________________ महाकालसम्बन्धश्चतुर्थः 67 000000 10000000000000000000000000000 0000000000000000000000000000000000000 अयशोऽकालमरणं दुःखं वक्त्रविगन्धता / लूतातन्तुमुखा दोषा जायन्ते गुरुनिन्दया // 6 // संसारी नरके तिर्यग-भवे स्यात् स पुनः पुनः / धर्मिणां निन्दको नैव लभते मानुषं भवम् // 7 // त्रयाणामपि यस्तेषां निन्दको घोरपातकी / तस्य संसर्गमात्रेण मलिनाः स्युः परेऽपि हि // 8 // अस्मत्कुलकलङ्काय नन्दनोऽयं भविष्यति / ध्यात्वेतीम्येन स त्यक्तो दूरे तस्करवद् गृहात् / / 9 / / स लूतामुखपाकेन प्रान्ते वेदनयाऽर्दितः / मृत्वा कालाभिधः पुत्र स्तवायमभवत् क्रमात् // 10 // * इति कालपुत्रसम्बन्ध: * // अथ महाकालसम्बन्धश्चतुर्थः / / कुल्यपुर्यां मुकुन्दस्य द्विजस्याऽभूद्धरिसुतः। भिक्षोपजीवितां याच्या-परो दुःखस्य भाजनम् // 1 // देशाद्देशं भ्रमन् विप्रो दुःपूरोदरपूर्तये / सार्वार्चकस्य कस्यापि गेहे किङ्करतां श्रितः // 2 // सोऽन्यदाऽऽदाय सर्वज्ञ-भूषणानि दिनात्यये / लात्वा विक्रीय वक्षस्त्रं (!) बभार वाडवाधमः // 3 // साधोरप्युपकरणानि लात्वा विक्रीय वाडवः / वेश्याऽऽसक्तो ददौ तस्मै तद्धनं कामविह्वलः // 4 // तदैकेऽऽनाहतेनोक्तगुरु -देवधनादनात् / लभते नरकं घोरं जीवः संसारभाग भवेत् // 5 // देवद्रव्यं गुरुद्रव्यं दहेदाऽऽसप्तमं कुलम् / विषं वा तैलसम्मिश्रं भोज्यं देवधनं न तु // 6 // देवद्रव्यविनाशेन प्रथमं नरकं व्रजेत् / सप्तवारान्नरस्तीव्र दुःखलक्षं व्यथार्दितः // 7 // यथान्ने विषसंसर्गो दुग्धे कञ्जिकसङ्गमः / तथाऽऽत्मनो धनेनोच्चैः संसर्गो गुरुसम्पदाम् // 8 // जीविताशाऽस्ति या देव-गुरुद्रव्येण देहिनः / धत्तुरकरमोन्मिश्र-विद्यास्वादोद्भवा हि सा // 9 // "भक्खणे देवदव्वस्स, परत्थीगमणेण य / सत्तमं नरयं जंति, सत्तवारा य गोयमा !" // 10 // वारितोऽपि द्विजोऽन्येन देवगुर्योधनं हरन् / न तस्थौ नरके तस्मात् पापान्मृत्वाऽगमत् क्रमात् // 11 // ततो निर्गत्य चाण्डालो भूत्वा कृत्वा तमो बहु / पुनः श्वभ्र ययौ विप्र-जीवोऽहिरभवत्ततः // 12 // सोऽप्येकदा मुनेरास्यान् ग्रियन् श्रुत्वा नमस्कृतिम् / महाकालाभिधः पुत्र स्तवाजनिष्ट साम्प्रतम् // 13 // इति महाकालपुत्रसम्बन्धश्चतुर्थः * // अथ शत्रुञ्जयानदीप्रभावे शान्तनभूपकथा / / एतेषां तव पुत्राणामवशिष्टेन साधुना / श्रितं राज्यं ततः कुर्या मा चिन्तां मरणेऽधमे // 1 // शान्तनोऽवक् कथं तस्मात् पापात् स्यान् मम छुट्टनम् / पुत्राणां च कथं तेभ्यः पापेभ्यः छुट्टनं पुनः / / 2 / / गुरुराचष्ट सिद्धाद्रौ गच्छ साधं तनूभवैः / गच्छतश्च तनूजानां पापमुक्तिर्भविष्यति // 3 // शत्रुञ्जया नदी वरा स्नात्वा तत्पयसा पुनः / स्नात्रं कुरु प्रभोर्भक्त्या सर्वपातकपिष्टये // 4 //