________________ 118 शत्रुञ्जय-कल्पवृत्तौ ..000000001 0000000000000000000000000000000000000000000 00000000000000000000000000000000000000000000000 ततः केकिसुरो हृष्टः स्वमृत्युस्थानके तदा / स्वरूपं व्यलिखत् स्वामि-पादुकान्तेऽन्यबोधकृत् ||1|| स केकीनिर्जरः प्राप्य मानुषं भवमद्भ तम् / मुक्ति गमिष्यति क्षिप्रं शैले सिद्धाभिधे क्रमात् ||2|| तदाऽनेके मयूराद्या जीवा जैनं वृषं वरम् / प्रपद्य त्रिदिवं जग्मु-स्ततो योस्यन्ति नि तिम् / / 83|| यतः-नगः शत्रुञ्जयाख्योऽयं शास्वतः सर्वदा स्थिरः / भवाब्धौ मन्जतां पुसा तारणाय तरीनिमः ||84|| तीर्थेऽस्मिन् यानि कर्माणि विधीयन्ते सुमेधसा / तानि कर्मक्षयाय स्यु-भवेऽत्र च परत्र च ||8|| शत्रुञ्जयेऽत्र ये सिद्धाः सेत्स्यन्त्यपि च सर्वदा / तांश्च केवलिनं मुक्त्वा न वेत्यऽन्यो जनो मनाम् / / 86|| इतश्चक्री विधायाऽर्चा चक्रस्य पृष्टितस्तदा / चचाल साधितु पृथ्वीं षट्खण्डां भूरिसैनिकः ||87|| दण्डपाणि-गज-छत्र-मणि-काकिणि-वर्द्धकान् / पुरोधा गृहचक्राणि चर्मरत्नमुखान्यपि ||8|| रत्नान्यादाय भूमीशो यक्षलरधिष्ठितः / ससैन्यैश्चालयन् विश्व चचालाऽचलविक्रमः ||८६||युग्मम्।। पूर्वाब्धौ मागधाधीशं वायव्यां वरदामकम् / प्रतीच्यब्धौ प्रभासेशं बलेन बलिन भृशम् / / 60|| कृत्वाऽष्टमं तपः साध-यित्वा सगरभूपतिः / ययौ सिन्धुमहासिन्धो रोधसि क्रमतस्तदा / / 61|| जित्वा सिन्धुपति भूपः वैताढयव्योमगानपि / स्ववशान् विदधे भूमी-पतिनन्यानपि क्रमात् ||12|| एवं चक्रानुगो भूपं षट्खडां वसुधां समाम् / साधयामास निःशेष-प्रत्यर्थिभूमिभुगजयात् ||13|| स लक्षैश्चतुरशीत्या कुम्भि-स्यन्दन-वाजिनाम् / सपादकोटिमिः खङ्गः सगरोऽलङ्कृतः क्रमात् ||64|| षट्खण्डों मेदिनीं भूपः साधयित्वा निजौजसा / स्वाहा लिलेख ऋषभ-कूटे कुर्वन् महोत्सवम् ||6|| विस्तराद्दशसाधन-वैताठ्यपर्वतगुहागमन-गंगानदीतटनवनिध नघटनादिसम्बन्धश्चरित्रात् ज्ञेयः / सगरश्चक्रिराट स्वीयपुरेऽभ्येत्य चमूयुतः / राज्याभिपिश्चनविधिं व्यधाद् द्वादशवत्सरीम् / / 96 / / विहरन्नन्यदा स्वामी शृङ्ग सुभद्रसंज्ञिके / चतुर्मासी स्थितो वर्ष-त्यब्दे सिद्धमहीभृतः // 67 // अन्येऽपि यतयः शृङ्ग पृथक् पृथग् गुहासु च / तस्थुः कतु तपस्तीत्र संसारोच्छेदहेतवे // 6 // तत्रस्थे स्वामिनि व्याघ्रा-दयोऽपि श्वापदास्तदा / प्रभोर्वाणीं निशम्याशु वैरं तत्यजुरात्मना // 66 // व्याघ्रादयोऽपि जीवास्तु लात्वाऽनशनमादरात् / शृण्वन्तः स्वामिनो वाणीं ययुः स्वर्ग शुभाशयाः॥१००॥ ततश्च्युत्वा भवरेक-द्विव्यादिभिर्मनोहरैः / सम्प्राप्य मानुषं जन्म ते प्रयास्यन्ति निवृतिम् / / 101 // इतः श्री सुत्रताचार्य-स्तन्दुलोदकभाजनः / ग्लानत्वात् प्रथमे शृङ्गे समागान्मुनिसेवितः // 102 // कस्यचित् पादपस्याधो विमुच्य जलभाजनम् / यावत् सूरिः स्थितस्तावत् काको व्यलुठयच्च तत् // 10 // काकेन गमितं नीरं दृष्ट्वा शुष्यन्मुखाम्बुजः / चुकोप मुनिपः काकं प्रतीदं प्रोक्तवान् पुनः // 104 // यतः-यत् काग ! भवता प्राण-रक्षणं क्षणतः पयः / अलोठि तदकृत्येन नात्र त्वत्सन्ततेगतिः // 10 // अशेषमुनितोषाय निर्जन्तु-प्रासुकं पयः / अत्रैव सततं भावि प्रभावात्तपसो मम // 106 / / यत्तदैव ययुः काकाः काकु कोलाहलाऽऽकुलाः / तत्तदादि सिद्धशैले काकानामाऽऽगतिर्नहि // 107/ दुर्भिक्षं विडवरानर्थ-समर्थनपरोऽत्र चेत् / अति काकस्तत्कार्य शान्तिकं विघ्ननाशनम् // 108 // उक्त च-"श्रीयुगादिजिनस्याग्रे राजादन्याश्च शान्तिकम् / पुरतो जैनमुनिभिः क्रियतेऽरिष्टनाशकृत् // 1 // "