________________ 16 शत्रुञ्जय-कल्पवृत्ती 0000000000000 000000000000000000000000000 हिंसन् जीवान् वनेऽन्येद्यः कायोत्सर्गस्थितं मुनिम् / दृष्ट्वाऽप्राक्षीत् मृगो गच्छन् दृष्टोऽत्र भवता नवा // 66 // कृपात्मा स मुनिः प्राह या पश्यति न वक्ति सा / यच्च वक्ति न पश्येत्तत् कथं वच्म्यहकं वद ? // 67|| ततो रुष्ट न भिल्लेन मार्गणैनिहतो मुनिः / स्मरन्नमस्कृति सद्यः परलोकमसाधयत् // 68 // ततो भिल्लो वजन्नग्रे दृष्ट्वा धावन् हरि प्रति / सिंहेन निहतः पृथ्व्यां पपात गिरिकूटवत् // 69 / / मयाद्याऽघाति निःपापो निरागा मुनिपुङ्गवः / इदं तत्फलमायातं दध्यौ भिल्लः स्वचेतसि ||70 // स मृत्वा सप्तमी भूमि साधुघातजपातकात् / ययौ सेहे च दुःखानि त्रयस्त्रिंशत् पयोनिधीन् // 71 / / ततो निर्गत्य सिंहादि-भवान भूरीन भ्रमन् क्रमात् / भिल्ल जीवो ययौ श्वभ्रे तीव्र-दुःखौघमन्दिरे // 72 // प्रान्तस्मृतमुनिवध-कृतदुःकृतगर्हणः / निर्गत्य नरकात्पुत्रो नीलाहस्तेऽभवत् सुतः / / 73 / / यतः-स्वयं कृतस्य पापस्य निन्दया गर्हणात् पुनः / जीवा भवन्ति निःपापाः स्वर्गभाजो भवन्ति च // 74 // तवासौ तनयो भिल्ल भवे मुनेर्वधात्तमः। अर्जयत् यत् तदेवान्ते निनिन्द स्वयमञ्जसा // 7 // यत्पुण्यात्ते सुतो जातः कुले नीलाभिधो नृप ! / अवशिष्टेन पापेन सूनोदुस्थं समागमत् // 76 / / * इति नीलपुत्र-सम्बन्धः * // अथ महानीलस्य द्वितीयपुत्रस्य सम्बन्धः // कङ्कापुर्यामभूभीम-भूपस्य सेवको धनः / सो प्राप्नुवन्निजं ग्राम सचिवान् हन्तुमिच्छति // 1 // दारिद्योपहतोऽन्येय-र्जिमन धनोऽन्नमध्यतः / असारं प्रत्यजन् दृष्ट्वा पत्न्या प्रोक्तमिदं तदा // 2 // त्वया तु यादृशं धान्यमानीयेत पते ! गृहे / तादृशं पक्तमेवास्ति नक्रं किं मोठ्यते त्वया ? // 3 // आकण्येतद् धनः क्रुद्धो महता लेष्टुना तथा / जघान गेहिनी मृत्यु मगमन्मूच्छिता यथा // 4 // धनेन निहतां पत्नी ज्ञात्वा तं राजसेवकाः / बद्ध वा भूपान्तिके निन्युः जगुश्च गहिनीवधम् / / 5 / / राजादेशात्तलारेण शूलायां रोपितो धनः / मुनिदत्तं नमस्कार सस्मारकाग्रमानसः // 6 // पूर्व बद्धकुकर्मत्वात् षष्ठी पृथ्वी समेत्य सः / नमस्कारस्मृतेर्जातो महानीलाभिधाङ्गजः // 7 // यतः-"निःशरण्या सदाभीरु-घातनीयापि नाबला / यतः सा कुपिता लोक-द्वयघाताय जायते // 8 / * इति महानीलस्य द्वितीयपुत्रस्य सम्बन्धः // अथ कालपुत्र सम्बन्धः / / धर्माहनगरे धीर-महेभ्य नन्दनो हरः / कामान्धः सेवते नारी -बलाद् द्रव्येण वा क्वचित् // 1 // द्रव्ययौवनगर्नेण गुरुदेवाभिनिन्दकः / धम्म घातकरः पित्रो-राज्ञां न मन्यते मनाग / / 2 // गुरुदेवादिपितृ णां कुर्वनिन्दा निरन्तरम् / हरः क राशयो भृत्वा चाण्डालोऽजनि पापतः // 3 // ततो मृत्वाऽगमत् श्वभ्र ततो व्याघ्रोऽभवद्वने / ततश्च नारकी जातो भूरिदुःखौघभाजनम् // 4 // यतः-न बोधिवीजं नो म तिर्न स्वर्गः कुशलं न हि / शुक्लद्रव्यस्य नो लब्धि-देवनिन्दापरस्य तु // 1 // मूकत्वम् काहलत्वम् च लूताकुष्ठादिदोषजाः / म खरोगाः सप्तपष्टिर्जायन्ते जिननिन्दया / /