________________ सगरचक्रिसम्बन्धः 116 0000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000 यच्छलसन्धौ ततोयं- प्रवृत्तं तपसो बलात् / नैरुत्यां दिशि विद्यत विघ्नोपशमकारकम् / / 109 / / रोगशोकार्तवैताल-ग्रहदुःखानि कोटिशः / तस्यैव वारिणःस्पर्शाद्-गच्छन्त्येव न संशयः // 110 // पुनः क्षणाद् गणाधीशो दध्यावेवं स्वचेतसि / मयैव चिन्तितं ध्यानं पापोत्मकं दुःखहेतवे // 111 // एवं तस्य गणेशस्य ध्यायतः परमं महः / प्राप्य ज्ञानं ययौ मुक् िसर्वपापक्षयात्तदा // 112 // तत्र चक्री समेत्यैव सुव्रताचार्यनामकम् / प्रासादं कारयामास नाभेयप्रतिमान्वितम् // 113 // इतस्तत्राजितस्वामि-वचः श्रुत्वा मनोहरम् / बहवो यतयः सिद्धिं जग्मुः सर्वतमाक्षयात् // 114 // ततः श्री अजितस्त्रामो प्रबोध्य भूरिशो जनान् / विजहार महीपीठं बोधितु भविकाङ्गिनः // 11 / / एकदा सगरक्ष्मापा-देरा लब्ध्वा तनूभवाः। यात्रां कतु मणीन् लात्वा भगीरथ्यादयो (नारीरत्नमृते)ऽचलन् / वन्दमानो जिनान ग्रामे ग्रामे ग्रामे पुरे नगे / ययौ भागीरथो भ्रातृ-युतोऽष्टापदपर्वते // 117 // आरुह्याऽष्टापदं शैलं भरतक्ष्मापकारिते / जिनागारे जिनानादि-नाथादीन् सोऽनमन्मुदा // 118|| "चत्तारि अट्ट दस दो य वंदिया जिणवरा चवीसं / परमट्ट निटिअट्ठा सिद्धा सिद्धिं मम दिसंतु // 1 // " स्नात्रपूजा-ध्वजादान-कृत्यानि रुचिरोत्सवम् / कृत्वा भगोरथचक्र गीतनृत्यादि भावतः // 11 // भरतेनात्मनः पूर्व-जातेनादिजिनालयम् / रैमयं कारितं ज्ञात्वा भ्रातृ न भगीरथो जगौ // 120 // लोमिनो भाविनो लोकाः प्रासादं रैमयं किल / पातयित्वा गृहीष्यन्ति हेम सर्वं न संशयः // 12 // तेनाऽस्य तीर्थराजस्य रक्षा धुरि विधीयते / परिखाय। विधानेन परितोऽत्रानुजाः खलु // 122 // तदा सर्वेऽनुजाः प्रोचु-र्वयं भ्रातस्त्वयोदितम् / क्रियतां परिखाऽस्यैव तीर्थस्य परितो लघु / / 123 / / ततो दण्डेन रत्नेन ते सर्वे सगराङ्गजाः / अष्टापदस्य परितः खातिको कर्तुमुद्यताः // 124 // खनतां खातिकां तेषां परितोऽयापदेऽचले / अणपन्नि-प्रमुखाणां व्यन्तराणां गृहेषु तु / / 125 / / बह्वीं धूलीं पतन्तीं तु दृष्ट्वा ते व्यन्तरा जगुः / कोऽयं दुराशयो धूली क्षिपत्यत्रात्मनो गृहे ।।१२६।।युग्मम्।। अवधिज्ञानतो ज्ञात्वा सगरस्याङ्गजा जगुः / सगरदोणिभुपुत्रा यूयं स्थ करुणापराः // 127 / / कि यूयं क्षिपथास्माकं शीर्षेषु धूलिपद्धतिम् / कृपापि विद्यते नैव जोवेष्वस्मादृशेष्वहो ? // 128 // यतः-अहिंसासम्भवो धर्मः स हिंसातः कथं भवेत् / न तोयजानि पद्मानि जायन्ते जातवेदसः / / 126 / / कृपानदी-महातीरे सर्वधस्तृिणाङ्क गः / तस्यां शोषमुपेतार्या किय नन्दन्ति ते पुनः / / 130|| निगुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः / न हि संहरति ज्योत्स्नां चन्द्रश्चाण्डालवेश्मसु // 13 // 'इक्कह जीवह कारणेहिं मारि म जीवसयाई / अञ्ज वि कल्ल वि मरणं पामिसि दुक्खसयाइ" ||132 / / तैरेवं व्यन्तरैः प्रोक्त भ्रातयुक्तो भगीरथः / खातिका स्वनंदीनीरै-र्भलु यत्नं व्यधात्तदा // 133 / / दण्डरत्नेन गंगायाः प्रबाहेन च खातिकाम् / यावद् विभर्ति सगर-पुत्रः सोदरसंयुतः // 134 / / तावत् कर्दमपातेन ज्वलनो व्यन्तरो जगौ / पङ्कस्य पाततो नाग़-लोकोऽद्य पूर्यतेतराम् // 13 // गङ्गाप्रवाहनयनं तदा भगीरथादिभिः / विज्ञाय ज्वलनो नाग-नाथः प्रोवाच तान् प्रति // 136 / / यूयं पथात् कुरुध्वं स्व-नद्याः प्रवाहमञ्जसा / नो चेच्छिक्षां द्रुतं दास्ये युष्माकं पापकारिणाम् // 137||