________________ नीलपुत्र-सम्बन्धः 63 100000000000000000000000000 धर्मस्य जननी जीव-दया मान्या सुरासुरैः / तस्मात्तद्वैरिणी हिंसां नाद्रियेत सुधीर्नरः // 51 // दानं तपो देवपूजा शीलं सत्यं जपः पुनः / सर्वमप्यफलं तस्य यो हिंसां न परित्यजेत् // 52 // कण्टकेनापि संविद्धो देहो दूयेत निश्चितम् / तत्कथं शस्त्रसङ्घातै-हन्यते हि परो जनः // 53 // दयां विनापि मन्यन्ते ये धर्म मूर्खशेखराः / वन्ध्यायां तनयं तेऽपि जनयन्ति विसंस्थूलाः // 54 // दयैव हि परो धर्मो दयैव हि परं श्रुतम् / दयां विनाऽखिलो धर्मो भवेन्निःफल एव तु / / 5 / / नाद्रियेत कृतघ्नत्व-माद्रियेत कृतज्ञताम् / स्वोपकारिणि धम्में त-दादरं कुरुते भवी // 56 // इत्यादि धम्म-माकण्य बहवो भव्यमानवाः / जगृहः संयम स्वर्गा-पवर्गसुखदायकम् / / 57 // केचिच्च मानवाः श्राद्ध-धर्म द्वादशधा मुदा / प्रादयुर्जीवरक्षाद्य-तिथिदानादिकं व्रतम् // 58|| तेन केवलिना भव्या बोधिता बहवः क्रमात् / शत्रुञ्जयाचले क्षिप्त्वा कर्माऽशेष शिवं ययुः / / 5 / / धरापालसुतश्चन्द्रोऽमात्यै राज्ये निवेशितः / मेदिनीं पालयामास न्यायमार्गेण सन्ततम् // 60 // इतः प्रबोध्य भूयिष्ठ-भव्यान् धर्मे जिनोदिते / धरापालः शिवं प्राप शत्रञ्जय-शिलोचये // 6 // धरापालोऽगमद्यत्र मुक्तिं शत्रुञ्जये गिरौ / तत्र चन्द्रो जिनागारं शान्तिनेतुरकारयत् // 62 / / तस्मिन् जिनालये मूर्ति शान्तेहेममयों वराम् / मूत्सवं स्थापयामास धरापालसुतः क्रमात् // 63 // चन्द्रोऽन्यदा गुरूपान्ते सम्यक्त्वस्य फलं वरम् / शुश्रावेति शिवश्रीः स्यात् सम्यक्त्वादेव देहिनाम् // 64 // सम्यग्दर्शनसंशुद्धः सत्पुमानुच्यते बुधैः / सम्यक्त्वेन विना जीवः पशुरेव न संशयः // 65 // सम्यक्त्वं यस्य जीवस्य हस्ते चिन्तामणिर्भवेत् / कल्पवृक्षो गृहे तस्य कामगव्य नुगामिनी // 66 // सम्यक्त्वालङ् कृतो यस्तु मुक्तिश्रीस्तं वरिष्यति / स्वर्गश्रीः स्वयमायाति राज्यलक्ष्मीः सखी भवेत् / / 67 / / एवं सम्यक्त्वमाहात्म्यं श्रुत्वा चन्द्रमहीपतिः / मुक्तिगमोचितं पुण्य-मर्जयामास वेगतः // 68 / मृत्वाऽऽद्यताविषे गत्वा लक्ष्मीपुर्यां महीपतेः / भीमस्य मदनः पुत्रो-ऽजनिष्ट जिनधर्मकृत् // 69 // क्रमाच्छत्रुञ्जये गत्वा श्रीनाभेयार्हतः पुरः / ध्यानं कुर्वन् ययौ मुक्ति सर्वकर्मायुपां क्षयात् / / 70 / / * इति शत्रुञ्जये धरापाल-भूपादीनां मुक्तिगमनम्वरूपम . // नीलपुत्र-सम्बन्धः // गजादन्या अधः स्वामी वृषभः सुरसेवितः पावयन पृथिवीं सिद्ध-पर्वते समवासरत् // 1 // द्वितीयो गणभृच् चन्द्र-सेनो भूयिष्ठसाधुयुग / तत्र तीर्थे समायातो नन्तु तीर्थ जिनान् पुनः // 2 // जतिन्यः सुन्दरीमुख्या वह्वयो भासुरभावतः / तीर्थ नन्तु समायाताः भृरिसाध्वीनिसेविताः // 3 // एकदा वृषभं नत्वा चन्द्रसेनो गणी जग / अस्य तीर्थस्य माहात्म्यं जल्पता भगवन् ! ध्र वम् // 4 // प्रभुर्योजनगामिन्या वाण्या मधुरया तदा / जगाद तीर्थमाहात्म्य मेवं गणभृतः पुरः // 5 // प्राणिभियं समारूढ-र्लोकाग्रमतिदुर्लभम् / अवाप्यते स तीर्थेशः शाश्वतोऽयं गिरिवरः // 6 // अनादितीर्थमेतद्धि सिद्धास्तीर्थकृतोऽत्र च / अनन्ता मुनयश्चापि क्षिप्त्वा स्वं कम्म सञ्चयम् / / 7 / /