________________ नीलपुत्र-सम्बन्धः 65 100000000000000 यो दृष्टो दुरितं हन्ति प्रणतो दुर्गतिद्वयम् / सङ्केशार्हन्त्यपदकृत् स जीयात् विमलाचलः // 36 // यस्मिन्नदीपयोमृत्स्ना-वृक्षाद्यौषधयोऽखिलाः / रोगादिव्याधिहन्यः स्युः श्रियो दान्यः पदे पदे // 37 // यतः-शत्रुञ्जयनदीमृत्स्नाः स्पृष्टा रोगापहाः स्मृताः / कादम्बोपधिभिर्माताः प्राप्नुवन्ति च हेमताम् // 38 // तस्यास्तीरद्र मफला-न्यास्वदन्ति नराश्च ये / एतत्पयोऽपि नियमा-दामासावधि ये पपुः // 36 // ते वातपित्तकुष्ठादि-रोगान् जित्वैव हेलया / स्वं वपुस्तप्तहेमाभं प्राप्नुवन्ति सुकान्तिमत् / / 40 / / युग्मम्॥ यजलस्नानतो यान्ति पापान्यपि शरीरतः / का कथा वातपित्तादे यंद-साध्यस्यागदैरपि / '41 // सर्वतीर्थफलावाप्ति-प्रतिभूरियमङ्गिनाम् / सर्वपापहरः स्पर्शा-दपि शत्रुञ्जया नदी // 42 // यस्या नद्याः पयःस्पर्शाद् गदस्य चाम्बुपानतः / लेभिरे सुखसङ्घातं शान्तनक्षमापसूनुवत् // 43 // श्रीपुरे शान्तनक्षोणि-पतेः शीलप्रिया प्रियो / स्वप्नेऽद्य धूसरं वह्नि वीक्ष्याह पत्युरग्रतः // 44 // तयाऽसावि सुतो नील-नामा यदा शितिद्य तिः / तदा च भूपतेः कुम्भि-सैन्यं क्षयमुपाययौ // 45 // महानीलाभिधः कालो महाकालाह्वयोऽपरः / दुःस्वप्नसूचिता एते यदाऽभूवन सुताः क्रमात् // 46 // तदाश्वाङ्ग धनं मन्त्रि-मुख्याश्च निधनं ययुः / ततोऽकस्मात् परबलै-वेष्टितं नगरं हि तत् // 47 // प्रक्षीणकोशदण्डः सन् निशायां शान्तनो नृपः / पत्नीपुत्रयुतो नष्ट्वा ययौ क्वापि पुरे रहः // 48 // चत्वारस्तनयाः सप्त-व्यसनग्रस्तचेतसः / कुर्वन्ति न मनाग धर्म पापं च कुर्व ते सदा // 49 // यतः-"द्य तं मासं सुरा वेश्या चौयं पापर्द्धिसेवनम् / परस्त्रीषु रतिः सप्तव्यसनो दुःखदा ह्यसौ // 1 // " द्य तात् सर्वाणि जायन्ते व्यसनानि पराण्यपि / लोकद्वयाहिनकर तस्माद् द्य तं त्यजेद्ध धः॥५०॥ द्य तेनापयशो धर्म-बन्धुवगेकुलक्षयः / भवेत् तैरश्चनरक-गतिदु:खौघदायिनी // 51 // गोमायुश्च पिशाचास्ते ज्ञेया नरकगामिनः / जिह्वास्वादरसान्मांसं ये यदश्नन्ति दुर्धियः // 52 // ते गत्वा नरके छेद-भेदकुम्भ्यादिपाकजाम् / वेदनां दुःशकां बाढं सहन्ते बहुकालतः // 53 // कुरूपोः करधिषणाः कुसंसर्गपराश्च ते / राजानं मुमुचु व कुग्रहा इव वक्रगाः // 54 // तेः कुपुत्रेः समं भूपो भ्रमन् पुरात् पुरं प्रति / लभन्ते स्थानकं नैव कुत्रापि विषये मनाम् // 55 / / विप्रतार्य कुतोऽप्येनं पत्नी पुत्रसमन्विताम् / करिष्याम्यहकं स्वायुःशेषमद्यात्मनो वधात् // 56 // ध्यात्वेति भृगुपाताय महाशैलाभिधं गिरिम् / श्रारूढः शान्तनोऽपश्यद् जिनायतनमुत्तमम् // 57 // प्राणप्रयाणके वाञ्छन् शम्बलं सुखहेतवे / कुटुम्बयुग ययौ चेत्ये सम्प्रतेरहंतस्तदा / / 58 // नत्वाऽर्हच्चरणौ भक्त्या नमस्यन्तं जनं वरम् / ददर्श शान्तनः क्षमापः सर्वकुटुम्बसंयुतः // 56 // तस्येक्षणाद्धरानाथः समुत्पन्नसुवासनः / अनंसीत् जिनपं तत्वा-दैक्यं कुर्वन् जिनात्मनोः // 60 // ... यतः -अल्पापि मनःशुद्धया जिनभक्तिर्विनिर्मिता / इहलोकेऽपि यत् सात दायिनी परलोकवत् // 61 // पूर्वायातो नरः प्राह शेषोऽहं जिनसेवकः / तुष्टोऽस्मि जिनभक्त्या ते वरं ब्र हि यथेप्सितम् // 62 // ततो भूपो जगौ हृष्टोऽस्म्यहं शेष ! तवेक्षणात् / सम्पदो निखिला हस्ते मामके सापागताः // 63 / / मम पुत्रपु जातेषु गजादिसर्वसम्पदाम् / श्रादो नाशः कथं जातः प्रसद्य त्वं निवेदय // 64 // धरणेन्द्रो ज़गो पल्या भिल्लेोऽभूत् कमलाभिधः / क्रराशयोऽशुभध्याना-धारो ध्वस्ताङ्गिसञ्चयः // 65 //