________________ 64 शत्रुञ्जय-कल्पवृत्ती .0000000000 .0000000000004m ये चात्र पक्षिणः सन्ति क्षुद्रा अन्येऽपि जन्तवः / हिंसका अपि सेत्स्यन्ति ते भवैस्त्रिभिरुत्तमाः // 8 // अभव्याः पापिनो जीवा नामु पश्यन्ति पर्वतम् / लभ्यते चापि राज्यादि नेदं तीर्थं हि लभ्यते // 6 // मुक्त षु तीर्थनाथेषु गते ज्ञाने महीतले / लोकानां तारकः सोऽयं श्रवणोत् कीर्तनादपि // 10 // दुःषमाख्येऽपि समये गते ज्ञानेऽपि केवले / धर्मे विसंस्थूले जाते तीर्थमेतजगद्धितम् // 11 // अत्राहेतां कृता पूजा स्तुतिपुष्पाक्षतादिभिः / प्रासंसारं कृतं पापं प्राणिनां हि व्यपोहति // 12 // यतः--पूजाऽर्हतो गुरोर्भक्तिः श्रीशत्रुञ्जयसेवनम् / चतुर्विधस्य सङ्घस्य सङ्गमः सुकृतैर्भवेत् // 13 // येनात्र गुरवो वस्त्र-भक्तदानादिभिमुदा / सन्मानिता लभिष्यन्ते ते स्वर्गशिवसम्पदः // 14 // यतः-वस्त्रान्नजलदानेन गुरोः शत्रुञ्जये गिरौ / इहापि परलोकेऽपि जनाः सुखजुषोऽभवन् / / 15 / / सङ्घपादरजो यस्य शिरः स्पृशति देहिनः / तीर्थसेवाफलं तस्य पवित्रस्य भवत्यहो ? // 16 / / शत्रुञ्जयादितीर्थेषु प्रासादान् प्रतिमाश्च ये / कारयन्ति हि तत्पुण्यं ज्ञानिनो यदि जानते // 17 // कारयन्ति जिनानां ये तृणावासानपि स्फुटम् / अखण्डितविमानानि लभन्ते ते त्रिविष्टपे // 18 // .. श्रुत्वेति गणभृन्मुखाजनास्तत्र जिनान्तिके / जगुस्तीर्थमिदं वर्ष वर्ष प्रति नमस्यते // 19 // तदा तत्र महीशान-पुराधीशो धनो नृपः / भूरिसङ्घयुतो नन्तु तीर्थदेवान् समागमत् // 20 // सोऽपि भूमीपतिमुख्य-प्रासादे प्रथमं जिनम् / पूजयित्वा सुमैय-स्तुतिं चक्र मनोहराम् // 21 // ततो गत्वा जिनोपान्ते धर्म श्रोतु नरेश्वरः / उपविशधदा ताव-जिनाधीशो जगावदः // 22 // निद्रान्ते परमेष्ठिसंस्मृतिरथो देवार्चनव्यापृतिः, साधुभ्यः प्रणतिः प्रमादविरतिः सिद्धान्ततत्त्वश्रुतिः / सर्वस्योपकृतिः शुचिव्यवहृतिः सत्यात्तदाने रतिः, श्रेयो निर्मलधर्मकर्मनिरतिः श्लाध्या नराणां स्थितिः // 23 // पादमायान्निधिं कुर्यात् पादं वित्ताय घट्टयेत् / धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे // 24 // दिने दिने मङ्गलमज लाली सुसंपदः सौख्यपरम्परा च / इष्टार्थसिद्धिबहुला च बुद्धिः सर्वत्र वृद्धिःसृजतां च धर्म कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च / इदं तीर्थ समासाद्य तिर्यञ्चोऽपि दिवं गताः // 26 // शत्रुञ्जये जिने दृष्टे दुर्गतिद्वितयं क्षिपेत् / सागराणां सहस्रच पूजास्नात्रविधानतः // 27 // "छ?णं भत्तेणं अपाणएणं तु सत्त जत्तानो / जो कुशइ सित्त जे सो तइयभवे लहइ मोक्खं // 1 // जो गुणइ लक्खमेगं पूयइ विहिइं च जिणनमुकारं / तित्थयरनामगोयं सो बंधइ नत्यि संदेहो // 2 // " श्रुत्वेति भूरि भव्यानां षष्ठादिकं तपोऽनिशम् / कुर्वतामभवज्ञानं पञ्चमं च शिवं ततः / / 28|| केचिद्भवान्तरे गत्वा सर्वार्थसिद्धिमन्दिरे / प्राप्य मर्यजनि मुक्तिं गमिष्यन्ति न संशयः // 26 // राजाइन्या अधोऽस्याश्च ध्यायन्तः परमं पदम् / असङ्ख्याता ययुर्यान्ति यास्यन्ति शिवपत्तने / 30 // श्रुत्वेति धनभूपस्ता लाजैर्यावदवर्द्धयत् / तावद् ववर्ष दुग्धं सा सङ्घ शस्योपरि स्फुटम् // 31 // यतिन्योऽपि तदा बह्वयः सम्प्राप्य ज्ञानमन्तिमम् / अलञ्चक्रः शिवं क्षेत्र-मनन्तसुखदायकम् // 32 // ततोऽन्यत्र युगादीशो भव्यान् बोधयितुं जनान् / विहारं विदधे भूरि-वाचंयम सुरश्रितः // 33 / / अन्यदा चक्रिराडायः कमलाचार्य-सन्निधौ / सुश्रावेति जिनप्रोक्त धम्म जीवदयामयम् // 34 // तथाहि-शत्रुमदनभूपस्य पुरतोऽन्येधुरादरात् / श्रुतशेखर सूरीशाः प्रददुधम्म देशनाम् // 35 //