________________ सगरचक्रिसम्बन्ध: 117 000000000000000000 0000000000000000000000000000000 वायुवद् विहरन् स्वामी नानादेशेषु सन्ततम् ।अयोध्यामीयिवान् प्रान्ते छद्मस्थस्य शुभाशयः // 56 // रोहिणीस्थे विधौ पौष शुक्लद्वादशमीदिने / पश्चिमाह्नि प्रभोनि-मुत्पन्नं पञ्चमं क्षणात् / / 57|| वनत्रये कृते तत्र देवैः श्रीअजितः प्रभुः / तीर्थायाऽस्तु नमश्चादौ जगादाचारहेतुतः // 58|| मरुत्कृतबृहद्धेम-विष्टरे अजितः प्रभुः / उपविष्टः प्रबोधाय भव्यानां प्राणिनां तदा // 56|| इतः सगरभूपस्या-ऽऽयुधसमनि सुन्दरे / चक्ररत्नं समुत्पन्नं स्फुरद्भाभासिताम्बरम् // 60|| .............'ज्ञानोत्पत्तिं महीपतेः / उद्यानपो जगौ याव-त्तावद्दध्यौ क्षमापतिः // 61 // चक्रं प्रपूजयित्वाऽऽदा-वर्चयिष्ये ततो जिनम् / क्षणादध्यौ नृपो धिग् मां निविवेकजनाग्रणीम् / / 62 // प्रभौः प्रपूजिते चक्रं पूजितं सुलभं भवेत् / यतः प्रभुः शिवस्वर्ग-चक्रयादिकमलाप्रदः // 63 / / मिथ्यादुःकृतमादाय सगरस्ततक्षणात्तदा / लात्वा बलिं प्रभु नन्तु स्वामिनः सन्निधौ ययौ // 64 // बलिमुच्छालयन कुर्वन् सगरस्त्रिःप्रदक्षिणाम् / बलिमादात्तदा स्वीयो-चितां रोगाद्यहन्तृकां // 65 // उक्त च'राया व रायमच्चो तस्सासई पउरजणवत्रो वावि / दुबलिखंडिअबलि-छड्रिअ तंदुलाणाढयं कलमा / / भाइअ पुणाणियाणं अखंडफुडीआण फलगसरियाणं / कीरइ बली सुरावि अ तत्थे। छुहंति गंधाई // 2 // बलिपविसण समकालं पुव्वद्दारेण ठाइ परिकहणा / तिगुणं पुरो पाडण तस्सद्ध अवडियं देवा // 3 // अद्बद्ध अहिवइणो अवसेसं होइ पगयजणस्स / सयामयप्पसमणी कुप्पइ नन्नो अ छम्मासे' // 4 // वन्दित्वाऽथ प्रभु पृथ्वी-प्रभुः स्वस्योचिते पदे / धर्म श्रोतुमुपाविष्टः प्रमोदभरभासुरः // 66 // अत्र धर्मोपदेशो वाच्यः। देशनान्ते प्रभुर्गच्छ-नायकान् निजपाणिना / स्थापयामास ते सर्वेऽभूवन विद्याब्धिपारगाः // 67|| सङ्घ चतुर्विधं तत्र श्रीमानजितबोधितः / स्थापयामास नाकीन-महीनायकसाक्षिकम् // 68 / / श्राद्भधर्म समादाय चक्री स्वगृहमीयिवान् / विजहाराऽजितस्वाम्य-न्यत्र बोर्बु बनान् बहून् // 66 // अन्येा रजितस्वामी विहरन् वसुधातले / आदिनाथाश्रितं शत्रु-अयं प्रत्यचलत् स्वयम् / / 70 / / यावच्छत्रुञ्जयोपान्ते गत्वा स्वाम्यजितः क्रमात् / कायोत्सर्गे स्थितस्तावत् केकिवृन्दं समागमत् // 71 / / एकेन केकिना स्वामि-शीर्षस्योपरि भक्तितः / स्वकलापः कृतश्छत्रा-कारेण तमसः छिदे // 72 // ध्यानान्ते केकिनो धर्मे बोधिताः प्रभुणा गिरा / पशवोऽपि तदा भद्र-स्वभावा अभवन् किल ||73 / / यतः देवा देवी नरा नारी शबरावापि शाबरीम् / तिर्यश्चोऽपि हि तैरश्ची मेनिरे भगवगिरम् // 74|| तैः केकिभिः समं स्वामी शैलमारुह्य यत्नतः / मुख्यशृङ्ग स्थितो राजा-दन्या अधो दिनत्रयम् / / 7 / / तदा ते केकिनः स्वामि-मुखालोकनतत्पराः / आलेख्यलिखिता आस-निव स्वीयतमश्छिदे / / 76 / / तदैक केकिा वृद्ध-मासन्नमरणं ध्रुवम् / ज्ञात्वा संलेखनां स्वामी कारयामास सगिरा / / 77|| मृत्वा के की गतस्तुर्य-स्वर्ग भासुरभूतिमान् / ज्ञात्वोपकारिणं स्वस्य प्रभूपान्ते समागमत् ||78|| वयं समवसरणं कृत्वा नृत्यन् प्रभोः पुरः / सौधर्मस्वामिना पृष्टः स्वामीत्येष सुरोऽस्ति कः ? // 76 / / स्वाम्यवक् तस्य देवस्य यथाऽभूत् स्वर्गतिस्तथा / इदं च विद्यते देहं केकिनोऽस्य सुरस्य हि ||80 //