________________ पुण्डरीकसिद्धिगमनसम्बन्धः 105 .00000000000000000000000000000000000000000000000000 B00000 00000000000000000000030 पुण्डरीको गणाधीशः प्रथमः प्रथमार्हतः / महोदयपुरीमैयुः ! (माप) पञ्चकोटियतिश्रितः // 17 // अतोऽस्य तुङ्गशैलस्य पुण्डरीकाभियां तदा / ददौ सुरपतिभूरि-सुरसेव्यः सदुत्सवम् // 18 // ततः श्रीपुण्डरीकेति नाम ध्यायन् जनो बहु / स्वर्गापवर्गसौख्यानि लभते स्म लभिष्यते // 19 // पुण्डरीको गणाधीशो यत्र स्थाने मनोहरे / तत्र श्रीभरतश्चक्री जिनागारमकारयत् // 20 // प्रतिमां पुण्डरीकस्य सिद्धस्य गणधारिणः / अतिष्ठपद् युगादीश-प्रथमो नन्दनो मुदा // 21 // तामपि प्रतिमां भव्य-जनानां पश्यतां सताम् / मुक्तिबभूव भवति भविष्यति क्रमात् पुनः // 22 // चैत्रे मासे च सिद्धाद्रौ गत्वा भव्यजना मुदा / पूजां श्रीपुण्डरीकस्य कुर्वन्ते कुसुमैर्वरैः // 22 // स्तोकेनैव तु कालेन ते क्षिप्त्वा निखिलं तमः। अलंकुर्वन्ति कल्याण-पुरीमशिश्रयन् क्रमात् // 24 // इति पुण्डरीकसिद्धिगमनसम्बन्धः समाप्त:* एकविंशतितमाधिकारे पुण्डरीकसम्बन्धः प्रोक्तोऽस्ति, पुनरत्र गाथाया अधिकारादुक्तो मया / // अथ बाहुबली कारितश्रीमरुदेवीभवनसम्बन्धः॥ बाहुबलिणा उ रम्मं सिरिमरुदेवाइ कारिअ भवणं / जत्थ समोसरणजु सो विमलगिरि जयउ तित्थं // 14 // _ 'यत्र' सिद्धशैले "बाहुबलिना" श्रीऋषभदेवद्वितीयपुत्रेग "श्रीमरुदेवाया" श्रीनाभिकुलकरपत्न्याः कारित-कारापितं भवनं-सदनं प्रासादः "रम्य" मनोहरं “समवसरणयुतं" चतुःप्रतिमायुतं मरुदेवी प्रतिमां गजाधिरूढां तत्र च स्थापयामास बाहुबलिः, स विमलगिरिर्जयतात् / पुण्डरीको गणी कुर्वन् विहारं वसुधातले / तक्षशिलापुरोद्याने रुचिरे समवासरत् // 1 // तदा बाहुबलिस्तत्रा-गतो धम्म जिनोदितम् / शुश्रावेति मुदा स्वर्गा-पवर्गसातदायकम् // 2 // जिनेन्द्रभवनं भव्या ये कारयन्ति मानवाः / तेषां भवति कल्याण-कमला भीमसेनवत् // 3 // तथाहि-चन्द्रोदयपुरे भीम-सेनः श्रेष्ठी वराशयः / अर्जयामास लक्षाद्धं दीनाराणां क्रमात् किल // 4 // गुरूपान्ते गतोऽन्येद्यु-भीमसेनो वणिवरः / प्रासादकरणे पुण्यं शुश्रावेति कृतादरम् // 5 // यतः---"अङ्गुष्ठमात्रमपि यः प्रकरोति बिम्ब, वीरावसानवृषभादिजिनेश्वराणाम् / __ स्वर्गप्रधानविपुलर्द्धिसुखानि भुक्त्वा, पश्चादनुत्तरगतिं समुपैति धीरः" // 1 // "धम्मंज्ञो धर्मकर्ता च सदा धर्मप्रवर्तकः / सत्त्वेभ्यो धर्मशास्त्रार्थ-देशको गुरुरुच्यते" // 2 // इत्यादि धर्ममाकये सम्यग्बाहुबलिनृपः। ययौ शत्रुञ्जये तीर्थे भूरिश्रीसङ्घसंयुतः // 6 // तत्र सङ्घकृत्यानि कृत्वा बाहुबलिनृपः / प्रासादं कारयामास कैलासाचलसोदरम् / / 7 / / समवसृतियुग बिम्ब मरुदेव्याः शिवप्रदम् / अतिष्ठपन मुदा शत्रु-जये बाहुबलिनुपः // 8 //