________________ 122 शत्रुञ्जय-कल्पवृत्ती .00000000000 100.0000000000000000000000000000 जल्पन्ताविति तौ कुम्भ-कारौ भद्रकभावको / निराकृत्य च तं सङ्घ-मलुण्टयन्मलिम्लुचाः // 19 // षष्टिरेव सहस्राणि द्वाभ्या-मूनानि भिल्लकाः / लुण्टयित्वा च तं सङ्घ निर्वाहं स्वं व्यधुस्तदा // 196 // इतश्च श्रीपुराधीशो-ऽभ्येत्य तत्र नृपो धनः / अवेष्टयत् पुरं तच्च भिल्लैः पूर्ण समन्ततः // 197 // तदा तौ निर्गतौ कुम्भ-कारौ ग्रामात्ततो बहिः / भिल्लास्ते कुर्वते युद्धं धनेन भूभुजा समम् // 198 // ग्रामे ज्वालिते तस्मिन् तेन भिल्लास्तके तदा / अस्माभिर्यत् कृतं पापं तत्प्रादुरभवच्च नः // 199 / / ततः कुध्यानयोगात्ते दग्धाः कृपीटयोनिना / मृत्वा श्वभ्र ययुः सर्वे पापिनां गतिरीदृशी // 200 // यतः-"अनाज्यं भोज्यमप्राज्यं विप्रयोगः प्रियः सह / अप्रियः संप्रयोगश्च सर्व पापविजम्भितम् // 1 // मांचइ मांकुण घरु चूह चिल्लकडां बहू आई / अक्कुबालणि जब तउणि नरगह एह फलाई // 2 // " यः सङ्घोऽप्यर्हतां पूज्य-स्तीर्थङ्करैनिवेदितः / तस्यापि प्रत्यनीकं ये कुर्वते नारका हि ते // 201 // आराध्यः सर्वथा सङ्घो न विराध्यः कदापि सः / सङ्घाराधनतो मुक्ति-नरकस्तद्विराधनात् / / 202 / / वर्तमानांस्तीर्थमार्गे यात्रिकान् पीडयन्ति ये / सगोत्रास्ते विनश्यन्ति कुगतिं यान्ति च ध्रुवम् / / 203 // ते निर्गत्य ततः श्वभ्रान् मत्स्या जाता महाम्बुधौ / क्रमाच्च धीवरैर्बद्धाः प्रययुमरणं ध्र वम् // 204 // कर्णशृगाल्य प्रासंस्ते ततः केसरिणोऽभवन् / ततो मत्स्या महाम्भोधौ बभूवुः पातकोदयात् // 205 / / ततो मृत्वाऽभवन् भिल्ला वने क्वापि दुराशयाः / पापर्द्धितत्पराः साधु-मपश्यन् शान्तचेतसा // 206 / / धर्मोपदेशमाकर्ण्य ते भिन्लाः साधुसन्निधौ / लेमिरे भद्रकं भावं सदयत्वं च तत्क्षणात् // 207 // . चतुर्मासी च भिल्लानां तेषां बोधकृते स्थितः / तत्र साधुस्ततस्ते त्व-त्यजन् व्यसनसप्तकम् // 208 // ततो मृत्वा क्रमाचक्रि-स्ते ते भूवंस्तनूभवाः / सङ्घलुण्टनपापेना-धुनाऽपि मरणं ययुः / / 206 // यत:-"अल्पायुर्निर्धनो रोगी किङ्करो मुखरोगयुग / जायते तनुमान् श्वभ्रऽनन्तानन्तामुखः क्रमात् // 1 // दीर्घमायुः परं रूप-मारोग्यं श्लाघनीयता / अहिंसायाः फलं सर्व किमन्यत् कामदैव सा // 2 // " भीमो भगीरथः कुम्भ-कारजीवौ तु पुण्यतः / जिजीवतुर्यतः सङ्घ तदाऽलुण्टयतां न हि // 210 // यतः-"मनसापि च सङ्घस्य ये भक्तिं कुर्वते जनाः / तेषां स्वर्गापवर्गादि-सुखं भवति निश्चितम् // 1 // " यतः-"ये तीर्थयात्रिनो लोकान् वस्त्रानाम्बुविसर्जनः / प्रीणयन्ति भवेत्तेषां तीर्थयात्राफलं महत् // 1 // " श्रोसङ्घः प्रथमं तीर्थ सोऽपि तीथपथे व्रजन् / पूज्यते हि विशेषेण श्रेयः कामयताऽऽत्मनि // 211 // एभिस्तव सुतैः पापं यत्कृतं सङ्घलुण्टनात् / तस्योदयान्मृताः सर्वे समकालं नरेश्वर ! // 212 / / अतः शोको न कर्तव्यः पुत्राणां मरणे सति / अनित्यं विद्यते सर्व वस्तु पुत्रादिकं पुनः // 213 // यः करोति तमःपुण्ये स एव तनुमान पुनः / दुःखं सुखं च लभते परत्राऽत्र न संशयः // 214 // राज्ये पुत्रे कलत्रेऽपि मा मोहं कुरु भूपते ! / स्वहितं श्रय सौख्याय व पुनर्मानवो भवः // 215 // इति ज्ञानिमुखाज्ज्ञात्वा पुत्राणां पूर्वजान् भवान् / मुक्त शोकोऽभवचक्री वैराग्यं प्राप्तवान् पुनः / 216 // इन्द्रोऽपि क्षमयित्वा स्व-मपराधं चक्रिसन्निवौ / वन्दित्वा ज्ञानिनं स्वर्गे जगामाऽनघमानसः // 217 // सगरोऽपि प्रणम्याथ ज्ञानिनं तं सुभक्तितः / निजावासमलश्चक्रे पुत्रद्वयसमन्वितः // 218 // अन्येद्य श्चक्रिराड् गत्वाऽजितस्य स्वामिनोऽन्तिके / शत्रुञ्जयस्य माहात्म्यं शुश्रावेति कृतादरः // 21 //