________________ 102 शत्रुञ्जय-कल्पवृत्तौ 1000000000000000000 यत्कृते कुरुते लोकः पापं दुष्कर्मणेरितः / तदेह नलिनी पत्र-स्थितबन्धचलाचलम् // 54 // संसारखाले दुर्गधे शृङ्गाररसपिच्छले / जानन्तोऽपि निमञ्जन्ति गर्ताशूकरवजनाः // 55 // षष्टिं वर्षसहस्त्राणि भ्रामं भ्रामं धरातले / कलेवरस्याऽस्य कृते धिगकृत्यं मया कृतम् / / 56 / / धन्यो बाहुबलिर्वीरो धन्या अन्येऽपि बान्धवाः / यदि सारममी त्यक्त्वा संसारं मुक्तिमासदन // 57 / / राज्यं चलाचलं प्राज्यं यौवनं च पवापतम् / लक्ष्मीश्चराचरा यत्र भवे तत्र स्थिरं कथम् / / 58|| माता पिता कलत्राणि बान्धवाः पुत्रसम्पदः / जन्तूनां भवकूपान्तः-पता कोऽपि नाऽविता // 59 // अनित्यमारोग्यमनित्ययौवनं विभूतयो जीवितमप्यनित्यम् / अनित्यताभिप्रहतस्य जन्तोः कथं रतिः कामगुणेषु जायते ? // 6 // इत्यादि भावनाभावा-दनित्यं भावयन् हृदि / भरतः परविद्वारि-मग्नोऽजनि दृढं तदा // 61 // सुध्यानपारदं देह-भाजने न्यस्य चक्रिराट् / सुभाववह्निना पक्वं चक्र कल्याणसिद्धये // 62 // क्षपकोणिमारूढः क्षपन् दुःकर्मसन्ततिम् / भरतः केवलज्ञानं प्रपेदे विश्वबोधकम् // 63 // .. उपेत्य तत्क्षणाद् देव-नाथेन कुर्वता महः / यतिलिङ्ग वितीर्णं तु रुचिरे हेमविष्टरे // 64 // उपविश्यादिमश्चक्री दिदेश धर्मदेशनाम् / तथा यथाऽभवद्भरि नृणां वैराग्यमञ्जसा // 65 // ॥युग्मम्।। नृपा दश सहस्राणि भरतस्यान्तिके व्रतम् / लात्वा तदा तपस्तेपु-रुग्रं भवश्छिदे // 66 / / धर्म प्रबोधयन् भव्यान् पूर्व लक्षं च वत्सरान् / भरतर्षिर्ययावष्टा-पदे तीर्थे शिवप्रदे // 67|| कृत्वा चतुर्विधाहारं मासान्ते भरतो यतिः / अलञ्चक शिवं क्षेत्र सिद्धानन्तचतुष्टयः॥६८|| तदान्ये साधवो भूरि-लक्षाणि पातकक्षयात् / जग्मुरष्टापदे तीर्थे मुक्तिपुर्यां शिलोच्चये // 69 / / तस्मिन् गिरौ सुरा एत्य भरतादितपस्विनाम् / निर्वाणगमना तो-त्सवं विदधिरे मुंदा / / 70 // उक्त च-"भरतः पूर्वलक्षाणां कौमार्ये सप्त सप्ततिम् / सहस्र शरदामेकं मण्डलीकत्वमाश्रयत् // 1 // एकवर्षसहस्रोन-पूर्वलक्षाणि षट् तथा / स चकवर्तित्वमपात पूर्वलक्षं च केवलम् // 2 // पूर्वलक्षाणि चतुर-शीति सर्वायुरप्यथ / प्रपूर्य भरतो मुक्ति-पुर्यां तत्र समीयिवान् // 3 // गिरावष्टापदे भूरि-सङ्घयुग भरताङ्गभूः / नृपः सूर्ययशो देवान् नत्वाऽऽनर्च सुमैवरैः // 4 // " यानि श्री धर्मकृत्यानि भरतो विदधे नृपः / तेषां सङ्ख्यां गिरां देवो न वेत्ति न कविः पुनः // 71 // .इति श्री भरतचक्रिसम्बन्धः संक्षेपतोऽलेखि मया - // अथ श्रेयांसकुमारसम्बन्धः // अन्ये धुर्विशन् स्वामी वृषभः प्रथमः प्रभुः / पुरे गजपुरे बाह्यो-द्याने तु समवासरत् // 1 // तदा तत्राभवद् बाहुबलेः सोमयशाः सुतः / तस्य श्रेयांसनामा तु सुतो राज्यं नयाद् व्यधात् // 2 // प्रभु समागतं श्रुत्वा श्रेयांसो मेदिनीपतिः / गत्वा तत्र जिनं नत्वा धर्ममित्यशृणोन्मुदा // 3 // राज्यं सुसम्पदो भोगाः कुले जन्म सुरूपता / पाण्डित्यमायुरारोग्यं धर्मस्यैतत्फलं (विदुः) // 4 //