________________ 120 00000000000000000000...... शत्रुञ्जय-कल्पवृत्ती 00000000000000 यतः-“अत्युग्रपुण्यपापाना-मिहैव फलमाप्यते / त्रिभिर्मासै त्रिभिः पक्ष-त्रिभिर्व स्त्रिभिर्दिनैः // 1 // " तेष्वतिष्ठत्सु चक्रीश-पुत्रेषु ज्वलनोरगः / जनु-भोमी विना पष्टिं सहस्राण्यदहत् सुतान् // 138|| दग्धान् (ग्ध्वा) चक्रिसुतान् सद्यो ज्वलनो रुटमानसः / स्वं स्थानमगमत् कोपो भवेद्रिपुवधावधि // 136 / दग्धान् चक्रिसुतान् दृष्ट्वा भृत्या रोदनतत्पराः / जहनुभीमयुता वृक्षा-नपि चारोदयन् भृशम् / / 140 // वियोगाचक्रिपुत्राणां कुर्वे भृत्याश्चितां पृथुम् / काष्ठैर्व्यरचयन् प्राणां-स्त्यक्त कामास्तदा द्रुतम् / / 141 / / यारते रहिना मृत्या ज्वालयन्ति चितां स्वयम् / ज्ञात्वा चाऽवधिना तावद् विनरूपधरो हरिः // 142 // समेत्य प्रोक्तवान् भृत्याः ! मा म्रियध्वं मुधाऽधुना / जीवद्भिर्लभ्यते सर्व राज्यादि न मृतैः पुनः ||युग्मम्।। भृत्या प्रोचुर्द्विजाऽस्माकं पश्यतां चक्रिसूनवः / स्वस्वामिनो हूता बह्नि-दानेन ज्वलनाहिना // 144 / / तेन किं जीव्यतेऽस्माभि-विना स्वेशान् द्विजाऽधुना / विधीयन्तेऽनुगा भूपैः स्वरक्षायै यतोऽनघाः // 145 // तैरेव स्वामिनः पृष्ठौ म्रियते न हि चेद्यदि / तदा स्वस्वामिभावो हि निरर्थोऽजनि सर्वतः // 146 // विप्रोऽवग वचनं ह्यतत् भवतां न वरं पुनः / एवं चेन्नियते भृत्यै-स्तदा विश्वं प्रलीयते // 147 // स्वामिपृष्ठौ म्रियन्ते यद् भृत्याः पत्यौ मृते सति / म्रियन्ति योषितस्तच्च मोहस्यैव विज़म्भितम् // 148|| मोह एव बली विश्व सर्वेषां दृश्यतेऽङ्गिनाम् / यतो मोहो नयत्येव श्वभ्र जीवान् बहून् हठात् / / 146 // 'यतः-पुत्रो मे भ्राता मे स्वजनो मे गृहकलत्रवर्गो मे / इति कृतमे मे शब्दं पशुमिव मृत्युर्जनं हरति // 1 // दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः / कोऽयं जनस्य मोहो ये रिपवस्तेषु सुहृदाशा' // 2 / / आकण्यैतत्तदा सर्वे चक्रिपुत्रानुगाः समे / निवृत्ता मरणात शोकं दधुरात्यन्तिकं हृदि // 150 // ततो विप्रो जगौ शोकः क्रियते नोत्तमै जनैः / शोकेन जायतेऽमुत्र परत्राऽसुखसन्ततिः / / 15 / / यतः-"धर्म-शोक-भया-हारा-निद्रा-काम-कलि-क्रुधः / यावन्मात्रा विधीयन्ते तावन्मात्रा भवन्त्यमी // 1 // " इत्यादि जल्पिताश्चक्रि-भृत्या जहुः शुचं तदा / ततो वित्रो गतोऽन्यत्र विद्युद्पुञ्ज इवाचिरात् // 152 / / विप्रवेषधरः शक्रो वृद्धीभृय सुतं मृतम् / उत्पाट्य सगरस्याग्रे विमुच्य च रुदन जगौ / / 153 // सर्वं सहाऽसि भूमे ! त्वं कठिनाऽसि दृढं पुनः / भरतं भरताधीशं नानुयाताऽसि रे जडे ! / / 154 / / दिग्पाला निखिला यूयं कथं स्थ मेऽवनीतले / यतो न रक्ष्यते दीनो निर्नाथो मरणात्त्वया // 155 / प्रजापालो निगद्येत जनस्त्वं सर्वतः सदा / मृतं मम सुतं तेन किं नात्र जीवयिष्यसि ? // 156 // वार्द्धक्ये मे सुतो नीतो यमेनाऽयं निजालयम् / तेनाऽहं दुःखितोऽत्यन्तं जातोऽस्मि भूप ! सम्प्रति // 157 // यतः-वृद्धस्य मृतभार्यस्य मृतपुत्रस्य निश्रियः / जीवितान्मरणं श्रेयो न स्थातुयुक्तमत्र हि // 158 // विप्रवाणी समाकर्ण्य चक्रयाकार्य भिषग वरान् / औषधं दापयामास तस्य जीवितहेतवे // 159 / / औषधैभूरिभिर्दत्तैन जिजीव यदा स च / तदा शक्रो भिषग रूप-धरोऽभ्येत्य जगावदः // 160 / यस्यालये न कः पूर्व मृतोऽस्ति मानवः खलु | भूतिमहानसात् तस्या-नीयतां भृत्यपाश्चतः // 161 // तेनैव भस्मना विप्र-पुत्रोऽवगुण्डयते यदि / तदा जीवति चक्रीश ! नान्यथा कर्हि चिनदा // 162 // ततो यस्य गृहे यान्ति भस्म लातु नृपानुगाः / तदा तद्गेहनेतारः प्रोचुरेवं जनान् प्रति // 163 // अस्माकं सदने पित्रादयः पूर्व मृताः किल / ततो भूपानुगा लोक-प्रोक्त प्रोचुनृपाग्रतः // 164 //