________________ श्रेयांसकुमारसम्बन्धः 103 000000000000000000000000000001 00000000000000000000000 भवन्ति भूरिभिर्भाग्यः धर्मकर्ममनोरथाः / फलन्ति यत्पुनस्ते तु तत् सुवर्णस्य सौरभम् // 5 // चत्वारः प्रहरा यान्ति देहिनां गृहचेष्टितैः / तेषां पदे तदद्धे वा कर्तव्यो धर्मसङ्गहः // 6 // श्रुत्वेति स्वं सुतं राज्ये न्यस्य श्रेयांसभूपतिः / चारित्रं लातवान् मुक्ति-सातसन्ततिदायकम् / / 7 / / श्रेयांसं स्वामिनो भक्त दृष्ट्वाऽऽदिचक्रिराट् पुनः / पप्रच्छाऽयं कथं भक्त-स्त्वयि स्वामिन् ! विलोक्यते / / 8 / / प्रभुः प्राहाऽस्य पूर्वस्य भवस्य मम विद्यते / सम्बन्धोऽतो विशेषेण भक्तो मयि तु वीक्ष्यते / / 6 / / __तथाहि वसुदेवहिण्डौ- "जया ईसाणे देवलोए सिरिप्पहे विमाणे अहयं ललितांगो देवो जाओ। ताहे सिजसो सयंप्पहा देवी पुव्यभवणिण्णामिअभिहाणा ते जाया" तो पुव्वविदेहे पुक्खलावती विजए लोहग्गले नयरे। अयं वयरजंघो आसी सिजसो सिरिमई भजा // तो उत्तरकुरुए अहयं जुम्मी जाओ तत्थ सिजसो जुगलिणी जाया // तो अहयं सिज्जंसजीव सोहम्मे कप्पे देवा // तो अहयं अवरविदेहे विज्जपुत्तो सिज्जंसो पुण जुण्णसिट्ठिपुत्तो केसवाभिहाणो छ8ो मित्तो // तो दुवे अच्चुए सग्गे देवा // तो अहयं पौंडरिकिणीए नयरीए वयरणामो सिज्जंसो तत्थ ममं सारही / तो सव्वट्ठसिद्धिविमाणे दुवे देवा भित्ते // तो अहयं रिसह नामा नाभिकुलकर पुत्तो सिज्जसजीवो पुण बाहुबलिपुत्तस्स सोमयसस्स पुत्तो सिज सो जाओ॥ श्रेयांसेनाऽमुना पूर्व दृष्ट्वा पूर्व भवानिति / अहं पारणकं चेचरसेन कारितो ध्र वम् // 10 // तदेति बहवो भव्य-जीवाः श्रुत्वा प्रभूदितम् / विशुद्धसंयतश्राद्ध-धर्म प्रपेदिरे मुदा // 11 // भरतोऽपि प्रभोर्वाणों श्रुत्वा दध्याविदं हृदि / कदा ममात्र वैराग्यं भविष्यति शिवप्रदम् ? // 12 // बहवश्व प्रभोः पार्चे लात्वा श्री संयमं वरम् / सेवा वितन्वते वैया-वृत्यादिकरणाद् दृढम् // 13 // श्रेयांसः प्रभुणा सार्द्ध विहारं भुवि नित्यशः / कुर्वन् शत्रुञ्जये तीर्थे जगामानघमानसः // 14 // तत्र वितन्वतो ध्यानं शुक्ल श्रेयांसभूपतेः / उत्पन्नं केवलज्ञानं विश्वत्रयप्रकाशकम् // 15 // तत्रैत्य कमलो नामा श्रेयांसस्थ तनूभवः / श्रेयांसाह विहारंतु कारयामास रेव्ययात् // 16 / / तत्र प्रथमदेवस्थ बिम् रत्नमय वरम् / अतिष्ठपत् मुदा पुत्रः श्रेयांसस्य शुभेऽहनि // 17 // श्रेयांसः केवली भूरि-साधुश्रोणि समन्वितः / शत्रुञ्जये समायातो बोधयन् भविनो बहून् / / 18 / / श्रेयांसः केवली भूरीन् भव्यान् प्रयोध्य सगिरा / अप्रेषयत् शिवावासं सर्वकर्मविमोचनात् // 16 // क्षीणका क्रमात् मुक्तिं यदा श्रेयांस ईयिवान् / तदा शतत्रयं वाचं-यमाः शिवपुरीं ययुः // 20 // श्रेयांसनन्दनाः पञ्च प्राप्य दीक्षां जिनान्तिके / शत्रुञ्जये ययुमुक्ति-नगर्यां तमसा क्षयात् // 21 // श्रेयांसपुत्रपुत्राश्च विंशतिर्मदनादयः / तीर्थे शत्रुञ्जये यात्रां चक्र विस्तरतः क्रमात् // 22 // तेषां मध्ये शिवं जग्मु-र्दश सिद्धमहीधरे सर्वार्थाढ विमाने तु दशापि प्रययुस्ततः // 23 // ॐ इति श्रेयांसकुमारसम्बन्ध: *