // 274 // तयाहि-"राज्यं पुत्रकलत्रबन्धुनगराण्यावासवित्तादिकं, देवर्द्धिश्च भवे भवेऽत्र सुलभान्यन्यानि रम्यान्यपि / मुक्ताविद्रुमरत्नवत्पुनरिदं चारित्रमुक्त जिनै-श्चिन्तारत्नमिवातिदुर्लभतमं सर्वार्थसंसाधकम् // 1 // " चारित्रादेकदिवस-पालितादपि मानवः / अवश्यं कम्र्मसङ्घातं क्षिप्त्वा याति परं पदम् // 275 / /