________________ 104 शत्रुञ्जय-कल्पवृत्ती .000000000000000 000000000000000000000000000 00000000000000000 1000000boe-00000000 // अथ पुण्डरीकसिद्धिगमनसम्बधः // ओसप्पिणीइ पढम, सिद्धो इह पढमचकि-पढम सुओ! पढमजिणस्स य पढमो, गणहारी जत्थ पुंडरीओ // 11 // चित्तस्स पुण्णिमाए, समणाणं पंचकोडिपरिवरिओ। णिम्मलजसपुंडरीअं, जयउ तं पुंडरीयतित्थं // 12 // __ अनयोः व्याख्या-अवसर्पिण्यामस्यां 'प्रथम' आदौ 'प्रथमचक्री' भरतस्तस्य प्रथमः पुत्रः पुण्डरीकाभिधः ऋषभसेनापरनामभृत् प्रथमजिनस्य प्रथमो गणधरः सिद्ध इह-शत्रुञ्जये सिद्धिं ययौ, तदा शिष्यः प्राह-कस्यां तिथौ कतिभिः साधुभिः सह मुक्तिं गतः 1 गुरु प्राह -"चित्तस्स पण्णिमाए // 1 // " यत्र चैत्रमासस्य पूर्णिमायां-राकायां पञ्चकोटिमितैः श्रमणैः परिवृतः-सहितो निषेवितो गृहीतानशनोऽर्थात् पुण्डरीको गणी सिद्धः इति पश्चाद्गाथायाः सम्बन्धः / जयतात् 'तं' तत् 'पुण्डरीकं तीर्थ' शत्रुञ्जयाख्यं, किं विशिष्टं ? 'निम्मलं' निर्मलं यश एव पुण्डरीकं-कमलविशेषो यस्य तत् // एकदा ऋषभोपान्ते पुण्डरीको गणाधिपः / पप्रच्छ भगवन् ! कुत्र मम मुक्तिर्भविष्यति ? // 1 // प्रभुः प्राह सुराष्ट्रासु तुङ्गाह्वो विद्यते गिरिः / विस्तरो योजनानां तु पञ्चाशच्छिवदायकः // 2 // तत्र यातस्य ते मुक्तिर्भविष्यति गणाधिप ! / अन्येषामपि साधूनां बहूनां तमसः क्षयात् / / 3 // श्रुत्वेति वृषभस्योक्त पुण्डरीको गणाधिपः / पञ्चकोटिमित चिं-यमैयुक्तोऽचलत्ततः॥४॥ ध्यानमौनपरः शत्रु-ञ्जये गत्वा गणाधिपः / पञ्चकोटिमितैर्वाचं-यमैयुक्तोऽभवद्भ,शम् / / // 'तदा तत्र स्थितश्चाद्यो गणधारी सुसाधुयुम् / शत्रुञ्जयस्य माहात्म्य-मित्यवग् भविनां पुरः // 6 // जिनेन्द्रभवनं भव्या ये कारयन्ति मानवाः / तेषां भवति कल्याण-कमला भीमसेनवत् // 7 // चन्द्रोदयपुरे भीम-सेनश्रेष्ठी वराशयः / अर्जयामास लक्षार्द्ध दोनाराणां क्रमात् किल // 8 // गुरूपान्ते गतोऽन्येद्य-र्भीमसेनो वणिग्वरः / प्रासादकरणे पुण्यं शुश्रावेति कृतादरम् / / 9 / / यतः-"अगुष्ठमात्रमपि यः प्रकरोति बिम्ब, वीरावसानऋषभादिजिनेश्वराणाम् / स्वर्गप्रधानविपलर्द्धिसुखानि भुक्त्वा पश्चादनुत्तरगतिं समुपैति धीरः // 1 // " इत्यादि धर्ममाकण्यं भीमसेनो वणिग्वरः / यात्रां शत्रुञ्जये कृत्वाऽ-चीकरद् वृषभालयम् // 11 // ध्यानमेकाग्रचित्तस्य कुर्वतस्तस्य तत्र तु / उत्पन्नं केवलज्ञानं सिद्धिरासीत् क्रमात पुनः // 12 // श्रुत्वेति सिद्धशैलस्य माहात्म्यं बहवो जनाः / श्रादाय संयम मुक्ति-नगरी समुपागमन् // 13 // गृहीतानशनचत्र-राकायां भरताङ्गजः / सर्वकम्मक्षयान्मुक्ति-नगरी समुपेयिवान् / / 14 // तदा वाचंयमा पञ्चकोट्योऽनशनग्रहात् / क्षिप्त्वा कर्माखिलं मुक्ति पुर्यां समागमत् किल // 15 // तदा तत्र समागत्य पञ्चकोटिः यतीन् वरान् / दृष्ट्वा मुक्ति गतान् शक-श्चके मुक्तिगमोत्सवम् // 16