________________ सगरच क्रि सम्बन्धः 123 000000000000000000000000000000000000 00000000000 ये शत्रुञ्जयतीर्थे तु यात्रां कुर्वन्ति मानवाः / तेषां स्वर्गापवर्गादि-सुखाली जायते चिरम् // 220 // "यतः-प्राणिभिर्य समारूढैः लोकाग्रमतिदुर्लभम् / प्राप्यते स च सिद्धाद्रि-दुर्लभो देहिनामिह // 1 // " अभव्या पापिनो जीवा सिद्धाद्रिं भावतो न हि / पश्यन्ति न नमस्पन्ति पूजयन्ति च नो पुनः // 221 // सिद्धाद्रौ मणिरत्नायै-हेमरुप्यदृषच्चयैः / काष्ठेर्वा जिननाथस्य प्रासादः प्रवितन्यते // 222 // कारयन्ति जिनानां ये तृणावासानपि स्फुटम् / अखण्डितसुखान्येव लभन्ते ते त्रिविष्टपे // 223 // काष्ठादीनां जिनावासे यावन्तः परमाणवः / तावन्ति पल्यलक्षाणि तत् कर्ता स्वर्गभाग भवेत् // 224 // नूतनाह द्वरावास-विधाने यत्फलं भवेत् / तस्मादष्टगुणं पुण्यं जीर्णोद्धारे विवेकिनाम् // 22 // शत्रुञ्जयादितीर्थेषु प्रासादाः (न्) प्रतिमाश्च ये / कारयन्ति हि तत्पुण्यं ज्ञानिनो यदि जानते // 226 / / विम्बानि जिननाथानां मणिरत्नश्च हेमभिः / रूप्यैः काष्ठै पद्भिर्वा मृदा वा भावशुद्धितः // 227 // एकाङ्गुष्ठादिसत्सप्त-शताङ्गुष्ठावधि प्रभोः / यः कारयति भव्यात्मा मुक्तिश्रीस्तस्य वश्यगा ।।२२८॥युग्मम्।। प्रतिष्ठामहतोयो हि कारयेत् सूरिमन्त्रतः / सोऽहत् प्रतिष्ठां लभते यथा वापस्तथा फलम् // 226 // यावद्वर्षसहस्राणि पूजयन्ति जिनं जनाः / तावत्कालं बिम्बकर्त्ता लभते तत्फलांशकम् / / 230 // श्रुत्वेति सगरश्चक्री हेम्नो देवालयान् वरान् / शतान्यष्टौ व्यधान्मन्त्रि-पार्वाद् भूरिधनव्ययात् // 231 // सहस्र सप्तकं काष्ठ-मयान् देवालयान् पुनः / कारयामास चक्रेश-स्तीर्थयात्राकृते तदा // 232 // आकारितस्तदा सङ्घ-स्त्रिंशत् कोटिनरप्रमः / मिलितश्चक्रिणः सङ्घ प्राचार्या बहवः पुनः / / 233 // द्वात्रिंशत् सहस्राणि नृपा मुकुटबद्धनाः / आगताश्चक्रिणस्तस्य सङ्घ यात्राकृते तदा // 234 // इत्यादि भूरिभिः श्राद्धैः श्राविकाभिश्च भूरिशः / महाधरैर्महोभिश्च सहितश्चक्रनायकः // 23 // गायत्सु मागधायेषु नृत्यत्सु नर्तकेषु च / धवलेषु दीयमानेषु पुरन्ध्रोभिश्च सोऽचलत् // 236 / / प्रपूजयन् पुरे ग्रामे जिनाधीशान् सदुत्सवम् / नमन्मुनीन् ददद्दानं चक्री सिद्धाचले ययौ // 237 / / तत्रानन्दपुरे नाम्ना वृद्धनगरसझके / कारिते भरतेनाऽऽदि-जिनौकस्यनमन्जिनम् / / 238 / / आनन्दाह्वपुरे देव-पूजां कृत्वा सुविस्तरात् / चकी चकार साधर्म्य-वात्सल्यं विपुलं तदा // 23 // त्रिःप्रदक्षिणयंस्तीथं भूपः सङ्घन शालितः / आरुरोह गिरि दानं ददन्नुत्सवपूर्वकम् // 24 // श्रादौ श्रीवृषभं पुष्पैनर्चयित्वा च चक्रिराट् / राजादनीतले पादौ प्रभोरपूजयन्मुदा // 241 // तदा तत्राऽऽगतः शक्रः प्रणम्य वृषभं प्रभुम् / मिलितश्चक्रिणा राजा-दनीवृक्षतले मुदा // 242 / / ततो विस्तरतो मूल-नायकस्य पुरो नृपः / स्नात्रपूजा-ध्वजारोपा-ऽऽरात्रिकादिविधि व्यधात् / / 243 / / ततो देवाभिधे शृङ्ग बाहुबल्यभिधे पुनः / तालध्वजे च कादम्बे हस्तिसेनाह्वये पुनः // 244 // लौहिताख्ये मुकुन्दाख्ये सुन्दरे च पुरन्दरे / इत्यादि सर्वशृङ्गषु पूजां चक्रेऽर्हतां नृपः ।।२४५॥युग्मम्।। मृदङ्ग-झल्लरी-घण्टा-छत्र-चामरमोचनम् / प्रभोः पूजाकृते चक्री चकारामोदपूरितः / / 246 / / इन्द्रोत्सवं हारपूजा छत्र-चामरमोक्षणम् / रयावन्यश्वदानानि व्यधाचक्री गुरोगिरा // 247 // प्रासादान कारितान् रूप्य-त्नहेममयान् वरान् / अन्यैरपि नृपेदृष्ट्वा सगरो ध्यातवानिदम् // 248 // विवेकविकला धम्म-रिक्ता लोभान्धचक्षुषः / कालमाहात्म्यतो लोका भविष्यन्त्यग्रतः खलुः // 246 / /