________________ 12 .00000000000000.... शत्रुञ्जय-वल्पवृत्ती 00000000000000 तदा नहि धरापालो ददर्श न च योगिनम् / वनं पश्यन् ययौ द्रष्टुमग्रे कौतुकमादरात् // 21 // ततो गच्छन् पुरः कूप-मन्तर्वति बकस्थलम् / ददर्श च नरं तत्र जलस्थं रुचिराकृतिम् / / 22 / / स च प्राह धरापाल ! यद्यस्तीच्छा तव श्रिये / तदाऽत्राऽऽगच्छ दास्यामि तुभ्यं सिद्धिं गरुत्मनः // 23 // कृत्वा साहसं यावद् झम्पां कूपे ददौ रयात् / तावत्कूपोऽभवद् हेम-मयपीठं महत्तमम् // 24 // ततोऽभूत् विस्मितो भूप-सुतो यावत् स्वचेतसि / तावत्तत्रागतो देवो जगादेति च तं प्रति // 25 // त्वत्साहसेन तुष्टोऽस्मि वरं वृणु यथेप्सितम् / कुमारः प्राह कल्याण-सिद्धिं देहि ममाधुना // 26 // ततस्तुष्टेन देवेन स्वर्णसिद्धिर्मनोहरा / ददे तस्मै धरापाल कुमाराय महात्मने // 27 // ततोऽभ्येत्य धरापालो गिरिदुर्गपुरे भ्रमन् / ननामाम्बापितृभ्रातृ-पादान् विनयपूर्वकम् // 28 // सम्प्राप्तहेमविद्यादि-सम्बन्धं निखिलं तदा / प्रोक्त्वा प्रमोदयामास पित्रादीन् स्वजनानपि // 29 // भाग्यवन्तं धरापालं मत्वा तातः सदुत्सवम् / राज्यं वितीर्य जग्राह संयमं गुरुसन्निधौ // 30 // पालयन् संयम भूप-यतिः शत्रुञ्जये गतः / क्षिप्त्वा कर्माखिलं मुक्ति-नगर्यां समुपेयिवान् // 31 // खड्गविद्याप्रभावेन साधयन् पृथिवीं क्रमात् / धरापालः ससाधाऽऽशु भुवः खण्डत्रयं स्फुटम् // 32 // एकदा तस्य देहेऽभूद् गलत्कुष्ठाभिधाऽऽमयः / ततः सो विदधे नाना-प्रकारान्यौषधानि च // 33 // नाभूद् गुणस्ततः प्राणांस्त्यक्त चितां महत्तराम् / विधाय विशति स्माग्नौ कुमारो मारसन्निभः // 34 // तदाऽकस्मात् खगस्तत्रा-भ्येत्य प्राहेति तं प्रति / त्वं किं प्राणांस्त्यजेदानीं प्रविश्य ज्वलने वद // 35 // स्वस्मिन् रोगस्वरूपे तु प्रोक्त तेन खगो जगौ / शत्रुञ्जये जिनस्नात्र-बारि यद्विद्यते वरम् // 36 // तेन कुष्ठ मदीयाङ्गाद् गतं तमो रवेरिव / तदम्बुना वपुस्त्वं वाऽभिषिञ्चाभ्येत्य तत्र च // 37|| त्वदीयो विग्रहो रोग-रहितः सहितः श्रिया / भविष्यत्यचिरात्तीर्थ-प्रभावात् सिद्धपर्वते // 38 / / यतः-"टङ्कणेन यथा हेम जलेन लवणं यथा / तथा शत्रुञ्जयस्मृत्या कर्मपको गलत्यहो ? // 1 // " तमो यथोष्णरुचिना पुण्येन च दरिद्रता / तथा शत्रुञ्जयस्मृत्या विनश्यति कुकर्म तत् // 39 / / कुलिशेन यथा शैलः सिंहेनेव कुरङ्गकः / तथा शत्रुञ्जयस्मृत्या भिद्यते पूर्वकम्म तत् // 40 // आकण्र्यैतत् खगप्रोक्त धरापालः ससोदरः / मेलयित्वा बहुं सङ्घ चचाल शोभनेऽहनि / / 41 / / दिनानां दशकं तत्र स्थित्वा कुर्वन् महोत्सवम् / प्रासादं कारयामास धरापालो महत्तमम् / 42 / / धरापालो जिनं नाभि-नन्दनं शोभनेऽहनि / स्थापयामास तत्रैव प्रासादे भूरिरैव्ययात् // 43 // प्रभोः कृत्वाऽर्चनां पुष्पैः प्रवरैर्वरभङ्गिभिः / ध्यानं कत्त महीपाल उपविष्टो वरोदयः // 44 // तत्रैव ध्यायतस्तस्य भूपस्य नाभिनन्दनम् / केवलज्ञानमुत्पन्नं लोकालोकावलोककम् // 45 // तत्राभ्येत्याऽमराधीशै-विहिते स्वर्णवारिजे / धरापालो गृहीत्वाऽद्य साधुवेषं ह्यु पाविशत् / / 46 // उपविष्टेषु भूयिष्ठ-श्राद्धेषु स च केवली / धर्मोपदेशमादातु प्राववर्ते कृपापरः // 47 / तथाहि-धर्मादाऽऽसाद्यते राज्यं धर्माद् देवत्वमाप्यते / धर्मादेव शिवप्राप्तिः धर्मः सेव्यस्ततो बुधैः॥४८॥ धम्मों मङ्गलमुत्कृष्टं धर्मः स्वर्गापवर्गदः / धर्मः संसारकान्तारो-ल्लङ्घने मार्गदेशकः // 49 // धर्मो मातेव पुष्णाति धर्मः पाति पितेव सः / प्रीणाति पुत्रवद् धर्मः धर्मः स्निह्यति बन्धुवत् // 50 //