________________ सगरचक्रिसम्बन्धः 121 100000000000000000000000000000000 100000000000000000000000 ततो ज़गाद चक्रीशो मारिहीनाद् गृहान्मम / महानसोद्भवं भस्म भृत्या ओनय तं द्र तम् // 16 // चक्रिभृत्येषु गृहृत्सु भस्म चक्रिनिकेतने / चक्रिपत्न्यो जगुमृत्यु प्रययुः पूर्वजो घनाः // 166 / / ज्ञात्वैतच्चक्रिराट् प्राह समस्तलोकसद्मसु / पञ्चत्वं पूर्वजा जग्मुः क्रियतेऽत्र किमौषधम् ? / 167 / / ततो रुदति भूदेवेऽत्यन्तं चक्रिसुतानुगाः / तत्रैत्योचुमति स्वीय-स्वामिनां ज्वलनाहितः // 168|| श्रुत्वैतत् सगरोऽत्यन्तं रुदन दीनस्वरं भृशम् / रोदयामास पार्श्व स्थान् मानवान् पक्षिणोऽपि च // 169 / / रुदन बाद न चक्र शो यदा तस्थौ मनागपि / तदा स वाडयः प्राह रुद्यते किं त्वया नृप ! // 170 // ममैको नन्दनो मृत्यु-गतोऽभूवमहं हतः / निराधारस्य मे सारं कः करिष्यति सम्प्रति ? // 171 / / यदा जीविष्यति मे पुत्रस्तदा जीवाम्यहं ननु / मृते पुढे मयाऽवश्यं हत्या देया तवाधुना // 172 // तदा चक्री जगौ विप्र ! जीवो मृत्यु वजन् क्वचित् / न रक्ष्यते सुरै -र्मातृ-पितृ-सहोदरैः // 173 // ततो विप्रोऽगदद् राज-नहं निर्नन्दनोऽभवम् / द्वौ पुत्रौ तिष्ठतां तेन किं रुद्यते त्वयाऽधुना ? // 174 // ततश्चक्री जगौ विप्र ! मृता मे निखिलाः सुताः / तेनाहं त्वरितं प्राणां-स्त्यक्ष्यामि वह्रियोगतः // 17 // ततश्चक्री चितां स्फारां निष्पाद्य नगराहिः / प्रविश्याग्नि ददौ यावदलात् सन्ज नसाक्षिकम् // 176 / / तदा द्विजन्मनो रूपं त्यक्त्वा शक्रो जगौ नृपम् / मया ते नन्दनौ द्वौ तु रक्षितावनुगाः पुनः // 177|| विप्ररूपं मया कृत्वा शक्रेण रक्षिता मृतेः / एतौ तौ नन्दनावत्राऽऽनीतौ सम्प्रति वीक्ष्यताम् // 178 // संसारो विद्यतेऽनित्यः पुत्रपौत्रादयः पुनः / सर्व विनश्वरं वस्तु तेन शुच क्रियते न हि // 179 // इतोऽभ्येत्य नरः कश्चिन् नृपोपान्ते जगावदः / त्वत्सुतैः स्वर्नदी नीता क्षमा प्लावयति स्फुटम् / / 180 // तां पश्चान्नय मार्ग त्वं नो चेद्भावी प्रजाक्षयः / ततः सगरचक्रेश-श्चितातो निरगात् क्षणात् // 181 / / दण्डरत्नेन गङ्गायाः प्रवाहं तं च दुःशकम् / निन्ये चक्री मरुन्नद्या मध्ये वैताढ्यशैलतः // 182 // अत्रान्तरे मुकुन्दाह्वाः सूरयो ज्ञानशालिनः / अजितस्वामिनः शिष्या स्तत्राजग्मुः पुरान्तिके // 183 // तत्र द्वितीयचक्रशो गत्वा नत्वा गुरूत्तमान् / धम्म श्रोतुमुपाविष्टः स्वकुटुम्बसमन्वितः // 184 // __अत्र धर्मोपदेशो वाच्यः।। देशनान्ते जगौ चक्री पुत्रा मम कथं समम् / मृति प्रापुस्ततः पापं विहितं किं निगद्यताम् ? // 185 / / ज्ञानी प्राह धरापल्ल्यां ग्रामे श्रीपुरसझके / वसन्तो बहवो भिल्लाः स्तन्यं चक्र निरन्तरम् // 186 // श्रीभदिलपुरात् सङ्घो-ऽगच्छच्छत्रुञ्जयं प्रति / यदाऽगाच्छ्रीपुरे भिल्लाः प्रोचुरेवं मिथस्तदा // 18 // अस्मिन् सङ्घ धनं भूरि विद्यते कनकादिकम् / लुण्टयित्वा ततोऽस्माभिः सुखेन भुज्यते सदा // 188 // भिल्लैः षष्टया सहस्र स्तु द्वाभ्यामूनैः प्रजल्पितम् / गृह्यते धनमेतेषां निर्वाहोऽस्ति सुखेन च // 189 // तदोचतुः कुलालौ द्वो तेपामग्रे शुभाशयौ / परस्वं नैव गृह्यत यात्रिकाणां विशेषतः // 190 // एते श्राद्धा वन्ति स्वं क्षेत्रेषु सप्तसु ध्र वम् / यात्रां कुर्वन्ति तीर्थेषु व्ययन्तो विभवं निजम् // 191 // पाप्मभिः प्राककृतैरेवा-धुनाऽस्माकं कुजन्मना / दुर्भरं विद्यते वक्षा-दुःस्थत्वात् सन्ततं पुनः / 192 // पुण्यानुबन्विभिः पुण्यैः श्रावका दानिनोऽप्यमो / कुर्वाणाः सन्ततं पुण्य-मर्जयन्ति वृषं बहु // 193 // अात्मभिः क्रियते पापं जनानां धनलुण्टनैः / भविष्यति ततः पातो दुर्गतावात्मनः खलु // 194 / /